Page #1
--------------------------------------------------------------------------
________________
THE FREE INDOLOGICAL
COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC
FAIR USE DECLARATION
This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website.
Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility.
If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately.
-The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
-
T
-
-
॥ श्रीः॥ चौखम्बा-संस्कृत-ग्रन्थमाला
(ग्रन्थ संख्या २७)
आहतप्रवरश्रीहरिभद्रसूरिरचितः
BARH
BE
षड्दर्शनसमुच्चयः
(बौद्ध-नैयायिक-कापिल-जैन-वैशेषिक-जैमिनीय
दर्शनसंक्षिप्तनिरूपणो निबन्धः) परमाहतमणिभद्रकृतलघुवृत्तिसमाख्यया व्याख्यया सहितः
कलियुगजनपावनावतारभक्तजीवजीवातुपरपुमर्थ प्रेमवितरणपरायण श्री १०८ भगवत्कृष्णचैतन्यचरणोपदिष्टैकवीथीपथिकेन श्री ६ मध्वसम्प्रदाया
चार्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतर्करत्नन्यायरत्नगोस्वामिश्रीदामोदरशास्त्रिणा संशोधितः
चौखम्बा संस्कृत सीरिज आफिस, वनारसः ।
सं० २०१३] [ई०.१९५७
Page #4
--------------------------------------------------------------------------
________________
प्रकाशकःजयकृष्णदास हरिदास गुप्तः, चौखम्बा-संस्कृत-सीरिज आफिस,
पो० बा० नं०८, बनारस-१
(पुनर्मुद्रणादिकाः सर्वेऽधिकाराः प्रकाशकाधीनाः )
( तृतीयावृत्तिः)
मूल्यं २)
मुद्रक :विद्याविलास प्रेस,
बनारस-१
Page #5
--------------------------------------------------------------------------
________________
THE
CHOWKHAMBA SANSKRIT SERIES,
IX
JYVA
B
1
COLLBETION OF RARE & EXTRAORDINARY SANSKRIT Wókas.
NO. 95
S'ADDARS'ANASAMUCHCHAYA
16
10
BY
S'RI HARIBHADRASURI: WITH THE LACHUVRITTI COMMENTARY
BY S'RI MANIBHADRA.
Edited By SAHITYA DARSHANĀDYĀCHĀRYA TARKARATNA NYĀYARATNA
GOSWĀMĪ DAMODARA S'ASTRI
PUBLISHED BY JAYA KRISHNADAS HARIDAS GUPTA The Chowkhambx Sanskrit Series office,
BANARAS
1957
Page #6
--------------------------------------------------------------------------
________________
* श्री
आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभन्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतप्रन्थमाला मञ्जलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥
Printed by Jaya Krishna Das Gupta at the Vidya Vilas Press, Banaras.
Page #7
--------------------------------------------------------------------------
________________
श्रीश्रीगौरकृष्णः शरणम् ।
भूमिका। अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य ।
तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥ अयि षड्दर्शनीवल्लभाः!
लभतां ननु भवतामासेचनकतां चिररात्राय चिन्वानायास्तन्वानायाश्च हृद्यायाः किल वोऽस्याः षड्दर्शन्याः समुढेलोत्कण्ठोदधेरुद्ग्रीविकासहस्रप्रदानं श्रीमतामात्मदर्शनाय सौखप्रकटनिकता भवत्सु पदम् ।।
न हि खलु सर्वदर्शनसंग्रहादिजातीय निबन्धैः समं पास्पर्द्धदयं निबन्धो नामाकर्णनमात्रजनुर्धमैर्भवादशैर्हेलालवमपि जामितासध्रीचीनं नेयस्तत्त्वनिभालनमार्मिकतास्वयंवृतैः, नयनाञ्चलार्पणायासमात्रेण चेदमीयरहस्यमनुबोभुवतो भवन्तो भविष्यन्ति, कृतमर्थवादविडम्बनेन । ___ अयञ्च निवन्धः सप्ताशीत्या पद्यैर्निर्मितो ग्रन्थका षड्दर्शनसमुच्चयनाम्ना प्रसेधितः, दर्शनपदार्थश्चैतादृशस्थले दृश्यते ज्ञायत आत्माऽनेनेति ज्ञानसामान्यार्थकात् पश्यतेः करणल्युटा निष्पन्नदर्शनपदजन्यज्ञानविषयः चेतनवस्तुविचारप्रवणागमात्मकः, दर्शनगतषसंख्याविधायां तु तैथिकानां भूयांसि मतानि
केचित् खलु पूर्वोत्तरमीमांसाद्वयं निरीश्वरसेश्वरसांख्यद्वयं षोडशसप्तपदार्थाख्यायिन्यायद्वयं चेति मिलितानि दर्शनषटकं प्राहुः।
अन्ये पुनः सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकप्रभेदबौद्धेन जैनलौकायतिकाभ्याञ्च पूर्वदर्शनषट्कं द्वादशदर्शनी प्रतिजानते ।
परे तु मीमांसकसांख्यनैयायिकबौद्धजैनचार्वाकाणां दर्शनानि षड्दर्शनी संगिरन्ते । प्रकृतनिबन्धकारस्तु
बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा। जैमिनीयञ्च नामानि दर्शनानाममून्यहो ॥
इति तृतीयकारिकायां प्रकारान्तरमेवान्वसरद् । अपराणि चापि दर्शनान्येकेऽमन्यन्त, यानि सर्वदर्शनसंग्रहसर्वदर्शनशिरोमण्यादिनिबन्धेषु व्यक्तानि; परन्तु न ज्ञायते दर्शनविभागस्य स्वेच्छयैवेशानेस्तद्विभागकतमहा. भागैः केनागसाऽसौ तपस्विनी दर्शनसंख्यैतागपव्यवस्थाविपदमनायीति, कथं वा दोषैकटरभ्यो रोचतेऽप्ययमवधीरितनिजस्वरूपोऽपरिगणयद्भयो 'रसो वैस' इत्यादिप्रमाणमूर्धन्यनेकविधोपपत्तिप्रसाधितरसस्वरूपात्मप्रतिपादनपरभारतीयदर्शनम् , यतःस्वसमभिव्याहृतपदार्थताऽवच्छेदकव्याप्यपरस्परासमानाधिकरणयावद्धर्मप्रकारकज्ञानानुकूलव्यापारात्मकं हि विभागं तज्ज्ञाः समभिप्रयन्ति ।।
न चेत्थंभूततेभिरक्तचरेष्वेकमपि विभागमाश्रयते, प्रकृतनिबन्धा त्वशेषदर्शनसम्राज वेदान्तमवहेलयन् 'दीपाधस्तिमिर' न्यायमेव स्मालम्बते, आस्तां वैषा दुर्व्यवस्था, कृतमनेनानुपक्रान्तविमर्शन, किन्तु तिष्ठत्येवायं निबन्ध आपाततः पञ्चषदर्शनीयस्थवीयोsनेकविषयनिरूपणेन प्रविविक्षुजनानां कतिपयपदार्थावबोधसंपदं वितरीतुं बद्धपरिकर इति नात्र विशयलेशोऽपि।।
अस्य च षड्दर्शनसमुच्चयस्य निर्माता परमाहतो हरिभद्रसूरिः।
अयं हि हरिभद्रसूरिजर्जात्या ब्राह्मणः, चित्रकूटादिनिकटवत्तिचित्तौडाख्यनगरराज्या. सनारूढस्य जितारिनामकभूपस्य पुरोहितः प्रौढाभिरूपः कदाचित् चनोपजैनोपानपं
चक्कीदुर्ग हरिपणागं चक्कणकेसवो चक्की ।
Page #8
--------------------------------------------------------------------------
________________
भूमिका।
केसवचक्की केसव, दुचक्की केसवचक्कीय ॥ इति गाथांसाकिनीनाम्न्याः कस्याश्चिदाहत्याः साध्व्या मुखान् निशम्योदितविस्मया. तिशयस्तदर्थमवत्रुभुत्समानो भृशमागृहयालुतां दधदप्यनुपलभमानोऽनुनीयमानयाऽपि निजधर्ममर्मरक्षणशिक्षणपरायणया तया गोपितां तदाथाप्रतिपत्ति; तयैव सूचितं तदर्थावबोधवितरणपरिवृढं जैनविपश्चिदपश्चिमं जिनभट्टसूरि तदवगतयेऽत्यर्थमन्वरुणत् ।
तथाऽनुरोरुध्यमानमानसमेनमवेत्य जिनभट्टसूरिणाऽपि 'विनाऽहतधर्मोपदेशमेषाऽनोषदवगमा गाथे' त्युक्तोऽयं तदेव विरज्याशिश्रियज्जिनोपदिष्टधर्मम् , अनन्तरञ्च क्रमेणानेकान्तजयपताका-ललितविस्तर-चैत्यबन्दनवृत्ति-दर्शनसप्ततिका-मुनिपतिचरित्रवेदबाह्यतानिराकरण-श्रावकधर्मविधि-समरादित्यचरित्र-योगविन्दुप्रकरणवृत्ति-षड्दर्शनसमुच्चय, प्रभृतिनिबन्धप्रकाण्डाग्रेसरां चतुश्चत्वारिंशदुत्तरचतुर्दशशती ग्रन्थानां व्यररचत् , जन्मसमयश्च हरिभद्रसूरेः प्रायः पञ्चम्या वैक्रमशताब्द्याः समाप्त्युपकण्ठमनुमीयते, यतः षव्यास्तच्छताब्द्याः पञ्चत्रिंशे वर्षेऽयं पञ्चत्वमगमदिति निरदीधरन्नैतिहासिकाः।
तत्त्वप्रबोधादिनिर्माता हरिभद्रसूरिस्तु भिन्न एवास्मादत्यर्वाचीनः ख दलेन्दुमितविक्रमादित्यान्देऽविद्यतेति।
इदं च सर्वमेतदीयवृत्तं जामनगरवास्तव्यपण्डितश्रावकहीरालालसम्पादित जनधमप्राचीनेतिहास'नामकग्रन्धाश्रयादुदधारीत्यैतिह्मविदो विदाङकुर्वन्तु । ____टीकाकृन्मणिभद्रसूरिवृत्तं तु विहितेऽपि भूयसि मार्गणे नाल्पीयोऽप्यध्यगम्यद्यावधि, भविष्यन्त्यां तदधिगतौ कचनावसरेऽवश्यमितिहासरसिकमनोविनोदाय प्रकाशयिष्यत इत्याशेमहे। ___ अत्युपादेयस्य सटीकस्यास्य ग्रन्थस्याधुनाऽवध्यप्रकाशनमवेक्ष्य दूयमानमानसेनानुक्षणमप्रकाशितप्राचीनप्रशस्तभूरिदर्शननिवन्धप्रकटीकृतिबद्धपरिकरेण विद्याऽनुरागिणा सौजन्यशेवधिनाऽस्मद्भक्तवरेण श्रेष्ठिना श्रीहरिदासगुप्तेन भृशमेतच्छोधनाय प्रार्थितोऽहं व्यापृताऽप्यन्यात्मीयावश्यकशास्त्रीयकार्यकार्येषूक्तश्रेष्ठिभक्तिमात्रवशंवदः समभ्युपागममेनत् ।।
अस्य चैकं सटीकं प्रायोऽशुद्धं जयपुरस्थसाहित्याचार्यविहारिलालशास्त्रिण उक्तश्रेष्ठिनैव तत आनाय्य मदन्तिकं प्रापितम्।
द्वितीयं च स्वकीयमेव श्रीवृन्दावनस्थश्री १०८भगवन्मदनगोपालपुस्तकालयस्थमहमानंषम् , एवं पुस्तकद्वयाश्रयतःसमुपक्रान्तवान् मुद्रयित्वा प्रकाशनायाहममुं ग्रन्थम् । अत्यल्पीयसा समयेनैतत्प्रतिपाद्यं जिज्ञासूनाञ्च हिताय कारिकात्मकं मूलमानं पर्यशी- . शिषम् । मध्ये चास्यागतानि प्राकृतवचनानि संस्कृत्य परिशिष्टात्मना समावीविशम् । अत्र चात्यवदधतोऽपि शोधने मन्मानुष्यकनान्तरीयकदृष्टिदोषादिजन्मानोऽशुद्धयो मर्षणीयाः सौजन्यवद्भिर्भवद्भिः।
इत्थमदः साङ्गं ग्रन्थरत्नं स्वकीय विद्याविलासनामके काशीस्थे यन्त्रालये श्रेष्ठिहरिदासेन स्वीयव्ययेनाविर्भावितं मत्तश्च जातसंशोधनमनुसृत्य मरालपद्धतिं भवाशाश्वेद इक्पथपथिकीकुर्युभवेतां किल फलेग्रहिश्रमौ शोधकप्रकाशकावित्यत्र न नाममात्रयापि सन्देहः।
प्रीयताञ्चानेनास्मद्व्यापारेण सर्वान्तर्यामी सच्चिदानन्दविग्रहो भगवान् श्री १०८ राधिकारमण इत्याशास्तेविजयदशम्याम् । सं० वै० १९६२
दामोदरलालगोस्वामी
Page #9
--------------------------------------------------------------------------
________________
श्रीहरिभद्रसूरिविरचितः षड्दर्शनसमुच्चयः मणिभद्रकृतया टीकया समलङ्कृतः
सज्ज्ञानदर्पणतले विमलेऽत्र यस्य
ये केचिदर्थनिवहाः प्रकटीवभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्म
प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥१॥ जैनं यदेकमपि बोधविधायिवाक्य
मेवं श्रुतिः फलवती भुवि येन चक्रे । चारित्रमाप्य वचनेन महत्तरायाः
श्रीमान्स नन्दतु चिरं हरिभद्रमुरिः ॥२॥ सन्निधेहि तथा वाणि ! षड्दर्शनाङ्कषड्भुजे । यथा षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥ ३॥ व्यासं विहाय संक्षेपसचिसत्वानुकम्पया।
टीका विधीयते स्पष्टा पडदर्शनसमुच्चये ॥४॥ इह हि श्रीजिनशासनप्रभावनाविभावकप्रभोदयभूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रमूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोऽर्थं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह
सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥
अर्थों निगद्यतेऽभिधीयत इति सम्बन्धः, अर्थशब्दोऽत्राभिधेयवाचको ग्राह्यः।
Page #10
--------------------------------------------------------------------------
________________
लटी पड्दर्शनसमुच्चये 'अर्थोऽभिषेयरैवस्तुप्रयोजन निवृत्तिषु'
इत्यनेकार्थवचनाद्, मयेत्यनुक्तस्यापि गतार्थत्वात् किंविशिटोsर्थः ? सर्वदर्शनाच्य इति । सर्वाणि च तानि दर्शनानि बौद्धनैयायिकजैन वैशेषिकसांख्य जैमिनीयादीनि समस्तमतानि वक्ष्यमा - णानि तेषु वाच्यः कथनीयः किं कृत्वा ? जिनं नत्वा, सामान्यमुक्त्वा विशेषमाह के जिनं १ वीरं वर्द्धमानस्वामिनम्, वीरमिति साभिप्रायम्, प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वाद् भागतव दुःखसम्पादिविषयोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् । तथा चोक्तम्
विदारणात्कर्मततेर्विराजना
तपः श्रिया विक्रमतस्तथाऽद्भुतात् । भवत्प्रमोदः किल नाकिनायक
कार ते वीर इति स्फुटाभिधाम् ॥
इति युक्तियुक्तं ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः, zarssearपकारित्वेन युक्ततरमेव श्रीवर्द्धमानतीर्थकृतो नमस्करणम्, तमेव विशिनष्टि - किंभूतं ? सद्दर्शनं सत् शोभमानं दर्शनं शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरपि मुक्तयङ्गत्वात् किमर्थं सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम् ? न दर्शनस्यैव प्राधान्याद् ।
यत्सूत्रम् —
'भडे चरित्ता दंसणमिह दिव्यरं गईयन्त्रं । सिज्यंति चरणरहिया दंसणरहिया न सिज्यंति' ॥ इति तद्विशेषणमेव युक्तम्, पुनः किंभूतं ? स्याद्वाददेशकम्, स्याद्विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भावकेभ्य उपदिशति यस्तम् अत्रादिमार्द्धे भगवतोऽतिशयचतुष्टयमाक्षिप्तम्, सद्दर्शनमिति दर्शन
१. भ्रष्टेन चरित्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् । सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ॥
Page #11
--------------------------------------------------------------------------
________________
m
बौद्धमतन ज्ञानयोः पहचारित्वामानानिशयः, जिनं वोमिति रागादिजेतृत्वाइष्टकर्माद्यपायनिशकर्तवाचापायागमातिशया, स्याहाददेशकमिति वचनातिशयः, इंग्विधस्य निरन्तरतिभागनिर्भरसुरामुरनिकायनिगव्यन्त्रमानुसङ्गिन मिति पूजाऽतिशयः ॥१॥
कानि तानि दर्शनानोति ? व्यक्तितस्तत्लयामाहदर्शनानि परेशान नभेदश्यपेक्षया ।
देवतातत्यभदेन ज्ञातव्यानि मनीषिभिः॥२॥ अत्र जगति प्रभिद्धानि पडेव दर्शनानि, एक्शब्दोऽवधारणे, यद्यपि भेदाभेदतया बहूनि दर्शनानि प्रसिद्वानि । यहुक्तं सूत्रे'असियसयं किरियाणं अकिरियवाईण हुंति चुलसीई। अनणियं त्तट्टी वेणइआणं च बत्तीसं'।
इति त्रिषष्ट्यधिका त्रिशती पापण्डिकानाम् , बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः, जैमिनश्च शिष्यकृता बहवो भेदाः- .
