Book Title: Shaddarshan Samucchaya
Author(s): Damodar Pandit
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
सटीके षड्दर्शनसमुच्चये
संस्कार इति । इह परभवविषय संतानपदार्थनिरीक्षण प्रबुद्ध पूर्वभावानुरूप संस्कारस्य प्रयातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः ।
यदाह -
' यस्मिन्नेव हि सन्तान आहिता कर्मवासना | hi aa red कार्पासे रक्तता यथा ॥ इति । रूपमिति । रगरगायमाणपरमाणुश्चयः, बौद्धमते हि स्थूलरूपस्य जगति वर्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणत्वात् परमाणव एव तात्त्विकाः चः पुनरर्थः एवेति पूरणार्थः ॥ ५ ॥
दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्यार्थसमुदायतत्त्व
रूपमाह
समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ||६|| यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति, कीदृग् ? इत्याह - आत्मात्मोयस्वभावाख्यः, अयमात्माऽयञ्चात्मीयः, पदसमुदायोपचारादयं परोsयञ्च परकीय इत्यादिभावो रागद्वेपनिबन्धनं तदाख्यस्तन्मूलो रागादीनां गणः आत्मात्मीयरूपेण रागरूपः परकीयपरिणामेन द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं सम्मतो बौद्धदर्शनेऽभिमत इति ॥ ६ ॥ अथ तृतीयचतुर्थतत्वे प्रपञ्चयन्नाह -
क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ॥ ७ ॥ सर्वसंस्काराः क्षणिकाः, सर्वेषां विश्वत्रयविवर विवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स एवायमित्याघुलेखन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः; यत्प्रमाणयन्ति सर्वं सत् क्षणिकमक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति वादस्थलमप्यूह्यं क्षणिकत्वाविशेषकम्,

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85