'उत्पलः कारिका वेत्ति तन्त्रं वेत्ति प्रभाकरः ।। वामनस्तूभयं वेत्ति न किंचिदपि वणः॥
अपरेऽपि वहूदककुटीवरहंसपरमहंसभाट्टयाभाकरादयो बहवोऽन्तमेदाः।
अपरेषामपि दर्शनानां तच्चदेवताप्रमाणादिभिन्नतया बहुभेदाः प्राधर्भवन्ति; तथापि परमार्थतस्तेपामेष्वेवान्तर्भावात्पडेवेति सावधारणं पदम् ।
ननु संवटमानानियतो भेदानुपेक्ष्य किमर्थं पडेव ? इत्याहमूलभेदव्य पेक्षया, मूलभेदास्तावत्पडेव पटसंख्यास्तेषां व्यपेक्षया तानाश्रित्येत्यर्थः, तानि दर्शनानि मनीषिभिः पण्डितैातव्यानि बोद्धव्यानि, केन प्रकारेणेति ? देवतातचभेदेन देवता दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधकानि रहस्यानि, तेषां भेदस्तेन पृथक पृथग दर्शनदेवतादर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥
Page #12
--------------------------------------------------------------------------
________________
सटीके पड्दर्शनसमुच्चये तेषामेव दर्शनानां नामान्याह
बौद्धं नैयायिकं सांख्यं जैन वैशोषिकं तथा। जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥
अहो इति इप्टामन्त्रणे, दर्शनानां मतानाममूनि नामानीति संग्रहः, ज्ञेयानीति क्रियाऽस्तिभवत्यादिवदनुक्ताऽप्यवगन्तव्या, तत्र चौद्धमिति बुद्धो देवतास्यति बौद्धं सौगतदर्शनम् , नैयायिकं पाशु. पतदशनम् , तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः, सांख्यमिति कापिलदर्शनम् आदिपुरुषनिमित्तेयं संज्ञा, जैनमिति जिनो देवताऽस्येति जैनमार्हतम् , वैशेषिकं काणाददर्शनम् दर्शनदेवताऽऽदिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिष्टंमिति वैशेषिकम् , जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् , चः समुच्चयस्य दर्शकः, एवं तावत् पड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ॥ ३॥ अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्वौद्धमतमेवादावाचष्टेतत्र बौद्धमते तावदेवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ४॥
तत्र तस्मिन् वौद्धमते सौगतशासने, तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभहारको दर्शनादिकरः किलेत्याप्तप्रवादे तमेव विशिनष्टि-कथं भूतस्तत्त्वनिरूपकत्वेन प्ररूपको दर्शकः कथयितेति यावत् , केषामित्याह-आर्यसत्यानाम् , आर्यसत्यनामधेयानां तत्त्वानाम् , कतिसंख्यानामिति ? चतुर्णां चतूरूपाणाम् , किंरूपाणाम् ? इत्याह-दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानाम् , आदिशब्दोऽवयवार्थोऽत्र।
१. असमञ्जसेयमुक्तिः-न्यायदर्शनस्य पाशुपतत्त्वेनाप्रसिद्ध, पाशुपतदर्शनस्य न्यायप्रस्थानारूढत्वं प्रायेणेत्यन्यदेतद् । २. इदं चिन्त्यम्, इत्थं हि न्याय्यमिति स्याद्, 'नैयायिकेतिपदं तूक्थादिगणघटकन्यायशब्दादध्येतृवेदिवन्यतरार्थकठका निष्पद्यते । ३. आपातरुचिरेयमुक्तिः, वस्तुतस्तु परानुपज्ञस्य विशेषात्मकस्य पञ्चमपदार्थस्य वेत्तत्वादित्थं ख्यातिः।
अशीतिशतं क्रियाणामक्रियावादिनो भवन्ति चतुरशीतिः। आत्मवादिनः सप्तषष्टिविनयवादिनां च द्वात्रिंशद् ॥
Page #13
--------------------------------------------------------------------------
________________
बौद्धमतम् ।
'सामर्थेऽथ व्यवस्थायां प्रकारेऽवयव तथा ।
चतुर्थेषु मेधावी ह्यादिशब्दं तु लक्षये ॥ इति, एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ॥ ४॥ आदिममेव तत्त्वं विवृण्वन्नाह
दुग्वं संसारिणः स्कन्धास्ते च प प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ ५ ॥
दुःखं किमुच्यते ? इत्याशङ्कायां संसारिणः स्कन्धाः, संसरन्तीति संसारिणो विस्तरणशीलाः स्कन्याः प्रचयविशेषाः, संसारेऽमी चयापचयरूपा भवन्तीत्यर्थः, ते च स्कन्धाः पञ्च प्रकोर्तिताः पञ्चसंख्याः कथिताः, के ते ? इत्याह
__'विज्ञानं वेदना संज्ञा संस्कारा रूपमेव चेति। तत्र विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वम् ॥ यदुक्तम्'यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैव विधाऽन्यदापि परकृन्नैव क्रिया वा भवेद् द्वेधाऽपि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति ॥ इति
विज्ञानम् , वेदनेति । वेद्यत इति वेदना पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः; भिक्षुर्भिक्षामटेश्वरणकण्टके लग्ने प्राह
इत एकनवतेः कल्पे शक्त्या में पुरुषो हतः।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः !॥ इत्यादि, संज्ञेति संज्ञानामकोऽर्थः सर्वमिदं सांसारिक सचेतेनाचेतनस्वरूपव्यवहरणं संज्ञामानं नाममात्रम् , नात्र कलत्रपुत्रमित्रभ्रात्रादिसंबन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम्
'तानीमानि भिक्षवः संज्ञामानं व्यवहारमात्रं कल्पनामानं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्या सहेतुको विनाश आकाशं पुद्गला' इति ।
Page #14
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये
संस्कार इति । इह परभवविषय संतानपदार्थनिरीक्षण प्रबुद्ध पूर्वभावानुरूप संस्कारस्य प्रयातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः ।
यदाह -
' यस्मिन्नेव हि सन्तान आहिता कर्मवासना | hi aa red कार्पासे रक्तता यथा ॥ इति । रूपमिति । रगरगायमाणपरमाणुश्चयः, बौद्धमते हि स्थूलरूपस्य जगति वर्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणत्वात् परमाणव एव तात्त्विकाः चः पुनरर्थः एवेति पूरणार्थः ॥ ५ ॥
दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्यार्थसमुदायतत्त्व
रूपमाह
समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ||६|| यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति, कीदृग् ? इत्याह - आत्मात्मोयस्वभावाख्यः, अयमात्माऽयञ्चात्मीयः, पदसमुदायोपचारादयं परोsयञ्च परकीय इत्यादिभावो रागद्वेपनिबन्धनं तदाख्यस्तन्मूलो रागादीनां गणः आत्मात्मीयरूपेण रागरूपः परकीयपरिणामेन द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं सम्मतो बौद्धदर्शनेऽभिमत इति ॥ ६ ॥ अथ तृतीयचतुर्थतत्वे प्रपञ्चयन्नाह -
क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ॥ ७ ॥ सर्वसंस्काराः क्षणिकाः, सर्वेषां विश्वत्रयविवर विवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स एवायमित्याघुलेखन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः; यत्प्रमाणयन्ति सर्वं सत् क्षणिकमक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति वादस्थलमप्यूह्यं क्षणिकत्वाविशेषकम्,
Page #15
--------------------------------------------------------------------------
________________
बौद्धमतन
विशेषोपपत्ति समग्रं तावत्पत्तिकं पदार्थ घटपटादिकं मुरादिसामग्रीसाकल्ये विनश्वरमाकलय्यते, तत्र योऽस्य प्रान्तावस्थायां विनाशस्वभावः स पदार्थोत्पत्तिसमये विद्यते न वा ? अथ विद्यापतितं तदुत्पत्तिसमयानन्तरमेव विना अर्थश एव स्वभाव यत्विन्तमपि कालं स्थित्वा विनष्टव्यम्, एवञ्चेन्सहरादिसंनिधनेयेष एव तस्य स्वभाव इति भूयोऽपि तावत्कालं स्थेयम् । एवं मुरादिघातशतपानेsपि न विनाशी जातं कल्पान्तस्थायित्वं घटस्य, तथा च जगचवहारव्यवस्थालोपपातकपलितेत्यभ्युपेयमनिच्छताऽपि क्षणक्षयित्वं पदार्थानाम् ।
प्रयोगस्त्वेवम् वस्तु उत्पत्तिसमयेऽपि विनश्वररूपं विनश्वरस्वभावत्वा यद्विनश्वरं तदुत्पत्तिसमयेऽपि तत्स्वरूपं यथाऽन्त्यक्षवर्त्तघटस्य स्वरूपं विनश्वरस्वभावं च रूपरसादिकमुदयत एवारभ्येति स्वभावहेतुः ।
9
ननु यदि क्षणक्षयिण भावाः कथं तर्हि स एवायमिति वासनाज्ञानम् ? उच्यते - निरन्तर सदृशापरापरक्षण निरीक्षणचैतन्योदयाद्, विद्याऽनुबन्धाच्च पूर्वक्षणप्रलयकाल एव दीपकलिकायामिव सैवेयं दीपकलिकेति संस्कारमुत्पाद्य तत्सदृशमपरक्षणान्तरमुदयते, तेन समानाकारज्ञानपरम्परापरिचयचिरतर परिणामान्निरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदेऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति, दृश्यते चावलून पुनरुत्पन्नेषु नखकेशकलापादिषु स एवायमिति प्रतीतिः, तथेहापि किं न सम्भाव्यते सुजनेन तस्मात्सिद्धं साधनमिदं यत्सत्तत् क्षणिकमिति युक्तियुक्तञ्च 'क्षणिकाः सर्वसंस्कारा इत्येवं वासने 'ति ।
प्रस्तुतार्थमाह - एवं या वासना स मार्गो नामार्थसत्यम् इद बौद्धमते विज्ञेयोऽत्रगन्तव्यः, तुशब्दः पाश्चान्यार्थसंग्रहः पूर्वसमुच्चयार्थे, चतुर्थमार्य सत्यमाह-निरोधः किम् ? इत्याशङ्कायां मोक्ष उच्यते, मोक्षोऽपवर्गः, सर्वक्षणिकत्व सर्वनैरात्म्यवासनारूपो निरोधो नामार्य - सत्यमभिधीयत इत्यर्थः ॥ ७ ॥
Page #16
--------------------------------------------------------------------------
________________
सटीके पड्दर्शनसमुच्चये अथ तन्यानि व्याख्याथ तत्संलग्नान्येवायतनान्याह
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायनसेतानि द्वादशायतनानि च ॥ ८॥
पञ्चसंख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि, शब्दाद्या विषयाः पञ्च शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषया इन्द्रियव्यापारा इत्यर्थः, मानसं चित्तं, धर्मायतनमिति धर्मप्रधानमायतनं चैत्यस्थानमिति, एतानि द्वादशसंख्यानि ज्ञातव्यानि न केवलमतानि द्वादशायतनानि जातिजरामरणभवोपादानतृष्णावेदनास्पर्शनामरूपविज्ञानसंस्कारा अविद्यारूपाणि द्वादश्नायतनानि, चः समुच्चये, अमी सर्वेऽपि संस्काराः क्षणिकाः, शेषं तदेवेति ॥ ८॥ तत्वानि व्याख्यायाधुना प्रमाणमाह
प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं सम्यग्ज्ञानं द्विधा यतः ॥९॥
तथेति प्रस्तुतानुसन्धाने, सौगतदर्शने बौद्धमते, द्वे प्रमाणे विज्ञेये, चशब्दः पुनरर्थे, तदेवाह-प्रत्यक्षमनुमानं च, अक्षमक्षं प्रति गतं प्रत्यक्षमैन्द्रियिकमित्यर्थः, अनुमीयत इत्यनुमानं लैङ्गिकमित्यर्थः, यतः सम्यग् ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः, सम्यग्रहणं मिथ्याज्ञाननिराकरणार्थम् , प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ॥ ९ ॥
पृथक्पृथग्दर्शनापेक्षलक्षणसाङ्कर्यभीरु कीदृक् प्रत्यक्षमत्र ग्राह्यमित्याशङ्कायामाह
प्रत्यक्षं कल्पनाऽपोढमभ्रान्तं तत्र वुध्यताम् । त्रिरूपाल्लिङ्गतो लिभिज्ञानं त्वनुमानसंज्ञितम् ॥ १०॥
तत्र प्रमाणोभय्यां प्रत्यक्षं बुद्ध्यतां ज्ञायतां शिष्येणेति, किभृतं ? कल्पनापोडं, शब्दसंसर्गवती प्रतीतिः कल्पना; तयाऽपोर्ट रहितं निर्विकल्पकमित्यर्थः, अन्यच्चाभ्रान्तं भ्रान्तिरहितं रगरगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तश्च तद्, घटपटादिवाह्यस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम् , तच्च बाह्यस्थू१. पडायतनेति पदमधिकं क्वचित्पुस्तके।
Page #17
--------------------------------------------------------------------------
________________
बौद्धमतम् ।
लार्थानां तत्तन्मतानुमानोपपत्तिभिर्निराकरिष्यमाणत्वाद्, नीलाकारपरमाणुस्वरूपस्यैव तात्विकत्वात् ।
६
ननु यदि बाह्यार्थी न सन्ति, किंविपयस्तर्ह्ययं घटपटशकटादिबाह्यस्थूलप्रतिभास इति चेद् ?
निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो व्यवहाराभासो निर्विषयत्वादाकाश केशवःस्वमज्ञानवद्वेति यदुक्तं -
'नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहक वैधुर्यात्स्वयं सैव प्रकाशते' ॥ इति । 'बाह्यो न विद्यते ह्यर्थो यथा
बालैर्विकल्प्यते । प्रवर्तते ॥ इति ।
चित्तमर्थाभासे
प्रत्यक्षमिति ।
वासनोल्लुठितं
तदुक्तं - 'निर्विकल्पकमभ्रान्तं च
अनुमानलक्षणमाह — तु पुनः त्रिरूपात्पक्षधर्मत्वसपक्षसच्वविषक्षव्यावृत्तिरूपाहिङ्गतो धूमादेरुपलक्षणावलिङ्गिनो वैश्वानरादेर्ज्ञानं तदनुमानसंज्ञितमनुमानप्रमाणमित्यर्थः । सूत्रे लक्षणं नान्वेषणीयमिति चरमपदस्य नवाक्षरत्वेऽपि न दोष इति ।
रुपत्रयमेवाह
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम् ॥ ११॥ हेतोरनुमानस्य त्रीणि रूपाणि विभाव्यन्तामिति संबन्धः, तत्र पक्षधर्मत्वमिति साध्यधर्मविशिष्ट धर्मी पक्षः, यथा पर्वतोऽयं - वह्निमान् धूमवच्चादत्र पर्वतः पक्षः, तत्र धर्मो धूमवत्वं वह्निमत्त्वेन व्याप्तं धूमोऽग्निं न व्यभिचरतीत्यर्थः सपचे सवं यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश:, अत्र धूमवच्चेन हेतुना सपक्षे महानसे सच्चं वह्निमत्वमस्तीत्यर्थः, विपक्षे नास्तितेति यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये, जलाशये हि वह्निमचं व्यावर्त - मानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते, एवं प्रकारेण हेतोत्रीणि रूपाणि ज्ञायन्तामित्यर्थः ॥ ११ ॥
२ ष० ८०
Page #18
--------------------------------------------------------------------------
________________
सटीके षड्दशनसमुच्चये उपसंहरनाह
बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥ १२ ॥
अयं संक्षेपो निवेदितः कथितः निष्ठां नीतः, कस्य वौद्धगद्धान्तवाच्यस्य बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्योऽभिधातव्योऽर्थस्तस्य ।
इतोऽनन्तरं नैयायिकमतस्य शिवशासनस्य 'कथ्यमानो निशम्यतां' संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ॥ १२ ॥ तदेवाह
आक्षपादमते देवः स्पृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३ ॥
आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः स कथंभूतः ? सृष्टिसंहारकृत् सृष्टिः प्राणिनामुत्पत्तिः, संहारस्तद्विनाशः, सृष्टिश्च संहारश्चेति द्वन्द्व तौ करोतीति क्विषि तोऽन्तः, तथा हि-अस्य प्रत्यक्षोपलक्ष्यमाणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारमाणिगणस्य भुवनत्रयेऽप्यमातत्वमिति संहारकतोऽपि कश्चिदभ्युपगन्तव्यः, यत्प्रमाणं-सर्व धरणिधरणीधरतरुपुरप्राकारादिकं, बुद्धिमत्पूर्वक कार्यत्वात्, यद्यत् कार्य तत्तद् बुद्धिमत्पूवकं, यथा घटः कार्य चेदं, तस्माद् बुद्धिमत्पूर्वकमिति प्रयोगः, स भगवानीश्वर एवेत्यर्थः, व्यतिरेके गगनं, न चायमसिद्धो हेतुः ? भूभूधरादीनां स्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगत्प्रसिद्धत्वाद् , नापि विरुद्धानकान्तिकदोषौ विपक्षादत्यन्तव्यावृत्तत्वाद् , नापि कालात्ययापदिष्टः प्रत्यक्षानुमानोपमानागमावाध्यमानधर्मधर्मित्वाद्, नापि प्रकरणसमः, तत्परिपन्थिपदार्थस्वरूपसमर्थनप्रथितप्रत्यनुमानोदयाभावाद् । ___ अथ निवृतात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्तेश्वर इति प्रत्यनुमानोदयात्कथं प्रकरणसमदूषणाभाव इति चेद् ?
Page #19
--------------------------------------------------------------------------
________________
बौद्धमतम् । उच्यते-अत्र साध्यमान ईश्वररूपो धर्मी प्रतीतोष्प्रतीतो वाऽनुमन्यते सुहृदा ? अप्रतीतथेद्भवत्परिकल्पितहेतोरेवाश्रयासिद्धिदोषप्रसङ्गः, प्रतीतश्चेत्तर्हि येनैव प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थ नाभ्युपगम्यत इति कथमशरोरत्वमतो न दुष्टो हेतुरिति साधूक्तं सृष्टिसंहारकृच्छिवः, तथा विभुः सर्वव्यापकः, एकनियतस्थानवृत्तिवेदनियतप्रदेशनिष्टितानां पदार्थानां प्रतिनियतयथावनिर्माणानुपपत्तेः, न टेकस्थानस्थितः कुम्भकारोऽपि दूरदूरतरघटघटनायां व्याप्रियते, तस्माद्विभुभगवान् , तथा नित्यैकः नित्यश्चासावतश्चेति, यतो नित्योप्त एवैकोऽप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम् , भगवतो ह्यनित्यत्वे पराधीनोत्पत्तिसत्यवेक्षतया कृतकत्वप्राप्तिः, स्वोत्पत्तावपेक्षितपरव्यापारी हि भावः कृतक इष्यत इति ।
अथ चेत्कश्चिजगत्कारमपरमभिदधाति स एवानुयुज्यते, सोऽपि नित्योऽनित्यो वा ? नित्यश्चेदधिकृतेश्वरेण किमपराद्धम् , अनित्यश्चेत्तस्याप्यन्येनोत्पादकान्तरेण भाव्यमनित्यत्वादेव तस्याप्यन्येनेति नित्यानित्यवादविकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः, तस्मान्नित्य एव भगवान् , अन्यच्चैकोऽद्वितीयो, वहून हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृशमतिव्यापारतयकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जसमापद्यतेति भगवानेक एवेति युक्तियुक्तं नित्यकेति विशेषणम् , तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता, सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोगयोग्यजगत्प्रसृमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सामग्रीमेलनाक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा, सर्वज्ञश्च सन् सकलपाणिनां संमिलितसमुचितकारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाणः स्वार्जितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः केषां नाभिमतः । तथा चोक्तम्
'ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा। अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ इति। ..
Page #20
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये भूयोऽपि विशेषयन्नाह 'नित्यबुद्धिसमाश्रय' इति शाश्वतबुद्धिस्थानं, क्षणिकवुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्यकर्तृवाभादनीधरत्वप्रसक्तिरिति, ईदृग्गुणविशिष्टः शिवो नैयायिकमतेऽभ्युपगन्तव्यः ॥ १३॥ अथ तत्त्वानि प्ररूपयन्नाहतत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवस्तर्कनिर्णयौ। वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च॥ १५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा। अर्थोपलब्धिहेतुः स्यात्प्रमाणं तचतुर्विधम् ॥ १६ ॥
त्रिभिर्विशेषकम् अमुत्रास्मिन् प्रस्तुते नैयायिकमते षोडश तत्त्वानि प्रमाणादीनि प्रमाणप्रभृतीनि, तद्ययेति । बालावबोधाय नामान्यप्याप्रमाणप्रमेयंसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छैलजोतिनिग्रंहस्थानानां तत्वज्ञानानिश्रेयसिद्धिरिति षोडश, एषामेवं प्ररूपणेति, तत्त्वानाममुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः, अथैकैकस्वरूपमाह-तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाहअर्थोपलब्धिहेतुः प्रमाणं स्याद् अर्थस्य पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं स्यादिति, परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहानस्य सङ्ख्यामुपदिशन्नाह-तच्चतुर्विधमिति । तत्प्रमाणं चतुर्विधं ज्ञेयमिति ॥ १४-१६ ॥
प्रत्यक्षमनुमानं चोपमानं शाद्विकं तथा । तत्रेन्द्रियार्थसन्निकर्पोत्पन्नमव्यभिचारिकम् ॥१७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्षमितरन्मानन्तत्पूर्व त्रिविधं भवेत् ॥१८॥
अत्र प्रमाणचातुर्विध्ये प्रत्यक्षं कीगिति सम्बन्धः, विशेषणान्याह-इन्द्रियार्थसन्निकर्पोत्पन्न मिति । इन्द्रियं चार्थश्चेति द्वन्द्वः,
Page #21
--------------------------------------------------------------------------
________________
बौद्धमतम् । तयोः सन्निकत्सिंयोगात्पन्नं जातम् , इन्द्रियं हि नेकच्यात्पदार्थे संयुज्यने, इन्द्रियार्थसंयोगान् ज्ञानमुत्पद्यते । यदुक्तम्
'आत्मा सहेति मनसा, मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ तत्राव्यभिचारिकं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो हीन्द्रियार्थसन्निकर्पोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् , तथा व्यवसायात्मकं व्यवहारसाधकम् , सजलधरणितले हि बहलशाहलवृक्षावल्यामिन्द्रियार्थसान्निध्योद्तमपि जलज्ञानं तत्प्रदेशसंगमेऽपि स्नानपानादिव्यवहारासायकत्वादप्रमाणम् , अतः सफलं व्यवसायात्मकमिति विशेषणम् ।
तथा व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितं, तथा ह्याजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्य धवलशङ्ख पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्थसन्निकर्पोत्पन्नमस्ति तथाऽप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् , साम्प्रतमनुमानमाहइतरदन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्व प्रथमं त्रिविधं त्रिनकारकं भवेजायेत, पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह-तत्पूर्व प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ॥ १७-१८ ॥ अनुमानत्रैविध्यमाह
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्रायं कारणात्कार्यमनुमानमिह गीयते ॥ १९ ॥
पूर्ववत्, शेषवत् , सामान्यतो दृष्टं, चेत्यनुमानत्रयम्, चः समुच्चये, एवेति पूरणार्थे, तथेति उपदर्शने, तत्र त्रिषु मध्ये, आद्यमनुमानमिह शास्त्रे कारणात्कार्यमनुमानमुदितं कारणान्मघात्कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यनामानुमानं कथितमित्यर्थः ॥
Page #22
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये निदर्शनेन तमेवार्थ द्रढयन्नाह
रोलम्बगबलव्यालतमामलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥
यथेति दृष्टान्तकथनारम्भे, रोलम्बाः = भ्रमराः, गवलं माहिपंशृङ्गम् , व्याला गजाः सपो वा तमालाः = वृक्षविशेषाः, सर्वेऽध्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः, द्वन्द्वसमासो बहुव्रीहिश्च, एवंप्रायाः = एवंविधाः पयोमुचो मेधा वृष्टिं न व्यभिवरन्तीति, एवंप्राया इत्युपलक्षणेन परेऽपि दृष्टिहेतवोऽभ्युनत्यादिविशेषा ज्ञेयाः । यदुक्तम्
'गम्भीरगर्जितारम्भनिर्मिन्नगिरिगहराः ।
तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः' इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥ २० ॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाहकार्याकारणानुमानं यच्च तच्छेषयन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥
यत्कार्यात्फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेपवदनुमानं मतं कथितं नैयायिकशासने, यथा तथाविधनदीपूराद्परि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो नदीपूरः सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्पणज्ञानं तच्छेपवत्, अत्र कार्य नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति । उक्तं च नैयायिकैः
'आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाऽङ्कितः ॥ वहरहुलशेवालफलशाद्धलसंकुलः।
नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ॥ इति ॥२१॥ तृतीयानुमानमाह
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥
Page #23
--------------------------------------------------------------------------
________________
न्यायमतमा चः पुनरर्थ, यत मामान्यतो दृष्टमनुमानं तदेवममुना प्रकारेण, यथा पुमि पुरुष देवदत्तादौ देशान्तरप्राप्तिर्गतिपूर्विका, एकम्माद्देशादेशान्तरमनं गमनपूर्वकमित्यर्थः, योजयिन्याः प्रस्थितो देवदत्तो माहिष्मती पुर्ण प्रातः सूयेऽपि ना तथेनि, यथा पुंलि तथा सूर्येऽपि मा गतिरभ्युपगम्यते । यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसरणाभावेन गनिनोपलभ्यते, तथाऽप्युदयाचलात्सायमस्ताचलचूलिकाबलम्बनं गति सूचयति ।।
एवं सामान्यतो दृष्टमनुमानं ज्ञेयमित्यर्थः ॥ २२॥
अथ क्रमायातमपि शब्दप्रमाणं स्वल्पव्यक्तत्वादुपेक्ष्यादावुपमानलक्षणमाह
प्रसिद्धवस्तुलाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गोर्गवयस्तथा ॥ २३ ॥
तदुच्यमानमुयमानमाख्यातं कथितं, यत्तदोनित्यसम्बन्धात्, यत्किम् ? अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते। प्रसिद्धधर्मसाधर्म्यादिति। आबालगोपालाङ्गनाविदितो योऽसौ धर्मोऽसाधारणलक्षणं तस्य साधयं समानधर्मत्वं तस्मादित्युपमानमाख्यातम् । दृष्टान्तमाह-यथा गौर्गवयस्तथेति । यथा कश्चिदरण्यवासी नागरिकेण कीदृग्गवयः ? इति पृष्टः स च परिचितगोगवयलक्षणो नागरिकं प्राह-यथा गौस्तथा गवयः, खुरककुदलांगूलसानाऽऽदिमान् यादृशो गौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इत्यर्थः । अत्र प्रसिद्धो गौस्त साधादप्रसिद्धस्य गवयस्य साधनमिति ॥ २३ ॥ उपमानं व्यावर्दी शब्दप्रमाणमाह
शाब्दमातोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं चात्मदेहार्थवुद्धीन्द्रियसुखादि च ॥ २४ ॥
तु पुनराप्तोपदेशः शाब्दम् , अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः ।
Page #24
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये अथ प्रमेयलक्षणमाह-'प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति' प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे, आत्मा च देहश्चेति द्वन्द्वः, आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः, तच नैयायिकसूत्र आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधं, तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मरात्मा प्रमीयते, एवं देहादयोऽपि प्रमेयतया ज्ञेयाः, अत्र तु ग्रन्थविस्तारभयान प्रपञ्चिता, इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाचेति ॥ २४॥ संशयादिस्वरूपमाहकिमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥
दूरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राह-किमेतदिति । एतत्कि स्थाणुर्वा पुरुषो वेति ? यः संदिग्धः प्रत्ययः स संशयो नाम तत्वविशेषो मतः संमतः तच्छासन इति,
प्रयोजनमाह-तत्तु यत्पुनः प्रयोजनं नाम तत्त्वं यत्किमित्याहअर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते, प्रतीत्यध्याहार्यम् , न हि निष्फलकार्यारम्भ इत्यथित्वादुक्तम् , एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ॥ २५ ॥
दृष्टान्तस्तु भवेदेष विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥
तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् , यत्किमिति ? विवादविषयो न, यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति, इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः, तावञ्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः । उक्तं च
तावदेव चलत्यर्थो मन्तुर्गोचरमागतः ।
यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ॥ एष दृष्टान्तो ज्ञेयः। सिद्धान्तः पुनश्चतुर्भेदो भवेत् , कथमित्याह-सर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः। आदिशब्दाझेदत्रयमिदं
Page #25
--------------------------------------------------------------------------
________________
न्यायमतन् ! ज्ञेयम् , यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति, अमी चत्वारः सिद्धान्तभेदाः, नाममात्रकथनमिदं, विस्तृतग्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥ २६ ॥ अवयवादितत्त्वयम्वरूपमाहप्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्नथा। अवयवाः पञ्च तर्कः मंशयोपरमो भवेत् ॥ २७ ॥ यथा काकादिसंपातात् स्थाणुना जाव्यमत्र हि । ऊर्ध्वं सन्देहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥
अवयवाः पञ्चेति सम्बन्धः, पूर्वार्द्धमाह-प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति पञ्चावयवाः, तत्र प्रतिज्ञा-साध्यविशिष्टः पक्षः सानुमानयं कृशानुमानित्यादि, हेतुर्लिङ्गवचनम् , धूमवत्त्वादित्यादि, दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि, उपनयो हेतोरुपसंहारकं वचनं धूमवांश्चायमित्यादि, निगमनं हेत्वपदेशेन पुनः साध्यधर्मापसंहरणं, तस्माद्वह्निमानित्यादि, इति पञ्चावयवस्वरूपनिरूपणम् अवयवतत्वं ज्ञेयमिति ।
तर्कः संशयोपरमो भवेद् , यथा काकेत्यादि, दूराद् दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुवा पुरुषो वेति ? संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्वं स्यात् , कथमित्याहयथेति । दूरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति, काकादिसंपातादादिशब्दावल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः, वायसप्रभृति संबन्धादत्र स्थाणुना भाव्यं, कीलकेन भवितव्यम् , पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः, एवं संशयाभावे तर्कतत्वं ज्ञेयमिति ।
अर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यासूर्ध्वमुत्तरं यः प्रत्ययः स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तच्चविशेषो ज्ञेयः, यत्तदावर्थसम्बन्धादनुक्तावपि ज्ञेयो । वादतत्त्वमाह
आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । ३ ष००
Page #26
--------------------------------------------------------------------------
________________
सटीके पड्दर्शनसमुच्चये यः कथाऽभ्यासहेतुः स्यादसौ बाद उदाहृतः॥ २९ ॥
असौ वाद उदाहृतः कथितस्तज्ज्ञैरित्यर्थः, यः कः ? इत्याह-- कथाऽभ्यासहेतुः, कथा प्रामाणिकी तस्या अभ्यासः कारणम् , कयोराचार्यशिष्ययोः, आचार्यों गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति, कस्मात् पक्षप्रतिपक्षपरिग्रहात् , पक्षः पूर्वपक्षः प्रतिज्ञाऽऽदिपरिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञाऽऽदिप्रतिपञ्चकोपन्यासपौडिः तयोः परिग्रहात्संग्रहादित्यर्थः, आचार्य: पूर्वपक्षमङ्गीकृत्याचष्टे, शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षं खण्डयति, एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्षतयाऽभ्यासनिमित्तम् , पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो ज्ञेयः॥ अथ तद्विशेषमाहविजिगीषुकथा या तुच्छलजात्यादिदूषणम् । स जल्पः, सावितण्डा तु या प्रतिपक्षवर्जिता ॥३०॥
स जल्प इति सम्बन्धः, यद् विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठ्यां सत्यां छलजात्यादिदूषणम् , छलं त्रिप्रकारम्-वाक्छलं, सामान्यच्छलम् , उपचारच्छलं चेति, जातयश्चतुर्विंशतिभेदाः, आदिशब्दान्निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तयक्षादेर्दूषणजालमुत्पाद्य निराकरणम् , अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याधुपन्यासः परप्रयोगस्य दूपणोत्पादनम् , तथा चोक्तम्
'दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ इति ।
संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपक्षस्थापनमनुमतम् , परविजये हि धर्मव्वंसादिदोषसंभवस्तस्माद्वरं छलादिभिरपि जयः ।
Page #27
--------------------------------------------------------------------------
________________
न्यायमतम् । प्रतिपक्षस्तन विवर्जिता रहिनति प्रतिपक्षमाधनविहीनो वितण्डावादः, वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किंचिद्वादेन परोक्तं दूपयनीत्यर्थः ॥ ३० ॥
हेत्वाभासा असिद्धाद्या,इछलं कृपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥३१॥
हेत्वाभासा ज्ञेया इति ! के ते' इन्याह-अमि द्वाद्या, असिद्धविरुद्धाने कान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः, तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः, विपक्षे सन् सपक्षे चासन् विरुद्धः, पक्षत्रयवृत्तिरनकान्तिकः, प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः, विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः, उदाहरणानि स्वयमभ्यूह्यानि ।
छलं कूपो नवोदक इति, परोपन्यस्तवादे स्वाभिमतार्थान्तरकल्पनया वचनविघातश्छलम् , कथमित्याह-वादिना कूपो नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दूषयति, कुत एक एव कूपो नवसंख्योदक इति वाकछलम् , प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-संभावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्य हेतुत्वारोपणेन तन्निपेधः सामान्यच्छलम् , यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति संभवति ब्राह्मणे विद्याचरणसंपदिति, तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वन्नभियुङ्क्ते, यदि ब्राह्मणे विद्याचरणसंपद्भवति व्रात्येऽपि सा भवेद् व्रात्योऽपि ब्राह्मण एवेति, औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् उपचारच्छलं, यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति ।
जातय इत्यादि । दूषणाभासा जातयः, अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभासाः, यैः पक्षादिर्न दृष्यते, आभासमात्रत्वान्न पक्षदोषः समुद्भावयितुं शक्यते केवलं सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तद्दोषत्वाप्रतिभासे हेतुप्रतिविम्बनप्रायं
Page #28
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये प्रत्यवस्थानं जातिः, सा चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन । तत्र साधयेण प्रत्यवस्थानं साधर्म्यसमा जातिः ।
अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे कृते साधयेण प्रत्यवस्थानं-यद्यनित्यघटसाधभ्योत्कृतकत्वादनित्यः शब्दः तर्हि नित्याकाशसाधादमूर्त्तत्यानित्यः स्यादिति ।
वैधम्येण प्रत्यवस्थानं वैधयसमा जातिः ।
पूर्वस्मिन्नेव प्रयोगे वैधणेवोक्ते वैधयेण प्रत्यवस्थानं नित्यः शब्दोऽमूर्त्तत्वाद्, अनित्यं हि मूर्तं यथा घटादि ।
यदि हि नित्याकाशवैधात्कृतकत्त्वादनित्यः शब्दस्तहि घटाद्यनित्यवैधादमूर्तत्वान्नित्यः स्याद् विशेषाभावादिति । ___ उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती भवतः, तत्रैव प्रयोगे दृष्टान्तधर्म कंचित्साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते, यदि घटवत्कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवेद् , न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दो धर्मान्तरोत्कर्षमापादयति, अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोऽपि भवेद् , नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षति ।
वावाभ्यां प्रत्यवस्थानं वावय॑समे जाती भवतः । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवग्रस्तावेतौ वर्ष्यावयों साध्यदृष्टान्तधर्मों विपर्यस्यन् वावर्ण्यसमे जाती प्रयुते, यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग् घटधर्मो, यादृक् च घटधर्मो न तादृक् शब्दधर्म इति साध्यधर्मदृष्टान्तधर्मों हि तुल्यौ कर्तव्यौ, अत्र तु विपर्यासः यतो यादृग्घटधर्मः कृतकत्वादिर्न तादृक् शब्दधर्मः, घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वम् , शब्दस्य हि ताल्वोष्ठादिव्यापारजमिति ।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः, यथा
Page #29
--------------------------------------------------------------------------
________________
न्यायमतम् । कृतकं किंचिन्मृदु दृष्टं रावशय्याऽऽदि, किश्चित्कठोरं कुठारादि, एवं कृतकं किञ्चिदनित्यं भविष्यति घटादिकं, किञ्चिनित्यं शब्दादीति।
साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः, यथा घटः तथा शब्दः प्राप्तस्तईि यथा शब्दस्तथा घट इति, शब्दश्च साध्य इति घटोऽपि साध्यो भवेत् , ततश्च न साध्यः साध्यस्य दृष्टान्तो, विरुद्धलक्षणत्वान्न दृष्टान्तः स्यात् , न चेदेवं तथाऽपि वेलक्षण्यात्सुतरामदृष्टान्त इति ।
प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती, यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साध्यं साथयत्यप्राप्य वा, प्राप्य चेद् तर्हि द्वयोविद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति, द्वयोश्च सत्वात्कि कस्य साध्यं साधनं वा, अप्राप्य तु साधनमयुक्तमतिप्रसङ्गादिति ।
प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह-यद्यनित्यत्वे कृतकत्वं साधनं, कृतकत्वमिदानी कि साधनं तत्साधने किं साधनम् ? इति ।
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याहयथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति, न चेदमनैकान्तिकत्वोद्भावनं, भङ्गयन्तरेण प्रत्यवस्थानात् । __अनुत्पत्त्या प्रत्यवस्थानम् , अनुत्पत्तिसमा जातिः, यथाऽनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते, तदेव हेत्वभावादसिद्धिरनित्यस्येति ।
साधर्म्यसमा वैधर्म्यसमा वा या जातियथा पूर्वमुदाहृता सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति, यथा कि घटसाध
Page #30
--------------------------------------------------------------------------
________________
२२
सटीके षड्दर्शनसमुच्चये ात्कृतकत्वादनित्यः शब्दः, किं वा तद्वैधयेणाकाशसाम्यान्निरवयवत्वान्नित्य इति ।
द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना सैव साधर्म्यसमा वैधHसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकस्वाद् घटवदिति प्रयोगे, नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति, उद्भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम् ।
त्रैकाल्यानुपपत्या हेतोः प्रत्यवस्थापनमहेतुसमा जातिः, यथा हेतुः साधनं तत्साध्यात्पूर्व पश्चाद्वा सह वा भवेद् , यदि पूर्वमसति साध्यं तत्कस्य साधनम् , अथ पश्चात्साधनं पूर्व तर्हि साध्यं तस्मिंश्च पूर्वसिद्धे किं साधनेन, अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति । ___अर्थापत्या प्रत्यवस्थानम् अर्थापत्तिसमा जातिः, यद्यनित्यसाधात्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते, नित्यसाधयान्नित्य इति, अस्ति चास्य नित्येनाकाशेन साधयं निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति । ___ अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः, यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषः, तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति । __उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, निरवयवत्वोपपत्या नित्यत्वमपि कस्मान्न भवति पक्षद्वयोपपत्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् ।
उपलब्धेन प्रत्यवस्थानमुपलब्धिसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनं, साधनं तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वं, शब्देऽपि कचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथेति।
Page #31
--------------------------------------------------------------------------
________________
न्यायमतम् । ____ अनुपलब्धिप्रत्यवस्थानादनुपलब्धिसमा जातिः, यथा तत्रैव प्रयत्नानन्तरीयकत्वहेताबुपन्यस्ते, स प्राह जातिवादी न प्रयत्नकार्यः शब्दः प्रागुचारणादस्त्येवासाबावरणयोगात्तु नोपलभ्यते, आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेद् ?
न, आवरणानुपलम्भेऽप्यनुपलम्भसभावादावरणानुपलब्धेश्वानुपलम्भादभावः, तडभात्र चावरणोपलव्धर्भावो भवति, ततश्च तदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्याभावान्नित्यः शब्द इति ।
साव्यधर्मनित्यानित्यत्वविकलोन शब्दनित्यताऽऽपादनं नित्यसमा जातिः, यथाऽनि यः शन्द इति प्रतिज्ञाते; जातिवादी विकल्पयति येयमनित्यता शब्दस्योच्यते सा किमनित्या नित्या वेति, यद्यनित्या तदियमवश्यमयायिनोत्यनित्यताया अभावान्नित्यः शब्दः, अथ नित्यैवेति तथाऽपि धर्मस्य नित्यत्वात्तस्य च निराश्रितस्यानुपपत्तेः तदाश्रयभूतः शब्दोऽपि नित्य एव स इति चेद् ?
न, तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथा नित्यः शब्द इति ।
एवं सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमाजातिः, यथा घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तीति, तस्यानित्यत्वं यदि प्रतिपाद्यते तद्बटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्याद् , अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्मा भूदित्यनित्यत्वमात्रापादनपूर्वकविशेपोद्भावनाच्चाविशेषसमातो भिन्नेयं जातिः। __ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्था कार्यसमा जातिः। यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टं किंचिदसदेव तेन जन्यते यथा घटादिकं, किंचित्सदेवावरणव्युदासादिना व्यज्यते यथा मृदन्तरितमूलकीलादि।
एवं प्रयत्नकार्यनानात्वादेषु प्रयत्नेन शब्दो व्यज्यते जन्यते
Page #32
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये वेति संशय इति संशयापादानप्रकारभेदाच संशयसमातः कार्यसमा जातिभिद्यते। .. तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्ये संकीर्णोदाहहरणविवक्षया चतुर्विंशतिजातिभेदा एते दर्शिता इति ॥ ३१ ॥ दूपणाभासानुक्त्वा निग्रहस्थानमाहनिग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥ ३२ ॥
येन केनचिद् रूपेण परो विपक्षो निगृह्यते परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानमाख्यातं कथितमिति, कतिचिद्भेदान् नामतो निर्दिशनाह-प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवद् , हानिसंन्यासविरोधाः प्रतिज्ञाशब्देन सम्बध्यन्ते, आदिशब्देन शेषानपि भेदान् परामृशति, एतद्रूषणजालमुत्पाद्यते येन तन्निग्रहस्थानम्।
यदुक्तं-'विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्' तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिः, दूषणाभासे च दूषणबुद्धिरिति, अप्रतिपत्तिः साधनस्यादूवणं, दूषणस्य चानुद्धरणम् , तद्धि निग्रहस्थान द्वाविंशतिभेदम् , तद्यथा-प्रतिज्ञाहानिः, प्रतिज्ञाऽन्तरं, प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः, हेत्वन्तरम् , अर्थान्तरं,-निरर्थकम् , अविज्ञातार्थम् , अपार्थकम् , अाँप्तकालं, न्यूनम् , अधिकं, पुनरुक्तम् , अन भाषणम् , अज्ञानम् , अप्रैतिभा, विक्षेपो मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपेंसिद्धान्तः, हेत्वाभासः।
तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगतवतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति, यथा अनित्यः शब्द, ऐन्द्रियिकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यमैन्द्रियिकमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद्धटोऽपि नित्यो भवति स एवं ब्रुवाणः शब्दनित्यत्वप्रतिज्ञां जह्यात् ।
Page #33
--------------------------------------------------------------------------
________________
न्यायमतम् । प्रतिज्ञातार्थप्रतिपेथे परेण कृते तत्रैव धर्मिणि धर्मान्तरसाधनमभिदधतः प्रतिज्ञाऽन्तरनाम निग्रहस्थानं भवति, अनित्यः शब्द, ऐन्द्रियिकवादित्युक्ते तथैव सामान्येनैव व्यभिचारणोदिते यदि त्याद् युक्तं सामान्यमैन्द्रियिकं नित्यं तद्धि सर्वगतम सर्वगतस्तु शब्द इति, सोऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञाऽन्तरमसर्वगतः शब्द इति प्रतिज्ञाऽन्तरेण निगृहीतो भवति ।
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधनाम निग्रहस्थानं भवति, गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं प्रतिज्ञाहेत्वोविरोधो यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं . द्रव्यमिति तदयं प्रतिज्ञाहेत्वोविरुद्धाभिधानात्पराजीयते ।
पक्षसाधने परेण दूषिते तदुद्धरणासक्त्या प्रतिज्ञामेव निवानस्य प्रतिसंन्यासनाम निग्रहस्थानं भवति, यथा-अनित्यः शब्द ऐन्द्रियिकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह नित्यः शब्द इति प्रतिज्ञासंन्यासात् पराजितो भवतीति ।
अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरनाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगे तथैव सामान्येऽस्य व्यभिचारेण दूषित जातिमत्त्वे सतीत्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति ।
प्रकृतादर्थान्तरं तदोपयिकमभिदधतोऽर्थान्तरनाम निग्रहस्थानं भवति, नित्यः शब्दः कृतकत्वादिति हेतुः, हेतुहिनोतेर्धातोस्तुनत्यये कृदन्तं पदम् , पदं च नाम तद्धितनिपातोपसर्गा इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति । ____ अभिधेयरहितवर्णानुपूर्वीप्रयोगमानं निरर्थकनाम निग्रहस्थानं भवति, यथा नित्यः शब्दः कचतटपानां गजडदवत्त्वाद् घझढधभवदित्येतदपि सर्वथाऽर्थशून्यत्वान्निग्रहणाय कल्पेत साध्यानुपयोगाद्वा।
Page #34
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये यत्साधनवाक्यं दृषणवाक्यं वा त्रिवारमभिहितमपि पर्षत्प्रतिवादिभ्यां वोर्द्ध न शक्यते तदाऽविज्ञातार्थनाम निग्रहस्थानं भवति । ।
पूर्वापरासंगतपदसमूहप्रयोगादप्रतिष्ठितवाल्यार्थमपार्थकनाम निग्रहस्थानं भवति, दश दाडिमानि षडपूपा इति ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लङ्घ्यावयव विपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालनाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमानक्रमस्यापगमात् , पश्चावयवे वाक्ये प्रयोक्तव्ये तदेकतमेनानुमानावयवेन हीनं न्यूननाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धेरभावात् प्रतिज्ञाऽऽदीनां पञ्चानामपि साधनत्वात् । __ एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकनाम निग्रहस्थानं भवति ।
शब्दार्थयोः पुनर्वचनं पुनरुक्तनाम निग्रहस्थानं भवति, अन्यत्रानुवादात् शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते यथा नित्यः शब्दो नित्यः शब्द इति, अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन शब्देनोच्चार्यते पुनः पर्यायान्तरेणोच्यते यथा अनित्यः शब्दो, विनाशी ध्वनिरिति, अनुवादे तु पौनरुक्त्यमदोषः यथा हेतूपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति ।
पर्षदावेदितस्य वादिभिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणनाम निग्रहस्थानं भवति ।
पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञाननाम निग्रहस्थानं भवति, अविदितोत्तरविषयो हि किमुत्तरं ब्रूयात् , न चाननुभाषणमेवेदं, ज्ञातेऽपि वस्तुन्यनुभाषणासामर्थ्यदर्शनात् ।
परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभानाम निग्रहस्थानं भवति ।
कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपनाम निग्रहस्थानं भवति, सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्तीदं
Page #35
--------------------------------------------------------------------------
________________
सांख्यमतम् । मम करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्ध इत्याद्यभिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते।
स्वपक्षे परापादितदोपमनुवृत्य तमेव परपक्षे प्रतीतिमापादयतो मतानुज्ञानाम निग्रहस्थानं भवति, चोरो भवान् पुरुषत्वात् प्रसिद्धचोरवदित्युक्ते, भवानपि चोरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितचोरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते ।
निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेलणनाम निग्रहस्थानं भवति, पर्यनुयोज्यो नाम निग्रहोपपत्त्याऽवश्यं नोदनीयः, 'इदन्ते निग्रहस्थानमुपनतमतो निगृहीतोऽसि' इत्येवं वचनीयस्तमुपेक्ष्य न नियहाति यः स पर्यनुयोज्यापेक्षणेन निगृह्यते। ___ अनिग्रहस्थाने निग्रहस्थानानुयोगान्निरनुयोज्यानुयोगनाम निग्रहस्थानं भवति, उपपन्नादिनमग्रमादिनमनिग्रहार्हमपि 'निगृहीतोऽसीति यो ब्रूयात्स एवाभूतदोषोद्भावनान्निगृह्यत इति ।
सिद्धान्तमभ्युपेत्य नियमात्कथाप्रसङ्गोऽपसिद्धान्तनाम निग्रहस्थानम् , यः प्रथमं कश्चित्सिद्धान्तमभ्युपगम्य कथामुपाक्रमत, तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भो यथा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते।
हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थानम् इति, भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति ॥ अथोपसंहरंन्नाहनैयायिकमतस्यैवं समासः कथितोऽधुना । सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥
एवम् इत्थंप्रकारतया नैयायिकमतस्य शिवशासनस्य समासः संक्षेपोऽधुना कथितो निवेदितः साम्प्रतमेव निष्ठित इत्यर्थः।
इदानीं पुनरयं समासः सांख्याभिमतभावानाम् उच्यते, सांख्याः कापिला इत्यर्थः, तदभिमता तदभीष्टा ये भावाः पञ्चविंशतितत्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इत्यर्थः ॥ ३३॥
Page #36
--------------------------------------------------------------------------
________________
२८
सटीके षड्दर्शनसमुच्चये
तदेवाह -
एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३४॥ एतेषां सांख्यानां प्रकृतिः प्रीत्यप्रीतिविषादात्मकानां लाघवोपटम्भगौरवधर्माणां सत्वरजस्तमसां त्रयाणामपि गुणानां या साम्यावस्था समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते, किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते, अन्यच्च सा प्रधानाव्यक्तशब्दाभ्यां वाच्या प्रधानाव्यक्तशब्देन च प्रकृतिराख्यायते, शास्त्रे प्रकृतिः प्रधानमव्यक्तं चेति पर्याया न तत्त्वान्तरमित्यर्थः तथा नित्यस्वरूपिका शाश्वतभावतया प्रसिद्धेत्यर्थः, उच्यते च नित्या नानापुरुषाश्रया च तद्दर्शनेन प्रकृतिर्यदा ह—
,
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिरिति ॥ ३४ ॥ दर्शनस्वरूपमाह
सांख्या निरीश्वराः केचित्केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ||३५|| केचित्सांख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवेदिनः केचित्पुनरीश्वरदेवता महेश्वरं स्वशासनाधिष्ठातारमाहुः सर्वेषामिति । तेषां केवल नित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्त्वानां पञ्चविंशतिः स्यात्, तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः ।
"
यदुक्तम् —
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः । तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ॥ ३५ ॥
गुणत्रयमाह -
सत्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोष दैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३६ ॥
Page #37
--------------------------------------------------------------------------
________________
सांख्यमतम् । तावदिति प्रक्रमे, सत्त्वरजस्तमश्चेति गुणत्रयं ज्ञेयम् , तद् गुणत्रयं, क्रमेण परिपाट्या, प्रसादतोपदेन्यादिकार्यलिङ्गं गुणत्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते, सत्वगुणेन प्रसादकार्यलिङ्ग,-बदननयनादिप्रसन्नता सत्त्वगुणेन स्यादित्यर्थः, रजोगुणेन तोपः स चानन्दपर्यायः, तल्लिङ्गानि स्फूर्त्यादीनि रजोगुणेनाभिव्यज्यन्त इत्यर्थः, तमोगुणेन च दैन्यं जन्यते हा दैव ! नष्टोऽस्मि वञ्चितोऽस्मोत्यादिवदनविच्छायतानेत्रसंकोचादिव्यङ्ग्यं दैन्यं तमोगुणलिङ्गमिति, दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते, तद्यथाऽऽध्यात्मिकम् , आधिभौतिकम् , आधिदैविकं चेति ।
तत्राध्यात्मिकं द्विविधं-शारीरं मानसं च, शागीरं वातपित्तश्लेमगां वैषम्यनिमित्तम् , मानसं कामक्रोधलोभमोहेयाविषयादर्शननिवन्धनं, सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् ।
बायोपायसाध्यं दुःखं द्वेधा-आधिभौतिकम् आधिदैविकं चेति, तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम् , आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकमिति ॥ ३६ ॥ ___ अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यतेऽतस्तान्येव तत्त्वान्याह
ततः संजायते वुद्धिमहानिति यकोच्यते । अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥३७॥
ततो गुणत्रयाद् बुद्धिः संजायते यका बुद्धिर्महानित्युच्यते महानितिशब्देन कोयंत इत्यर्थः, एवमेतन्नान्यथा, गौरयं नाश्वः, स्थाणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति, तस्यास्त्वष्टौ रूपाणि तदर्शनविश्रुतानि यदाहधर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ, ततो बुद्धेरहंकारः स चाभिमानात्मको यथा अहं शब्दे, अहं रूपे, अहं रसे, अहं स्पर्श,
१. अत्र क्रमेण प्रतीतिपञ्चकाकारस्थाने; अहं शृणोमि, अहं रूपयामि, अहं रसयामि, अहं स्पृशामि, अहं जिघ्रामि, इत्येवाकारपञ्चकं ज्याय इति भाति, मूले निर्दिष्टाकारकप्रतीतीनामनानुभविकत्वाद् , ग्रन्थोक्तलेखानुपूर्वीभङ्गभिया तु मूलस्थपाठो न पराऽवति ।
Page #38
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये अहं गन्धे, अहं स्वामी, अहम् ईश्वरः, असौ मया हतः, अहं त्वां हनिष्यामीत्यादिप्रत्ययरूपस्तस्मादहंकाराषोडशको गणो 'जायत' इत्यध्याहारोऽस्तिभवतीत्यादिवत् , पञ्च बुद्धीन्द्रियाणि, पञ्च करेंन्द्रियाणि, एकादशं मनः, पञ्च भूतानि, षोडशको गणः, तथाऽऽहईश्वरकृष्णः
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष' इति ॥३७॥ पोडशकगणमेवाहस्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पश्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥३९॥
(युग्मम् ) पञ्च बुद्धीन्द्रियाणीति सम्बन्धः, स्पर्शनं त्वगिन्द्रियं, रसनं जिह्वा, घ्राणं नासिका, चक्षुर्नेत्रं, पञ्चमं श्रोत्रं कर्ण इति, एतानि पञ्च बुद्धिप्रधानानि बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा बुद्धीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति, तथा कर्मेन्द्रियाणि चेति । तथा पूर्वोद्दिष्टपञ्चसंख्यामात्रमपि परामृशति, तान्येवाह-पायूपस्थवचापाणिपादाख्यानीति । पायुरपानम् , उपस्थः प्रजननं, वचो वाक्यं, पाणिहस्तः पादश्वरणः, तदाख्यानि पञ्च कर्मेन्द्रियाणि, कर्म कार्यव्यापारस्तस्य साधनानीन्द्रियाणीति कर्मेन्द्रियाणि, तथा मन एकादशमिन्द्रियमित्यर्थः, अन्यानि पञ्चरूपाणि तन्मात्राणि चेति, शब्दस्पर्शरूपरसगन्धाख्यानि तन्मात्राणीति षोडश ज्ञेयाः॥ पञ्चतन्मात्रेभ्यः पञ्चभूतोत्पत्तिमाहरूपात्तेजो रसादापो गन्धाद् भूमिः स्वरानमः। स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ ४०॥
पञ्चभ्य इति । पञ्चतन्मात्रेभ्यः पञ्चभूतकमिति सम्बन्धः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्राद् भूमिः, स्वरतन्मात्रादाकाशं, स्पर्शतन्मात्राद्वायुः, एवं पञ्चतन्मात्रेभ्यः पञ्च
Page #39
--------------------------------------------------------------------------
________________
सांख्यमतम् । भृतान्युत्पद्यन्ते, असाधारणकैकगुणकथनमिदम् , उत्पत्तिश्च शब्दतन्मात्रादाकाशं शब्दगुणं शब्दो ह्यम्बरगुण इति, शब्दतन्मात्रसहितात्स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुण इति, शब्दस्पर्शतन्मात्रसहिताद रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुणमिति, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणा इति, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति, पञ्चभ्यः पञ्चभूतकमित्यर्थः ॥ ४० ॥
प्रकृतिविस्तरमेवोपसंहरनाहएवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः॥
एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितत्त्वरूपं प्रधानं निवेदितम् , प्रकृतिर्महानहङ्कारश्चेति त्रयम् , पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनस्त्वेकं, पञ्च तन्मात्राणि, पञ्च भूतानि रूपं यस्येत्येवंविधा प्रकृतिः कथितेत्यर्थः, पञ्चविंशतितमं तच्चमाह-अन्यस्त्विति । अन्योऽकर्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मवाद्, यदुक्तं-प्रकृतिः करोति प्रकृतिर्वध्यते, प्रकृतिर्मुच्यते, पुरुषोऽबद्धः पुरुषो मुक्तः, पुरुषस्तु
अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः। अकर्ता निर्गुणः सूक्ष्मः आत्मा कापिलदर्शने ॥ पुरुषगुणानाह-विगुण इति । सत्त्वरजस्तमोरूपगुणत्रयविकलः, तथा भोक्ता भ.गी, एवंप्रकारः पुमान् तत्त्वं पञ्चविंशतितमं तत्त्वमित्यर्थः, तथा नित्यचिदभ्युपेतः, नित्या चासो चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः, आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते, सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुद्धिश्वोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, ततः सुख्यहं दुःख्यहमित्युपचर्यते, आह च पातञ्जले- 'शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासत' इति, मुख्यतस्तु चिच्छक्तिविषयपरिच्छेदशून्या, बुद्धरेव
Page #40
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये विषयपरिच्छेदस्वभावत्वात् चिच्छत्तिसन्निधानाच्चाचेतनाऽपि बुद्धिचेतनावतीवावभासते वादमहार्णवोऽप्याहबुद्धिदर्पणसंक्रान्तमर्थविप्रतिबिम्बकम् । द्वितीयदर्पणकल्पं पुरुषे ह्यधिरोहति ॥ तदेव भोक्तृत्वमस्य न तु विकारोत्पत्तिरिति । तथा चासुरिःfafai auorat बुद्धौ भोगोऽस्य कथ्यते । प्रतिविम्वोदयः स्वच्छो यथा चन्द्रमसोऽम्भसि ॥ विन्ध्यवासी त्वेवं भोगमाचष्टे
पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् | मनः करोति सान्निध्यादुपाधेः स्फटिको यथा ॥ इति नित्यचिज्ज्ञानयुक्तः ।
बन्धमोक्षसंसाराच नित्येऽप्यात्मनि भृत्यगतयोर्जयपराजययोरिव तत्फलकोशलाभादिसम्बन्धे नस्वामिन्युपचारवदत्राप्युपचर्यन्त इत्यदोषः ॥ ४१ ॥
तत्त्वोपसंहारमाह
३२
पञ्चविंशतितत्त्वानि सांख्यस्यैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पवन्धयोरिव ॥ ४२ ॥ पूर्वार्धं निगदसिद्धम्, अत्र सांख्यमते प्रधाननस्योः प्रकृतिपुरुषयोर्वृत्तिर्वर्तनं पड्वन्धयोरिव पश्चरणविकलः, अन्धच नेत्रविकलः, यथा पचन्धौ संयुक्तावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् प्रकृत्युपात्तं पुरुषो भुङ्क इत्यर्थः ॥ ४२ ॥
मोक्षप्रमाणं चाह -
प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥ मोक्षः किमुच्यत इत्याह- पुरुषस्यात्मन आन्तरज्ञानाद्विविधबन्ध विच्छेदात्प्रकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति, आन्तरज्ञानं च बन्धविच्छेदाद्भवति,
Page #41
--------------------------------------------------------------------------
________________
कृतिकदा प्राकृतिका
रिका ।
जैनमतम् । बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात्रिविधः, तद्यथा-प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारवुद्धीः पुरुपबुद्धयोपासते तेषां वैकारिकः, इष्टापूर्ने दाक्षिणः, इष्टापूर्त जनभोजनदानादिकं तस्मिन् पुरुषतत्वानभिज्ञो हीष्टकारी कामोपहतमना बध्यत इति । इष्टापूर्त मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ इति वचनाद् ।
इति त्रिविधवन्धविच्छेदात्पुरुषानुभवस्ततः प्रकृतिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्ष इति श्लोकपूर्वार्द्धम्, मानत्रितयं च भवेत् स्यात् प्रत्यक्षं लैङ्गिक शाब्दं चकारः सर्वत्र सम्बध्यते, प्रत्यक्षमिन्द्रियोपलभ्यं लैङ्गिकमनुमानगम्य, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् ॥ अथोपसंहरन्नाह
एवं सांख्यमतस्यापि समासः कथितोऽधुना। जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥४४॥
पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः, अपि समुच्चयार्थे न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति, सांख्य इति पुरुषनिमित्तेयं सञ्ज्ञा संख्यस्य इमे सांख्याः, तालव्यो वा शकारः, शङ्खनामाऽऽदिपुरुषः ।
अथ क्रमायातं जैनमतोद्देशमाह-अधुनेत्युत्तरार्द्धन सम्बध्यते । अधुना इदानीं जैनदर्शनसंक्षेपः कथ्यते-कथंभूत इति ? सुविचारवान् , सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीत्यर्थे मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि
१. आप्रामाणिकोऽयं कल्पः। प्रथमकल्पस्तु कथमपि सङ्गमनीयः। वस्तुतस्तु, 'शुद्धास्मतत्वविज्ञानं सांख्यमित्यभिधीयत' इति व्यासस्मृत्या भावार्थकाङ्प्रत्ययनिष्पनज्ञानवाचकसङ्ख्याशब्दात्सम्बन्धिबोधकशैषिकाणा 'सांख्य' शब्दः सिद्धः, यद्वा 'संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्वानि तेन सांख्याः प्रकीर्तिता' इति भारतात्, संख्याशब्दावेदार्थकाणा निप्पन्नः 'सांख्य' शब्दः, उभयथाऽपि योगरूढः । . ५१००
Page #42
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
इत्याधुक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते। निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ॥
इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते, न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः, उक्तश्च
पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥
इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणविशेषणप्रसरणं ज्ञेयमिति ॥ ४४ ॥ तदेवाहजिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः। हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपूज्य सद्भूतार्थोपदेशकः। कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६॥
तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्प्राप्त इति सम्बन्धः, जैनेन्द्र इति जयन्ति रागादीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशासदृशचतुस्विंशदतिशयसम्पत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुष, एष कीहक् शिवं संप्राप्त इति परासाधारणानि विशेषणान्याह-रागद्वेषविवर्जित इति । रागः सांसारिकस्नेहोऽनुग्रहलक्षणः, द्वेषो वैराग्याद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवर्जितोरहितः। एतावेव दुर्जयो दुरन्तभवसम्पातहेतुतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ, यदाह
Page #43
--------------------------------------------------------------------------
________________
जैनमतम् । 'को दुःवं पाविजा कस्स न सुखेहि विम्हहो हुजा। को अन लभेज्ज सुवं रागदोसा जइ न हुन्जा ॥
तथा हतमहामोहमल्लः महनीयकमंदियाच हिंसाऽऽत्मकशास्त्रेभ्योऽपि मुक्तिकाजादिव्यामोहो मोहः स एव दुर्जेयत्वान्महामल्ल इव महामल्लः, हता मोहो महामल्लो येनेति स तथा, रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम्
रागोऽऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषां दारणहेतिगम्यः । मोहः कुवृत्तागमदोपसाध्यो नो यस्य देवस्य स चैवमर्हन् ।
इति रागद्वेषमोहरहितो भगवान् , तथा केवलज्ञानदर्शनः, धवखदिरपलाशादिव्यक्तिविशेषाववोधो ज्ञानम् , वनमिति सामान्यावबोधो दर्शनम् , केवलशब्दश्चोभयत्र सम्बध्यते, केवलमिन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनञ्च यस्येति, केवलज्ञानकेवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद् द्रव्यपर्यायविशुद्धमखिल. मिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम् , अन्यस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानं, केवलिनस्त्वादो ज्ञानं ततो दर्शनमिति।
सुरासुरेन्द्रसम्पूज्यः = सेवाविधानसावधाननिरन्तरढोकमानदासायमानदेवदानववन्दनीय; तादृशैरपि पूज्यस्य मानवतिर्यखेचरकिंनरनिकरसंसेव्यत्वमानुषङ्गिकमिति। ___ तथा सद्भूतार्थोपदेशकः सद्भूतार्थान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदमिलाप्याद्यनन्तधर्मात्मकान् पदार्थानुपदिशति, तथा हि-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं, तच्च नित्यैकान्ते न घटते, अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः स च क्रमेणार्थक्रियां कुर्वीताक्रमेण वा, अन्योन्यव्यतिरिक्तधर्माणामर्थानां प्रकारान्तरेणोत्पादाभावात् , तत्र न क्रमेण स हि कालान्तरभाविनीः १ को दुःखं प्राप्नुयात् कस्य न सौख्यैर्विस्मयो भवेत् । कश्च न लभेत मोक्षं रागद्वेषौ यदि न भवेताम् ॥
Page #44
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात् , कालक्षेपिणो वा सामर्थ्याप्राप्तेः, समर्थो हि तत्सहकारिसमवधानेन तमर्थं करोतीति चेद् ?
न, तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् 'सापेक्षमसमर्थमिति न्यायात् , न तेन सहकारिणोऽपेक्ष्यन्ते, अपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तमपेक्षत इति चेत् ?
तत्कि स भावोऽसमर्थः समर्थो वा, समर्थश्चेतिक सहकारिप्रेक्षणादीनि तान्यपेक्षते न पुनर्झटिति घटयति ।
ननु समर्थमपि बीजमिलाजलानिलादिसहकारिसहितमेवाङ्करं करोति नान्यथा, तत्कि बीजस्य सहकारिभिः किंचिदुपक्रियते न वा, यदि नोपक्रियते तदा सहकारिसन्निधानात्प्रागिव किं न सोऽर्थक्रियायामुदास्ते, उपक्रियते चेत्स, तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियत इति वाच्यम् , अभेदे स एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः, भेदे सति कथं तस्योपकारः किं न सह्यविन्ध्यादेरपि।
तत्सम्बन्धात्तस्यायमिति चेद् ? उपकार्योपकारकयोः कः सम्बन्धः, न तावत्संयोगो द्रव्ययोरेव तस्य भावात् , अत्र तूपकार्य द्रव्यमुपकारश्च क्रियेति न संयोगो, नापि समवायः, तस्यैकत्वायापकत्वाच प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः, नियतसम्बन्धिसम्बन्धे चाङ्गीक्रियमाणे तत्कृतोपकारोऽस्य समवायस्याभ्युपगन्तव्यः, तथा च सत्युपकारस्य भेदाभेदकल्पना तदवस्थैव ।
उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् , भेदे पुनरपि समवायस्य न नियतसम्बन्धे सम्बन्धत्वं, तनैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते नाप्यक्रमेण, न ोको भावः सकलकालभाविनीयुगपत्सर्वाः क्रियाः करोतीति प्रातीतिकं, कुरुतां वा तथापि स द्वितीयक्षणे किं कुर्यात् , करणे वा क्रमपक्षभावी दोषः, अकरणे • त्वर्थक्रियाकारित्वाभावादवस्तुत्वप्रसङ्ग इत्येकान्तनित्या क्रमाक्रमाभ्यां
Page #45
--------------------------------------------------------------------------
________________
जैनमतम् ।
३७ व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिवलाध्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति, अर्थक्रियाकारित्वञ्च निवर्तमानं स्वव्याप्यसत्त्वं निवर्तयतीति नैकान्तनित्यपक्षो युक्तिक्षमः । ___ एकान्तानित्यपक्षोऽपि न कक्षीकरणाहः, अनित्यो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमर्थों देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्, क्रमो हि पौर्वापर्यं, तत्क्षणिकस्यासम्भवि, अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्वाभिधीयते, न चैतस्मिन् विनाशिनी साऽस्ति । यदाहुः
यो यत्रैव स तत्रैव यो यदैव तदैव सः।
न देशकालयोाप्तिर्भावानामिह विद्यते ॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्यावस्तुत्वात्, वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः, अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः, नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति, स ह्येको बीजपूरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयनेकेन स्वभावेन जनयेद् नानास्वभावैवा, यधेकेन तदा तेषां रसादिक्षणानामेकत्वं स्वादैकस्वभावानन्यत्वात् ।
अथ नानास्वभावैर्जनयति किंचिद्रूपादिकमुपादानभावेन किंचिद्रसादिकं सहकारित्वेनेति, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा, अनात्मभूताश्चेत्स्वभावत्वहानिः, यद्यात्मभूतास्तहि तस्यानेकत्वमनेकस्वभावत्वात् , स्वभावानां वैकत्वं प्रसज्येत, तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वाद् ।
अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते ? तर्हि नित्यस्यैकरूपस्य क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसांकर्यं च कथमिण्यते क्षणिकवादिना ।
अथ नित्यमेकस्वरूपत्वादक्रमम् , अक्रमाच क्रमिणां नानाकायाणां कथमुत्पत्तिरिति चेद् ? अहो स्वपक्षपाती देवानाम्प्रियः, यः
Page #46
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये खलु स्वयमेकस्मानिरंशाद्रूपादिक्षणलक्षणात्कारणायुगपदनेककारणसाध्यान्य कार्याध्यङ्गीर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भाश्यति तस्माक्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादपि क्रमाक्रमयोनिटत्यैव व्याप्याऽर्थक्रिया व्यावर्तते, तनावृत्तौ च सत्वमपि व्यापाकानुपलम्भवलेनैव निवतत इत्येकान्तानित्यवादो न रमणीयः ।
स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियापपत्तिरविरुद्धा।
न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम् ?
नित्यपक्षानित्यपक्षविलक्षणस्य कथंचित्सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुभवादिति । तथा च पठन्ति
भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षत इति ॥ तथा सामान्यैकान्तं, विशेषकान्तं, भिन्नौ सामान्यविशेषौ, चेत्थं निराचष्टे, तथा हि-विशेषाः सामान्याद्भिन्ना अभिन्ना वा, भिन्नाश्वेन्मण्डूकजटाभारानुकाराः, अभिन्नाश्चेत्तदेव तत्स्वरूपवदिति सामान्यैकान्तः।
सामान्यैकान्तवादिनस्तु द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः सांख्याश्च ।
पर्यायनयान्वयिनो भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थस्ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वाद् ।
न हि गवादिव्यक्त्यनुगमकाले वर्णस्थानात्मकं व्यक्तिरूपमवहायान्यक्तिचिदेकमनुयायि प्रत्यक्षे प्रतिभासते तादृशस्यानुभवाभावात्। तथा च च पठन्ति
एतासु पश्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमङ्गलीषु ।
Page #47
--------------------------------------------------------------------------
________________
जैनमतम् । साधारण रूपमवेक्षतं यः शृङ्गं शिरस्यात्मन ईक्षते सः॥ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिस्य एवोत्पद्यत इति न तेन सामान्यसाधनं न्याव्यम् ।
किं च यदिदं सामान्यं परिकल्प्यते-तदेकमकं वा, एकमपि सर्वगतमसर्वगतं च, सर्वगतं चेरिक न व्यत्यन्तमालेवपि लभ्यते, सर्वगतैकत्वाभ्युपगमे वा तस्य यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरभ्यविशेशात, असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमवाधश्च ।
अथानेक गोत्वाश्वत्वघटत्वादिभेदभिन्नत्वात्, तर्हि विशेषा एव स्वीकृता अन्योन्यव्यावृत्तिहेतुत्वाद्, न हि यदोत्वं तदश्वत्वात्मकमिति, अर्थक्रियाकारित्वं च वस्तुनो लक्षणं तच्च विशेषेष्वेव स्फुटं लक्ष्यते, न हि सामान्येन काचिदर्थक्रिया क्रियते तस्य निष्क्रियत्वात्, वाहदोहादिष्वर्थक्रियासु विशेषाणामेवोपयोगात् तदिदं सामान्य विशेषेभ्यो भिन्नमभिन्नं वा, भिवं चेदवस्तु, विशेषविश्लेपार्थक्रियाकारित्वाभावाद्, अभिन्नं चेद्विशेषा एव तत्स्वरूपवदिति विशेषकान्तवादः।
नैगमनयानुगामिनस्त्वाहुः-स्वतन्त्रौ सामान्यविशेषौ, तथैव प्रमाणेन प्रतीतत्वात्, तथा हि-सामान्यविशेषावत्यन्तं भिन्नौ, विरुद्धधर्माध्यासितत्वाद् , यावेवं तावेवं यथा पाथःपावको, तथा चैतौ, तस्मात्तथा, सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शबलशाबलेयादयो विशेषाः, ततः कथयेषामैक्यं युक्तं, न सामान्यात् पृथग विशेषस्योपलम्भ इति चेत् ? कथं तर्हि तस्योपलम्भ इति वाच्यम् ?
सामान्यव्याप्तस्येति चेद् ? न, तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् ततश्च तेन वोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात, तस्माद्विशेषमभिलषता तत्र व्यवहारं प्रवर्तयता तद्ग्राहको बोधोऽभ्युपगन्तव्यः। .
Page #48
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये एवं सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्द प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बोधो विविक्तोऽङ्गीकर्तव्यः ।
तस्मात्स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिभासमानत्वाद् द्वावपीतरेतरविशकलितो, ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति स्वतन्त्रः सामान्यविशेषवादः, स्वतन्त्रसामान्यविशेषदेशका नैगमनयानुरोधिनः काणादा आक्षपादाश्च ।
तदेतत्पक्षत्रयमपि क्षोदं न क्षमते, प्रमाणबाधितत्वात् सामान्यविशेषोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वाद् वस्तुनो हि लक्षणमर्थक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः, तथा हि-गौरित्युक्ते खुरककुदलाङ्गलसानाविषाणाद्यवयवसंपन्नं वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते तदा महिष्यादिव्यावृत्तिरपि प्रतीयते,यत्रापि च शवला गौरित्युच्यते, तत्रापि च यथा विशेषप्रतिभासस्तथा गोत्वप्रतिभासोऽपि स्फुट एव, शबलेति केवलविशेषोच्चारणेऽप्यर्थात्प्रकरणाद्वा गोत्वमनुवर्तते; अपि च शवलत्वमपि नानारूपं तथा दर्शनात् ततो वक्त्रा शबलेत्युक्तेक्रोडीकृतशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते; तदेवमावालगोपालं प्रतीतप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयकान्तवादः प्रलापमात्रं, न हि क्वचित् कदाचित् केनचित् किश्चित्सामान्यं विशेषविनाकृतमनुभूयते, विशेषा वा तद्विनाकृताः। यदाहुः
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क कदा केन किंरूपा दृष्टा मानेन केन च ॥ इति । केवलं दुर्णयवलप्रभावितप्रबलमतिव्यामोहादेकमपलप्यान्यद् व्यवस्थापयन्ति कुमतयः सोऽयमन्धगजन्यायः।
येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्तदोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्गरप्रहारजर्जरितत्वानोच्छ्वसितुमपि क्षमाः।
स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्यं प्रतिव्यक्ति कथंचिद्विभिन्नं, कथंचित्तदात्मकत्वाद्विसदृशपरिणामवद् ,
Page #49
--------------------------------------------------------------------------
________________
४१
जैनमतम् । यथैव हि काचिद्वयक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्टते, तथा सदृशपरिणामात्मकसामान्यदर्शनासमानेति, तेन समानो गौरयं, सोऽनेन समान इति प्रतीतेः ।
न चास्य व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातः, यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः, कथंचिद्वयतिरेकन्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव पृथगव्यपदेशादिभात्त्वाद् विशेष अपि नैकान्तेन सामान्यात्पृथग भवितुमर्हन्ति यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेपासपर्वगतत्वं, ततो विरुद्धधर्माध्यासः स्यात् ।
न च तस्य तत्सिद्धं, प्रागुक्तयुक्तया निराकृतत्वात् सामान्यस्य विशेषाणाञ्च परस्परं कथंचिदव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्वाद् विशेपेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते सामान्यात्तु विशेषाणामव्यतिरेकात् तेऽप्येकरूपा इत्येकत्वं च सामान्यस्य संग्रहनयार्पणात्सर्वत्र विज्ञेयम् , अनेकत्वं च प्रमाणार्पणात् तस्य सदृशपरिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्तिभेदात् । .
एवं चासिद्धं सामान्यविशेश्योः सर्वथा विरुद्धधर्माध्यासितत्वं कथंचिद्विरुद्धधर्माध्यासितत्वं चेद् विवक्षितं तदाऽस्मत्पक्षप्रवेशः, कथंचिद्विरुधर्माध्यासस्य कथंचि दाविनाभूतत्वात् पाथःपावकदृष्टान्तोऽपि साध्यसाधन विकलः, तयोरपि कथंचिद्विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकारात् , पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति । उक्तं च--
दोहिं विण एहिं पणीयं सत्थमुलूगेण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अण्णोणणिरवेखं ।। १. द्वाभ्यामपि नयाभ्यां प्रणीतं शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम् ।
यत्सविषयप्रधानत्वेनान्योन्यनिरपेक्षम् ॥ ६ष०९०
Page #50
--------------------------------------------------------------------------
________________
४२
तथा
सटीके षड्दर्शनसमुच्चये
निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वेन विशेपास्तद्वदेव हि ॥ तथैकान्तसत्त्वमेकान्तासत्त्वं च वार्त्तमेव, तथा हि- सर्वभावानां हि सदसदात्मकत्वमेव स्वरूपम्, एकान्तसत्वे वस्तुनो वैस्वरूप्यं स्याद एकान्तासचे च निःस्वभावता भावानां स्यात् तस्मात्स्वरूपेण सच्चात् पररूमेण चासच्चात् सदसदात्मकं वस्तु सिद्धम् ।
यदाहु:--
'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः' ॥ इति । ततचैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकान्तात्मकत्वं घटस्य सूपपादम् एवं चैकस्मिन्नर्थे ज्ञाते सर्वे - षामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवाद् । आगमोऽप्येवमेव व्यवस्थितः -
'जे' एगं जाणइ सो सव्वं जाणइ । जो सव्वं जाणइ सो एगं जाणई' ||
तथा
एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भवाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः ॥
इति सुघटं सदसदने कान्तात्मकं वस्तु, अनयैव भङ्गया स्यादस्तिस्यान्नास्तिस्यादवक्तव्यादिसप्तभङ्गी विस्तरस्य जगत्पदार्थसार्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति ।
सद्भूतार्थोपदेशकः कृत्स्नकर्मक्षयं कृत्वेति । कृत्स्नानि सर्वाणि घात्यघातीनि यानि कर्माणि जीवभोग्यवेद्यपुद्गलास्तेषां क्षयं निर्जरणं विधाय परमं पदं सम्प्राप्तः ।
१. य एकं जानाति स सर्व जानाति । यः सर्वं जानाति स एकं जानाति ॥
Page #51
--------------------------------------------------------------------------
________________
जैनमतम् ।
४३ अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसम्भवे भूयो भूयो भवमवतरन्ति । यदाहुः
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ इति । न ते परमार्थतो मोक्षगतिभाजः कर्मक्षयाभावाद्, न हि तत्वतः कर्मक्षये पुर्नभवावतारः। यदुक्तम्
दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्करः । कर्मवीजे तथा दग्धे न रोहति भवाङ्करः ॥ इति ।
अर्हश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति ॥ ४६॥ तत्वान्याह---
जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ। बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥
तन्मते = जैनमते, नव तत्वानि सम्भवन्तीति ज्ञेयम् , नामानि निगदसिद्धान्येव ॥४७॥ जीवाजीवपुण्यतत्त्वमेवाह
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । का शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः पुण्य सत्कर्मपुद्गलाः ॥४९॥
(युग्मम् ) तत्र जैनमते, चैतन्यलक्षणो जीव इति सम्बन्धः, विशेषणान्याह-ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मगुणास्तेभ्योऽयंजीवश्चतुर्दशभेदोऽपि कथञ्चिद्भिन्नः कथञ्चिदभिन्न इत्यर्थः, एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्व
Page #52
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये मिति भिन्नत्वं, लेशतश्वेत्सर्वजीवेषु न ज्ञानवत्वं तदा जीवोऽजीवत्वं प्राप्नुयात् , तथा च सिद्धान्तः
'सव्वजीवारणं पियणं अक्खरस्स,
अणन्तओ भागो निच्चुग्याडिओ। जइ सो वि आवरेज्झा
ता जीवो अजीवत्तं पाविज्झा। सुद्धा वि मेहसमुदये होइ पहा चन्दसूराणम् ॥
तथा विवृत्तिमानिति । विवृत्तिः परिणामः साऽस्यास्तीति मतुप, सुरनरनारकतिर्यवेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तजातिषु विविधोत्पत्तिरूपान् परिणामाननुभवति जीव इत्यर्थः, अन्यच्च शुभाशुभं कर्म कर्ता, शुभं सातवेद्यम् , अशुभमसातवेध, शुभञ्चाशुभश्चेति द्वन्द्वः, एवंविध कर्म भोक्तव्यफलकर्तभूतं का स्वात्मसाद्विधाता3 उपार्जयितेति यावद् , न च साङ्खयवदकर्ताऽऽत्मा शुभाशुभावन्धकश्चेति तथा कर्मफलम्भोक्ता न च केवलः कर्ता, किं तु भोक्ताऽपि स्वोपार्जितपुण्यपापकर्मफलस्य वेदयिता न चान्यकृतस्यान्यो भोक्ता। तथा चागमः
जीवाणं भन्त ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खै ? गोयम ! अत्तकडे दुक्खे
नो परकडे दुस्खे नो तदुभयकडे दुक्खे ॥ इति । कतैव भोक्ता तथा चैतन्यलक्षण इति । चैतन्यं चेतनास्वभावत्वं, तदेव लक्षणं मूलगुणो यस्येति सूक्ष्मवादरभेदा एकेन्द्रियास्तथा विकलेन्द्रियास्त्रयः, संज्ञासंज्ञिभेदाश्च पञ्चेन्द्रियाः, सर्वेऽपि
१. सर्वजीवानां प्राणानाम् अक्षरस्य
अनन्तको भागो नित्योद्घाटितः। यदि सोऽण्यावियेत तदा जीवोऽजीवत्वं प्राप्नुयात् ।
शुद्धाऽपि मेघसमुदये भवति प्रभा चन्द्रसूर्याणाम् ॥ २. जीवानां भदन्त ! किमात्मकृतं दुःखं परकृतं दुःखं तदुभयकृतं दुःखम् ? गोतम ! आत्मकृतं दुःखं नो परकृतं दुःखं नो तदुभयकृतं दुःखम् ॥
Page #53
--------------------------------------------------------------------------
________________
जैनमतम् । पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यभिचरन्तीति ।
अथाजीवमाह-'यश्चैतद्वैपरीत्यवानजीवः स समाख्यात'-इति । यः पुनस्तस्माज्जीवलक्षणाद्वैपरीत्यमन्यथात्वमस्यास्तति तद्वैपरोत्यवान् विपरीतस्वभावोऽचेतनः सोऽजीवः समाख्यातः कथितः पूर्वसूरिभिरिति, भेदाश्च धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणा अद्धाकेवलपरमाणुश्चेति चतुर्दश जीवभेदाः।
पुण्यं सत्कर्मपुद्गला इति । पुण्यं नाम तत्वं कीगित्याहसत्कमपुद्गला इति । सच्छोभनं सातवेद्यं कर्म, तस्य पुद्गला दलपाटकानि पुण्यत्रकृतय इत्यर्थः । ताश्च द्वाचत्वारिंशत्तद्यथा
नरतिरिसुराउउच्चं सायं परघायआयवुजोयं ।
तित्थुस्सास्सुनिमाणं पणिदिव इरुस्सभचउरसं॥ तंसदसनं वनचउकं सुरमणुअदुगंतणुपंच उबंगतिनं । अगुरुलहुपडमखगई वायालीस सुहपयडी ॥
भावार्थस्तु ग्रन्थविस्तरभयानोच्यत इति श्लोकार्थः ॥ ४८-४९ ॥ शेषतत्त्वमाहपापं तद्विपरीतन्तु मिथ्यात्वाद्याश्च हेतवः । यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥५०॥
तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतवमित्यर्थः, मिथ्यात्वाद्याश्चेति । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः पापस्य कारणानि, तत्प्रकृतयश्च यशीतिस्तद्यथा___ 'थावरदसनं जाईचउभं अपढमसंठाणखगइसंघयणा ।
१. नरतिर्यकसुरायुरुच्च सातं परघातातवोद्योतम् ।
तीर्थोच्छासनिर्माणं पञ्चेन्द्रियवज्रर्षभचतुरस्रम् ॥ २. सदशकं वर्णचतुष्कं सुरमनुजद्विकं तनुपञ्चकमुपाङ्गत्रिकम् ।
अगुरुलघुप्रथमखगतिचत्वारिंशत् शुभप्रकृतयः॥ ३. स्थावरदशकं जातिचतुष्क।
अप्रथमसंस्थानखगतिसंहननानि ॥ तिर्यग्निरयद्विकायुर्जातिवर्णचतुष्कं नाम चत्वारिंशत् । नरकायुनींचासाघातिपञ्चचत्वारिंशत्सहितद्वयशीतिः ॥
Page #54
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये
तिरिनिरय दुगारजाईव मचऊकं नामचउतीसा ॥ नरयाउनीयअस्सायघाइपणयालसहिवासी ' ॥ इति । पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो व्यशीतिः । वर्णचतुष्कस्य तु शुभाशुभ रूपेणोभयत्रापि सम्बध्यमानत्वान्न दोषः, यस्तै मिथ्यादर्शनादिभिर्बन्धः कर्मबन्धः स जिनशासन आश्रवो विज्ञेयः, आश्रवतन्त्रं ज्ञेयमित्यर्थः, तत्प्रकृतयश्च द्वाचत्वारिंशत्, तथा हि- पञ्चेन्द्रियाणि चत्वारः कपायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिकयादय इत्याश्रवः ॥ ५० ॥
संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्म सम्बन्धो यो द्वयोरपि ॥ ५१ ॥ तु पुनस्तनिरोध आश्रवद्वारप्रतिरोधः संवरतत्त्वं संवरप्रकृतयस्तु
सप्तपञ्चाशत्तद्यथा
४६
,
संमिइगुत्तिपरी सहजइधम्मभावणाचरिताणि । पण तिगदुवी सदसवार हपञ्चभेएहिं सगवणा ||
पञ्च समितयस्तिस्रो गुप्तयो, द्वाविंशतिः परीषहा, दशविधो यतिधर्मः, द्वादश भावनाः, पञ्च चारित्राणीति प्रकृतयः, बन्धो नाम जीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यानुगमात् परस्परक्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धनाम तत्त्वमित्यर्थः सच तुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात्
'स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः ॥
इत्यादिः सम्बन्धो ज्ञेयः ॥ ५१ ॥
निर्जरामोक्षौ चाह
बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥
-
१. समितिगुप्तिपरीषहयतिधर्मभावनाचरित्राणि । पञ्चत्रिद्वाविंशतिदशद्वादशपञ्चभेदैः पञ्चाशत् ॥
Page #55
--------------------------------------------------------------------------
________________
जैनमतम् । यः पुनर्बद्धस्य सृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणभ्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति, सा पुनििवधा सकामाकामभेदेन, तु पुनर्देहादेरात्यन्तिको वियोगी मोक्ष उच्यते । स च नवविधो यथा
'संतपयवस्वणया दव्यमाणं च खित्तपसणा य । कालो य अन्तरं भागो भावो अप्पा बहुं चेव ॥ इति ।
नवप्रकारो हि करणीयः बाह्यमाणानामात्यन्तिकापुन वित्वेनाभावः शिव इत्यर्थः।
ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वान् मोक्षतत्वाभाव इति चेद् ?
न, मोक्षे हि द्रव्यप्राणानामेवाभावः भावप्राणास्तु नैष्कामिकावस्थायामपि सन्त्येव । यदुक्तम्'यस्मात्क्षायिकसम्यक्त्वं वीर्यसिद्धत्वदर्शनज्ञानैः । आत्यन्तिकैः संयुक्तो निर्द्वन्द्वेनापि च सुखेन । ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तर्हि । तस्माज्जीवत्वं हि नित्यं सर्वस्य जीवस्य ॥ इति ।
सङ्गतदेहवियोगान्मोक्ष, आदिशब्दादेहेन्द्रियधर्मविरहोऽपीति पद्यार्थः ॥५२॥ एवं नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह- .
एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥
एतानि पूर्वोक्तानि, तत्र जिनमते, तच्चानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते, एतावता जाननप्यश्रद्दधानो मिथ्यागेव।
१. सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शनाच । कालश्चान्तरं भागो भावोऽल्पबहुत्वं च॥
Page #56
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये
यथोक्तं- श्रीगन्धिहस्तिमहातर्फे । 'द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये' ति तस्य दृढमानतस्य सम्यक्त्वयोगेन चारित्रयोग्यता चारित्रार्हता सम्यक्त्वज्ञानयोगेनेति, सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चास्त्रिस्य व्यवच्छेदार्थ सम्यक्त्वज्ञानग्रहणमिति ॥ ५३ ॥
४८
फलमाह
तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञान क्रियायोगाज्जायते मोक्ष भाजनम् ॥ ५४ ॥ तथेत्युपदर्शने, भव्यत्वपाकेन परिपक्व भव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति भव्यत्वस्य परिपाकेन यस्य पुंस एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत्, यत्तदोर्नित्याभिसम्बन्धात् सोऽनुक्तोsपि सम्बध्यत इति स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्क इत्यर्थः, कस्मात् सम्यग्ज्ञानक्रियायोगात् सम्यगिति । सम्यक्त्वं दर्शने, ज्ञानमागमावबोधः, क्रिया च चरणकरणात्मिकास्तासां योगः सम्बन्धस्तस्माद्, न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षकारणम् ।
यदाहुर्भद्रवाहुस्वामिपादाः
सुबहु पि सुमहीयं किं काही चरणविप्पमुक्कस्स | अन्धस्स जह पलित्ता दीवस सहस्सकोडी वि ॥
तथा
नाणं चरितही लिंगग्ग हणं च दंसणविहीणं । संजमहीणं च तवं जो चरs निरत्थयं तस्स ||
दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि यदुवाच, वाचकमुख्य: - ' दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति ॥ ५४ ॥
१. सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविप्रयुक्तस्य । अन्धस्य यथा प्रदीपा दीपशतसहस्रकोटिरपि ॥ ज्ञानं चरित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम् । संयमहीनं च तपः यश्चरति निरर्थकं तस्य ॥
Page #57
--------------------------------------------------------------------------
________________
जैनमतम् । प्रमाणे आहप्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥५५॥
तथेति प्रस्तुतमतानुसन्धाने, द्वे प्रमाणे मते अभिमते, के ते इत्याह-प्रत्यक्षं च परोक्षं चेति । अश्नुतेऽक्ष्णोति वा व्यामोति सकलद्रव्य क्षेत्रकालभावानित्यक्षो जीवोऽश्नुते विषयमित्यक्षमिन्द्रियं च, अक्षमक्षं प्रतिगतं प्रत्यक्षमिन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमित्यर्थः, अवधिमनःपर्याय केवलज्ञानानि तद्भेदाश्च प्रत्यक्षमेव, अत एव सांव्यवहारिकपारमार्थिकैन्द्रियिकातीन्द्रियिकादयो भेदा अनुमानादधिकज्ञान विशेषप्रकाशकत्वादत्रैवान्तर्भवन्ति ।
परोक्षं चेति । अक्षाणां परं परोक्षम् अक्षेभ्यः परतो वर्तत इति वा, परेणेन्द्रियादिना वोक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम् , अमुयैव भङ्गया मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे।
प्रमाणमुक्त्वा तद्गोचरमाह-तु पुनः, इह जिनमते, प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयोविषयो गोचरो ज्ञेय इत्यध्याहारः ।
किं तदित्याशङ्कायामनन्तधर्मकं वस्त्विति । वस्तुतत्त्वं पदार्थस्वरूपं, किंविशिष्टम् ? अनन्तधर्मकम् अनन्तात्रिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्याया यत्रेति, अनेन साधनमपि दर्शितं तथा हि-सत्त्वमिति धर्मि; अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथाऽनुपपत्तेरिति हेतुः, अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोरन्ताप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदनन्तधर्मकं न भवति तत् सदपि न भवति यथा वियदिन्दीवरमिति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिबिक्षिप्तत्वेनान्वयायोगात् ।
अनन्तधर्मात्मकत्वं चात्मनि तावत्साकारानाकारोपयोगिता
Page #58
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्तत्वमसङ्घयातप्रदेशात्मकता जीवत्वमित्यादयः सहभाविनो धर्माः, हर्षविपादशोकसुखदुःखदेवनारकतिर्यनरत्वादयस्तु क्रमभाविनः, धर्मास्तिकायादिष्वप्यसङ्खयेयप्रदेशात्मकत्वं गत्याधुपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः, घटे पुनरामत्वं पाकजरूपादिमचं पृथुतुनोदरकम्बुग्रीवत्वं जलादिधारणहरणसामर्थ्य मत्यादिज्ञानविषयत्वं नवत्वं पुराणत्वमित्यादयः।
एवं सर्वपदार्थेषु नानानयमताभिज्ञेन शाब्दानार्थांश्च पर्यायान् प्रतीत्य वाच्यशब्देष्यप्युदात्तानुदात्तस्वरितविवृत संवृतघोषनादाघोषाल्पप्राणमहाप्राणताऽऽदयः तत्तदर्थप्रत्यायनशक्त्यादयश्वावसेयाः।
अस्य हेतोरनेकान्तप्रचण्डमुद्गराघातदलितशक्तित्वेनासिद्धवि. रुद्धानेकान्तिकत्वादीनां कण्टकानामनवकाश एवेत्येवंविधपर्यायात्यन्तसुभगं वस्तु जिनशासने प्रमाणविषय इत्यर्थः ॥ ५५ ॥ लक्ष्यनिर्देशं कृत्वा लक्षणमाह
अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज् ज्ञेयं पराक्षं ग्रहणेक्षया ॥५६॥
तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयाऽर्थस्य ग्राहक ज्ञानमीदृशमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावद्, अर्थ्यतइत्यर्थो गम्यत इति हृदयम्, अयंत इति वाऽर्थो दाहपाकाद्यक्रियार्थिभिरभिलण्यत इति, तस्य ग्राहकं व्यवसायात्मकतया परिच्छेदकं यज् ज्ञानं तदीदृशमिति; ईडगेव प्रत्यक्षमिति संटङ्कः, अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, तस्यासाक्षात्कारितयाऽर्थग्रहणरूपत्वादिति, ईदृशमिति । अमुना तु पूर्वोक्तन्यायात्सावधारणत्वेन विशेषणकदम्बसचिवलक्षणज्ञानोपदर्शनात्परपरिकल्पितस्य युक्तरयं प्रत्यक्षतां प्रतिक्षिपति ।
Page #59
--------------------------------------------------------------------------
________________
जैनमतम् । एवं च यदाहुः-'इन्द्रियार्थसनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्,' तथा 'सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमित्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्रादुर्भावस्य प्रमाणवाधितत्वादत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात्, तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसन्निधानात्साक्षादर्थग्रहणपरिणामरूपतया निर्धतते, तथा चोत्पन्नजन्मरूपादिविशेषणं न संभवेद्, अथैवंविधार्थभूचकमेवैतदित्याचक्षीथास्तथा सत्यविगानमेवेत्यास्तां तावत् ।
अधुना परोक्षलक्षणं दर्शयति—इतरदित्यादि, अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तम् , तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् , तदपि स्वसंवेदनापेक्षतया प्रत्यक्षमेव, बहिरापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयन्नाह-ग्रहणेक्षयेति। इह ग्रहणं नक्रमादहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात्तस्येक्षापेक्षा या बहिःप्रवृत्तिपालोचनयेति यावत्, तदयमों यद्यपि स्वयं प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यत इत्यर्थः॥५६॥ पूर्वोक्तमेव वस्तुतत्वमनन्तधर्मात्मकतया द्रढयनाह
येनोत्पादव्ययध्रौव्ययुक्तं यत्सत्तदिष्यते। अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः॥ ५७ ॥
येन कारणेन यदुत्पादव्ययधौव्ययुक्तं तत्सत्सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः, प्रत्यक्षपरोक्षप्रमाणविषयः, उक्तं कथितमिति सम्बन्धः, उत्पादश्च व्ययश्च ध्रौव्यञ्च, उत्पादव्ययप्रौव्याणि तेषां मेलस्तदेव सत्त्वमिति ज्ञानम् , इष्यते केवलज्ञानिभिरभिलष्यत इति, वस्तुतत्वं चोत्पादव्ययधोव्यात्मकम् , तथा हिउर्वीपर्वततर्वादिकं सर्वं वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वयादर्शनात् , लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम्, प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वाद्, न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात् ।
Page #60
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानादिति
वचनात्ततो द्रव्यात्मता स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते चास्खलितपर्यायानुभवसद्भावात् ।
न चैवं शुक्लशङ्ख पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रपत्वाद्, न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशोऽजहवृत्तोत्तराकारोत्पादाविनाभावी भवेद् , न च जीवादी वस्तुनि हर्षामोदासीन्यादिपर्यायपरंपराऽनुभवः स्खलद्रूपः, कस्यचिदाधकस्याभावाद् ।
ननुत्पादादयः परस्परं भिद्यन्ते न वा ? यदि भिद्यन्ते कथमेकं वस्तु व्यात्मकं ? न भिद्यन्ते चेत्तथाऽपि कथमेकं वस्तु व्यात्मकं ? तथा च यद्युत्पादादयो भिन्नाः कथमेकं व्यात्मकम् ? अथोत्पत्त्यादयोऽभिन्नाः कथमेकं त्र्यात्मकमिति चेत् ?
तदयुक्तं-कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथंचिद्भेदाभ्युपगमात् , तथा हि उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि भिन्नलक्षणत्वाद् रूपादिवद्, न च भिनलक्षणत्वमसिद्धम् , असत आत्मलाभः, सतः सत्त्वाविप्रयोगो, द्रव्यरूपतयाऽनुवर्त्तनं, च खलूत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव, न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः, तथा झुत्पादः केवलो नास्ति स्थितिविगमरहितत्वात कूर्मरोमवत् , तथा विनाशः केवलो नास्तीत्युत्पत्तिरहितत्वात्तद्वदेव, स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात् तद्वदेवेत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्वं प्रतिपत्तव्यम् । तथा चोक्तं
'घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोत्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् ॥
Page #61
--------------------------------------------------------------------------
________________
जैनमतम् ।
५३ इति, व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति तद्वस्त्वेव न; यथा खरविपाणं, यथेदं तथेदमिति, अत एवानन्तधर्मकं वस्तु मानगोचरः प्रोक्तम् , अनन्ता धर्माः पर्यायाः सामान्यविशेषलक्षणा यत्रेत्यनन्तधर्मकं वस्त्विति, उत्पादव्ययध्रौव्यात्मकस्यैवानेकधर्मकत्वं, युक्तियुक्ततामनुभवतीति ज्ञापनायैव भूयोऽनन्तधर्मकपदप्रयोगो, न पुनः पाश्चात्यपद्योत्तानन्तधर्मकपदेन पौनरुत्तयमाशङ्कनीयमिति पद्याथः॥५७॥ ग्रन्थस्य बालावबोधार्थफलकत्वादथोपसंहरनाह
जैनदर्शनसंक्षेप इत्येष कथितोऽनघः। पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥॥५८ ॥
इति = पूर्वोक्तप्रकारेण, एषः = प्रत्यक्षलक्ष्यो, जैनदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वाद् , उपयोगसारः संक्षेपो निवेदितः, किंभूतोऽनघो निर्दूषणः सर्ववक्तव्यस्य सर्वज्ञमूलत्वेन दोषकालुष्यानवकाशात् , तु समुच्चयार्थे, तत्र पुनः पूर्वापरविधातः कापि न विद्यते, पूर्वस्मिन्नादावपरस्मिन् प्रान्ते न विधातो विरुद्धार्थता यत्र दर्शने कापि पर्यन्तग्रन्थेऽपि परस्परविसंवादो नास्ति, आस्तां तावत्केवलभाषितेषु द्वादशाङ्गेषु पारंपर्यग्रन्थेष्वपि सुसम्बद्धार्थत्वाद् विरुद्धार्थदौर्गन्ध्याभावः। __अयं भावो-यत् परतैर्थिकानां मूलशास्त्रेष्वपि न युक्तियुक्त तां पश्यामः, किं पुनः पाश्चात्यविप्रलम्भग्रथितग्रन्थकथासु, यच्च क्वापि कापि कारुण्यादिपुण्यकर्मपुण्यानि च वासि कानिचिदाकर्णयामस्तान्यपि त्वदुक्तमूक्तसुधापयोधिमन्थोद्गतान्येवर नानीव सह्य स्वात्मानं रत्नपतय इव बहु मन्वाना मुधा प्रगल्भन्ते । यदाहुः श्रीसिद्धसेनदिवाकरपादाः
'सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसम्पदः । तथैव ताः पूर्णमहार्णवोत्थिता
जगत्प्रमाणं जिनवाक्यविग्रुष' ॥५८॥ इति परमार्थः।
Page #62
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये ___अथ वैशेषिकमतस्य देवताऽऽदिसाम्येन नैयायिकेभ्यो ये विशेष न मन्यन्ते तान् बोधयन्नाहदेवताविषये भेदो नास्ति नैयायिकैः समम्। वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ॥५९॥
शिवदेवतासास्येऽपि, तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादादीनां नैयायिकैराक्षपादैः समं सार्दू देवताविषये शिवदेवताऽभ्युपगमे दो विशेपो नास्ति, तत्त्वेबु शासनरहस्येषु भेदो विद्यते, तुशब्दोऽध्याहार्यः, असौ विशेषो नैयायिकेभ्यः पृथम्भावो, निर्दिश्यते प्रकाश्यत इत्यर्थः ॥ ५९॥ तान्येव तत्वान्याह
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥६॥
तन्मते वैशैविक्रमते, हि निश्चयेन, तत्वपटकं ज्ञेयमिति सम्बन्धः, कथमित्याह-द्रव्यं गुण इत्यादि, आदिमतत्त्वं द्रव्यनाम, भेदबाहुल्येऽपि सामान्यादेकम् , द्वितीयतत्वं गुणनाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसञ्ज्ञम् , चतुर्थकं च तत्त्वं सामान्यम् , चतुर्थमेव चतुर्थक स्वार्थे कः प्रत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ, विशेषश्च समवायश्चेति द्वन्द्व इति तदर्शने तत्त्वानि षड् ज्ञेयानि ॥६०॥ भेदानाह--- तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसिच, गुणाः पुनश्चतुर्विंशतिधा॥६॥ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ। । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥१२॥ बुद्धिः सुखदुःखेच्छा धर्माधर्मों प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥ ६३ ॥
नवद्रव्याणि चतुर्विंशतिगुणाश्च निगदसिद्धान्येव, संस्कारस्य वेगभावनास्थितिस्थापकभेदात्रिविधत्त्वेऽपि संस्कारत्वजात्यपेक्षयै
Page #63
--------------------------------------------------------------------------
________________
वैशेषिकमतम् |
शौय्यौदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगुणेष्वन्तर्भा
कत्वम्, वान्नाधिक्यम् ॥ ६१-६३ ॥
कर्मसामान्यभेदानाह
VEENGINTAINS
५५
उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मैतत्परापरे द्वे तु सामान्ये ॥ ६४ ॥ पञ्चापि कर्मभेदाः स्पष्टा एव गमनग्रहणाद् भ्रमण रेचनस्यन्दनाद्यवरोधः, तु पुनः, सामान्ये द्वे द्विसङ्घये, के ते ? इत्याहपरापरे । परञ्चापरं च परापरे,
परसामान्यमपरसामान्यं
चेत्यर्थः ॥ ६४ ॥
एतयति विशेषव्यक्ति चाह
तत्र परं सत्ताssख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यंवृत्तिरन्त्यो विनिर्दिष्टः ॥ ६५ ॥ तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति वोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वाद्, अपर सामान्यं द्रव्यत्वादि, एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते, तथा हिद्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात्सामान्यं, गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति ।
एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिरूपमपरं तदपेक्षया घटत्वादिकम् ।
एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेश्व विशेषः, एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम् ।
एवं पञ्चसु कर्मसु वर्त्तमानत्वात्कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः, एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् ।
तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्येति चेद् ? उच्यते - न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः, एकद्रव्यत्वाद्, एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववद्, यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किं तु सामान्यं विशेषलक्षणं द्रव्य
Page #64
--------------------------------------------------------------------------
________________
५६
सटीके षड्दर्शनसमुच्चये
त्वमेव, एवं सत्ताsपि वैशेषिकाणां ह्यद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यं तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मानः परमाणवः, अनेकद्रव्यं तु व्यणुकादिस्कन्धाः, एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती सत्तेति द्रव्यलक्षणविलक्षणत्त्वान्न द्रव्यम् ।
एवं न गुणः सत्ता गुणेष्वभावाद् गुणत्ववत्, यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्त्तेत निर्गुणत्वाद् गुणानां वर्त्तते च गुणेषु सत्ता 'सन् गुण' इति प्रतीतेः तथा न सत्ता कर्म कर्मसु भावात् कर्मत्ववत्, यदि च सत्ता कर्म स्यान्न तर्हि कर्मसु वर्त्तेत, निष्कर्मत्वात्कर्मणां वर्त्तते च कर्मसु भावः, 'सत्कर्मेति प्रतीतेः, तस्मात्पदार्थान्तरं सत्ता |
"
अथ विशेषपदार्थमाहार्याऽर्द्धन – विशेषस्त्विति । निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्दिष्टः कथितः, आचार्येणेति ज्ञेयम्, कथमित्याह - अन्त्यो विशेपो नित्यद्रव्यवृत्तिरिति तथा हि-नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवस्ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम्, तथा च प्रशस्तकारः - अन्तेषु भवा अन्त्याः, स्वाथयविशेषकत्वाद्विशेषाः, विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्त्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, तथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिक्रियाऽवयवोपचयापचयविशेषसंयोगनिमित्तासम्भवाद्, येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकदृष्टे च परमाणौ स एवायमिति च प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा इति, अमी च विशेषा एव, न तु द्रव्यत्वादिवत्सामान्यविशषोभयरूपा व्यावृत्तेरेव हेतुत्वादित्यर्थः ॥ ६५ ॥ समवायपदार्थव्यक्तिलक्षणमाह
य इहात सिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ॥ ६६ ॥ इह प्रस्तुतमते, अयुत सिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुयः सम्बन्धः स समवायः, यथेह तन्तुषु पट इत्यादि — प्रत्यय -
Page #65
--------------------------------------------------------------------------
________________
जैमिनीयमतम् । स्यासाधारणं कारणं समवायः, यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते, यथा छिदिः क्रिया छेनेति, अयुतसिद्धानामिति । परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति, परस्परवैधयं तु विविक्तैरभ्यूह्य, षण्णामपि पदार्थानां स्वरूपकथनपात्राधिकृतत्वाद् ग्रन्थस्य नेह प्रतन्यत इति ॥६६॥ प्रमाणव्यक्तिमाहप्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः॥ ६७ ॥
यद्यप्यौलूक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि; तथाऽपि श्रीधरमतापेक्षयात्रोभे एवं निगदिते, अमीषां वैशेषिकाणां, प्रमाणं द्विधा द्विप्रकारम् , चः पुनरर्थे, कथमित्याह प्रत्यक्षभेकं प्रमाणं, तथेति द्वितीयभेदपरामर्श लैङ्गिकमनुमानम् , उपसंहरनाह-एवमिति । एवमिति प्रकारसूचनं, यद्यपि प्रमातृफलाद्यपेक्षया बहु वक्तव्यं, तथाऽप्येवममुना प्रकारेण वैशेषिकमतस्य संक्षेपः कथितः परिकीर्तित इति ॥ ६७॥ षष्ठं दर्शनमाह
जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥६८||
जैमिनिमुनेरमी इति जैमिनीयाः, पुत्रपौत्राद्यर्थे तद्धित इयनत्ययः, जैमिनिशिष्याश्चैक उत्तरमीम सावादिनः एके पूर्वमीमांसावादिनः, तत्रोत्तरमीम सावादिनो वेदान्तिनस्ते हि केवल ब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तोऽनिर्वाच्यतत्त्वे व्यवतिष्ठन्ते । यदाहुः
'अन्तर्भावितसत्वं चेत्कारणं तदसत्ततः ।
नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः॥ ८००
Page #66
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् ।
आस्ते न वीरधीरस्य भङ्गः सङ्गरकेलिषु ॥ एवं वादिप्रतिवादिनो:
समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः। का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ॥ उपपादयितुं तैस्तैर्मतैराशङ्कनीययोः ।
अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः॥ इत्यादिप्रलयकालानिलक्षुभितचरमसलिलराशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधकहेतूपन्यासाः प्रोच्छलन्तश्चतुरचमत्कार जनयन्तः क पर्यवस्यन्ति, तास्तु युक्तयः सूत्रकृतानुल्लिखितत्वाद् ग्रन्थविस्तरभयाच्च नेह प्रपञ्च्यन्तेऽभियुक्तैस्तु खण्डनमहातकादअसेयाः। . पूर्वमीमांसावादिनश्च द्विधा-प्राभाकरा भाट्टाश्च, क्रमेण पञ्चषट्रमाणप्ररूपकाः, अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान् ।
ते पुनजैमिनीयाः, प्राहुः-कथयन्ति, कथमित्याह-सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं प्रमाणं भवेत् , सर्वज्ञादिविशेषण इति । सर्वज्ञादिना गुणेन विशेष्य इति, आदिशब्दाद्विभुत्वनित्यत्वचिदात्मकत्वादिविशिष्टः कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेद् , मानुषतनुत्वाविशेषेण विप्रलम्भकत्वाद् दुष्टपुरुषवत् , सर्वज्ञादिगुणविशिष्टपुरुषाद्यभाव इत्यर्थः ।
अथ किङ्करायमाणसुरासुरसेव्यमानताऽऽद्युपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभुत्वान्यथानुपपत्तेश्वास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेद् ?
Page #67
--------------------------------------------------------------------------
________________
जैमिनीयमतम् । न, त्वद्यथोक्तवचनप्रपञ्चोपन्यासै रेव निरस्तत्वाद् , यथा
'देवागमनभोयानचामरादिविभूतयः ।
मायाविष्वपि दृष्यन्ते नातस्त्वमसि नो महान् ॥ अथ यथाऽनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया शोध्यमानस्य निर्मलत्वम् , एवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात् किं न सम्भवेदिति मतिः? तदपि न-न ह्यभ्यासमात्रसाम्ये शुद्धरपि तदेव तादवस्थ्यम् । यदुक्तम्
'गरुत्मच्छाखामृगयोलचनाभ्याससम्भवे ।
समानेऽपि समानत्वं लङ्घनस्य न विद्यते ॥ न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखामधिरोद क्षमः। उक्तञ्च
'दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति ।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि । अथ मा भवतु मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादीनामस्तु ते हि देवाः, सम्भवत्यपि तेष्वतिशायिसम्पद् । यदाह कुमारिल:
'अथापि वेदहेतुत्वाद् ब्रह्मविष्णुमहेश्वराः।
कामं भवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ॥ एतदपि न रागद्वेषमूलनिग्रहानुग्रहग्रस्तानां सम्भाव्योन्मेषमिति, नच प्रत्यक्षं तत्साधक-'संबद्धं वर्तमानंच गृह्यते चक्षुरादिने ति वचनाद्, न चानुमानं-प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः, न चागमः-सर्वज्ञस्यासिद्धत्वेन तस्य विवादास्पदत्वाद्, न चोपमानं-तदभावादेव, अर्थापत्तिरपि न-सर्वज्ञसाधकस्यान्यथाऽनुपपन्नलिङ्गस्यादर्शनाद्, यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम्
Page #68
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चयै
प्रयोगात्र - नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशशृङ्गवदिति ॥ ६८ ॥ अथ कथं यथावस्थिततत्त्वनिर्णयः ? इत्याहतस्मादतीन्द्रियार्थानां साक्षात् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः ॥ ६९ ॥ तस्मात्प्रामाणिक पुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्टुत्रादेः पुरुषस्याभावाद् नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथार्थतत्त्वविनिर्णयो यथाऽवस्थितपदार्थधर्मादिस्वरूप विवेचनं 'भवती' त्यध्याहारः अपौरुषेयत्वं च वेदानाम्
६०
'अपाणिपादो मनोगृहीतः पश्यत्यचक्षुः स शृणोत्यकर्ण: । सवैत्ति विश्वं न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ' ॥ इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीयमिति ॥ ६९ ॥
अथ यथाऽवस्थितार्थव्यवस्थापकं तत्त्वोपदेशमाह - अत एव पुरा कार्यो वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ॥७०॥ यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्वं प्रयत्नतो यत्नाद्वेदपाठः कार्यः 'ऋग्यजुःसामाथर्वाणो वेदास्तेषां पाठः कण्ठपीठलुठत्पाठप्रतिष्ठा, नानुश्रवणमात्रेण सम्यगववोध स्थिरता, ततोऽनन्तरं साघनीयपुण्योपचयहेतुर्धर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्त्तव्या विधेया, वेदोक्ताभिधेविधाने यतितव्यमित्यर्थः ॥ ७० ॥
वेदोक्तधर्मोपदेशमेवाह
नोदनालक्षणो धर्मों, नोदना तु क्रियां प्रति । प्रवर्त्तकं वचः प्राहुः स्वः कामोऽग्निं यजेद्यथा ॥ ७१ ॥ नोदनैव लक्षणं यस्य स नोदनालक्षणो धर्मः, तत्स्वरूपमेव
Page #69
--------------------------------------------------------------------------
________________
.६१
जैमिनीयमतम् । सूत्रकृदाह-तु पुनर्नोदनां क्रियां प्रवर्तकं वचः प्राहुः, वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरित्यर्थः, शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह-स्वःकामोऽग्निं यजेद्यथा, यथा येन प्रकारेण स्वाकामः स्वर्गाभिलाषी जनोऽग्निं यजेद् अग्निकार्यं कुर्यात्, यथाऽहुस्तत्सूत्रम्-अग्निहोत्रं जुहुयात्स्वर्गकाम इति ॥ ७१ ॥ प्रमाणान्याहप्रत्यक्षमनुमानं च शब्दश्वोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जमिनः ॥७२॥
जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति सम्बन्धः, यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाहानामेव षट्, तथाऽप्यत्र ग्रन्थकृत्सामान्यतः पट्सङ्ख्यामाचष्टे
प्रमाणनामानि निगदसिद्धान्येव ॥ ७२ ॥ निरुक्तमाहतत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः। आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३ ॥
तत्र प्रमाणषट्के, अक्षाणामिन्द्रियाणां संप्रयोगे पदार्थः सह संयोगे; सतामनुपहतेन्द्रियाणां मतिर्बुद्धिरिदमित्यववोधः, तत्प्रत्यक्षं प्रमाणं 'भवतीत्यध्याहारः, यत्तदावतुक्तावप्यर्थसम्बद्धौ ज्ञेयो, सतामिति-विदुषामदुष्टेन्द्रियार्थः, एतावता मरुमरीचिकायां जलभ्रमः शुक्तौ रजतभ्रमश्चेन्द्रियार्थसंप्रयोगजोऽपि द्रष्टुरक्किलेन्द्रियत्वाभावान्न प्रत्यक्षं तत्प्रमाणकोटिमधिशेते, अनुमानमाह-'आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुन:' आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः, अनुमानलैङ्गिकयोः शब्दाभेदेऽप्यनुमीयत इत्यनुमानं, लिङ्गाजातं लैङ्गिकमिति व्युत्पत्तिभेदाभेदो ज्ञेयः, उभयशब्दकथनं तु बालावबोधार्थमेवेति ॥ ७३॥
शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधम्यादप्रसिद्धस्य भाजनम् ॥ ७४॥ शाब्दमागमप्रमाणं शाश्वतवेदोत्थं, शाश्वतान्नित्यावेदाज्जातम् ,
Page #70
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये आगमप्रमाणमित्यर्थः, शाश्वतत्वं च वेदानामपौरुषेयत्वादेव, उपमानमाह-यत्प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाणं प्रकीर्तितं कथितम् , यथा प्रसिद्धगोगवयस्वरूपो वनेचरो प्रसिद्धगवयस्वरूपं नागरिकं प्राह-'यथा गौस्तथा गवय' इति, भोः ! खुरककुदलागृलसास्नाऽऽदिमन्तं पदार्थं गामिति जानासि; गवयोऽपि तथा स्वरूपो ज्ञेय इत्युपमानम् , अत्र सूत्रानुक्तावपि यत्तदावर्थसम्बन्धार्थमध्याहायौँ ॥ ७४ ॥ अर्थापत्तिमाह--
दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना। क्रियते यद्वलेनासावर्थापत्तिरुदाहृता ॥ ७५ ॥
असौ पुनरर्थापत्तिरुदाहृता कथिता, अर्थापत्तिप्रमाणं प्रोक्तमित्यर्थः। यदलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते सङ्घटना विधीयते, कया दृष्टार्थानुपपत्त्या दृष्टः परिचितः प्रत्यक्षलक्ष्यो योऽर्थों देवदत्ते पीनत्वादिः तस्यानुपपत्त्याऽघटमानतयाऽन्यथाऽनुपपत्तेः, यथा पीनो देवदत्तो दिवा न भुङ्क्ते पीनत्वस्यान्यथाऽनुपपत्या रात्राववश्यं भुङ्क्त इत्यर्थ इत्यत्र, दृष्टं विना भोजनं पीनत्वं दुर्घट, दिवा च न भुङ्क्तेऽतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यापत्तिः प्रमाणम् ॥ ७५ ॥ अथाभावप्रमाणमाहप्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्ताऽवबोधार्थं तत्राभावप्रमाणता ॥ ७६ ॥
यत्र वस्तुरूपेऽभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न जायते, तत्राभावप्राणता ज्ञेयेति सम्बन्धः, किमर्थमित्याह-वस्तुसत्ताऽवबोधार्थम् , वस्तु नोऽभावरूपस्य मुण्डभूतलादेः सत्ता घटाधभावसद्भावः तस्यावबोधः प्रामाणिकपथावतारणं तदर्थं तद्धतोरित्यर्थः ।
ननु कथमभावस्य प्रामाण्यं, प्रत्यक्षं-तावद्भूतलमेवेदं घटादि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तुपरिच्छेदः, तदधिकं विषयमभावैकरूपं निराचष्ट इति, किं विषयमाश्रित्याभावप्रामाण्यं स्याद्
Page #71
--------------------------------------------------------------------------
________________
जैमिनीयमतम् । मुण्डभूतले घटाभावमाश्रित्येति चेद् ? मैवम्-घटाभावप्रतिबद्धभूतलग्रहणासिद्धेः। तदुक्तम्
'न तावदिन्द्रियेणैषां नास्तीत्युत्पद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ इति नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य, केवलंभावांश इन्द्रियसन्निकर्षजत्वेन पञ्चप्रमाणागोचरसञ्चरिष्णुतामनुभवन्नावालगोपालाङ्गनाप्रसिद्ध व्यवहारं प्रवर्त्तयति, अभावांशस्तु प्रमाणपञ्चकविषयबहिर्भूतत्वात्केवलभूतलग्रहणाधुपयोगित्वादभावप्रमाणव्यपदेशमश्नुत इति सिद्धमभावस्यापि युक्तियुक्ततया प्रामाण्यमिति ॥७६॥ उपसंहरन्नाहजैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः। एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७॥
अपिशब्दान्न केवलमपरदर्शनाना, जैमिनीयमतस्याप्ययं सङ्केपो निवेदितः कथितः, वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् सङ्केप एव प्रोक्तोऽस्ति। ___अथ सूत्रकृत्सम्मतसङ्केपमुक्त्वा निगमनमाह-एवमिति । . एवमित्थम् , आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्धनैयायिकसायजेनवैशेषिकजैमिनीयानां सङ्केपकीर्तनं कृतं, सङ्केपेण वक्तव्यमभिहितमित्यर्थः ॥ ७७॥ विशेषान्तरमाह
नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ ७८॥
अन्य आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षयाऽऽस्तिकवादिनः पञ्चैव ॥ ७८ ॥
Page #72
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये दर्शनानां षट्सङ्ख्या जगति प्रसिद्धा कथं फलतीत्याह
षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥ ७९ ॥
ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्यते, तु पुनरर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ॥ ७९ ॥ तदेवाह
लोकायता वदन्त्येवं नास्ति देवो न नितिः। धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥८॥
लोकायता नास्तिकाः, एवममुना प्रकारेण वदन्ति कथमित्याह-सर्वज्ञादिर्नास्ति, नितिर्मोक्षो नास्ति, अन्यच्च न विद्यते, कौ ? धर्माधर्मों, धर्मचाधर्मश्चेति द्वन्द्वः, पुण्यपापे न स्त इत्यर्थः, पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि।
तच्छास्त्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह-तथा च तन्मतं-तथा चेत्युपदर्शने, तन्मतं, प्रस्तावान्नास्तिकमतम् ॥ ८०॥ कथमित्याहएतावानेव लोकोऽयं यावानिन्द्रियगोचरः। भद्रे ! बृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥ ८१॥
अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् यावन्मात्रमिन्द्रियगोचरः; इन्द्रियं स्पर्श नरसनघ्राणचक्षुःश्रोत्रभेदात्पञ्चविधं तस्य गोचरो विषयः, पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किंचन, अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य सङ्ग्रहः ।
तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्रत्यक्षाभावादेव, अप्रत्यक्षमप्यस्तीति चेच्छशशृङ्गवन्ध्यास्तनन्धयादोनामपि भावोऽस्तु।
Page #73
--------------------------------------------------------------------------
________________
लौकायतिकमतम् । तथा हि-स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते । रसनेन्द्रियेण कटुकषायाम्लमधुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते।
घ्राणेन्द्रियेण मृगमदमलयजघनसारागुरुप्रभृतिसुरभिवस्तुपरिमलोद्गारपरम्पराः परिचीयन्ते ।
चक्षुरिन्द्रियेण भूभूधरपुरप्राकारघटपटस्तम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्था अनुभूयन्ते ।
श्रोत्रेन्द्रियेण प्रथिष्ठगाथकपथिकप्रथ्यमानतालमानमूर्च्छनाप्रेतोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते ।
इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते, शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत् ।
ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासाऽजुबन्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टिकया स्वजन्म क्षपयन्ति तन्महासाहसं तेषामिति ।
कि च-प्रत्यक्षमप्यस्तितयाऽभ्युपगम्यते चेज गदनपद्भुतमेव स्याद् , दरिद्रो हि स्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैव दौःस्थ्यं दलयेद् , दासोऽपि स्वचेतसि स्वामितामवलम्ब्य किङ्करतां निराकुर्यादिति, न कोऽपि स्वानभिमतमालिन्यमश्नुवीत ।
एवं न कश्चित्सेव्यसेवकभावो दरिद्रधनिभावो वा स्यात् , तथा च जगद्यवस्थाविलोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम् ।
ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापव्यापारप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति तान् प्रति दृष्टान्तमाह
भद्रे वृकपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्भूतकुतूहलां दयितां मन्थरतरप्रसृमरसमीरणसमीकृतपांशुप्रकारस्वाङ्गुलिन्यासेन दृकपदाकारतां विधाय प्राह-हे भद्रे ! वृकपदं पश्य, कोऽर्थः ? यथा तस्या अविदितपरमार्थाया मुग्धाया विदग्धो वल्लभो
६ष०९०
Page #74
--------------------------------------------------------------------------
________________
सटीके षड्दर्शनसमुच्चये इति स्थिते तदुपदेशपूर्वकमुपसंहारमाह
तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् ।
लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८ ॥ __ तस्मादिति पूर्वोक्तानुस्मारणे, पूर्व तस्मातत्तः कारणाद् दृष्टपरित्यागाद् दृष्टं पेयापेयखाद्याखाधगम्यागम्यानुरूपं प्रत्यक्षानुभाव्यं यत्सुखं तस्य परित्यागाददृष्टे तपश्चरणादिकष्टक्रियासाध्यपरलोकसुखादौ प्रवर्तनं प्रवृत्तिः, चः साच्चये, यत्तदोनॆयत्याद॰ यत्सम्बन्धो ज्ञेयः, तल्लोकस्य विमूढत्वमज्ञानत्वं चार्वाकाः लौकायतिकाः प्रतिपेदिरे प्रतिपनाः, मूढलोका हि विप्रतारकवचनोपन्यासभासितज्ञानाः सांसारिक सुखं परित्यज्य व्यर्थ स्वर्ग मोक्षपिपासया तपोजपथ्यानहोमादिभिरिहत्यं सुखं हस्तगतापेक्षन्त इति ॥ ८५ ॥
साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां सा चाकाशात् परा न हि॥८६॥
साध्यस्य मनीषितस्य कस्यचिद्वस्तुन आवृत्तिः प्राप्तिः, कस्यचिद्वस्तुनोऽनभीष्टस्य निवृत्तिरभावः, ताभ्यां जने लोके या प्रीतिर्जायत उत्पद्यते सा तेषां चार्वाकाणां निरर्थिका निरभिप्राया शून्या मताऽभीष्टा भवार्जितपुण्यपापसाध्यं सुखदुःखादिकं सर्वथा न विद्यत इत्यर्थः, सा च प्रीतिराकाशाद् गगनात् परा न हि यथाऽऽकाशं शून्यं तथैषाऽपि प्रीतिरभावरूपैवेत्यर्थः ॥ ८६ ॥ उपसंहारमाह
लोकायतमतेऽप्येवं संक्षेपाऽयं निवेदितः । • अभिधेयतात्पर्यार्थः पर्यालोच्या सुबुद्धिभिः॥ ८७ ।। इति हरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः समाप्तः ।
Page #75
--------------------------------------------------------------------------
________________
लौकायतिकमतम् । एवममुना प्रकारेण लोकायतमतेऽप्ययं संक्षेपो निवेदितः, अपिः समुच्चये न केवलं परमते, संक्षेप उक्तो लोकायतमतेऽपि । ___अथ सर्वदर्शनसम्मतसङ्ग्रहे परस्परकल्पितानल्पविकल्पजल्परूपे निरूपिते किंकर्त्तव्यमूढानां प्राणिनां कर्तव्योपदेशमाहअभिधेयेति । सुवुद्धिभिः पण्डितैरभिधेयतात्पर्यार्थः पर्यालोच्यः, अभिधेयं कथनीयं शुत्यतया प्रतिपाद्यं यदर्शनस्वरूपं तस्य तात्पयार्थः सारार्थो विचारणीयः, सुबुद्धिभिरिति । शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः, यदुक्तम्'आग्रही बत निनीपति युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य हि तस्य यत्र तत्र मतिरेति निवेशमिति ॥
दर्शनानां पर्यन्तै कसारूप्येऽपि पृथक् पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढस्य प्राणिनः सर्वस्पृक्तया दुर्लभं स्वर्गापवर्गसाधकत्वम् अतो विमर्शनीयस्तात्विकोऽर्थः, यथा च विचारितं चिरंतनैः।
श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनराहतः ।
वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥. इत्यादि विमृश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमतिभिरिति पर्यन्तश्लोकार्थः ॥ ८७ ॥
सप्ताशीतिः श्लोकसूत्रं, टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम् ॥ इति श्रीहरिभद्रसूरिकृतपड्दर्शनसमुच्चये मणिभद्रकृता
लघुवृत्तिः समाप्ता। शम् ।
Page #76
--------------------------------------------------------------------------
________________
ॐ श्रीः *
PR
EMOREASORRENT
षड्दर्शनसमुच्चयः
ग्रन्थारम्भादिसदर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥२॥
__ षड्दर्शनोद्देशःबौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥ ३॥
बौद्धमतम्तत्र बौद्धमते तावदेवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः॥४॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ समुदेति यतो लोके रागादीनां गणोऽखिलः। आत्मात्मीयस्वभावाख्यः समुदयः स संमतः॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या। स मार्ग इति विज्ञेयो, निरोधो मोक्ष उच्यते ॥७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम्। धर्मायतनमेतानि द्वादशायतनानि च ॥८॥ प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः॥९॥
Page #77
--------------------------------------------------------------------------
________________
षड्दर्शनसमुच्चयः । प्रत्यक्षं कल्पनाऽपोढमभ्रान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोश्वं त्रीणि विभाव्यन्ताम् ॥११॥ बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः ।
नैयायिकमतम्नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३॥ तत्वानि षोडशामुत्र प्रमाणादोनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयो। वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥ १५ ॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥ १६ ॥ प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा। तत्रेन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारिकम् ॥ १७॥ व्यवसायात्मकं ज्ञानं व्यपदेश विवर्जितम् । प्रत्यक्षमितरन्मानन्तत्पूर्वं त्रिविधं भवेत् ॥ १८॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राचं कारणात्कार्यमनुमानमिह गीयते ॥ १६॥ रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥ कायोत्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥ यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२ ॥
Page #78
--------------------------------------------------------------------------
________________
७२
षड्दर्शनसमुच्चयः ।
प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥ शाब्दम । तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं चात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥ २४ ॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः ।
प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥ दृष्टान्तस्तु भवेदेव विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥ प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयो परमो भवेत् ॥ २७ ॥ यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥ २८ ॥ आचार्य शिष्ययोः पक्षप्रतिपक्षपरिग्रहात् ।
यः कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ २९ ॥ विजिगीषु कथा या तु च्छलजात्यादिदूषणम् । स जल्पः, सा वितण्डा तु या प्रतिपक्षवर्जिता ॥ ३० ॥ हेत्वाभासा असिद्धाया, श्छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिष्यते न यैः ॥ ३१ ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् नैयायिक मतस्यैवं समासः कथितोऽधुना ।
॥ ३२ ॥
सांख्यमतम् -
सांख्याभिमतभावानामिदानीमयमुच्यते ॥ ३३ ॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३४ ॥ सांख्या निरीश्वराः केचित्केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥ ३५ ॥
Page #79
--------------------------------------------------------------------------
________________
जैनमतम् |
सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोष दैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३६ ॥ ततः संजायते बुद्धिर्महानिति यकोच्यते । अहंकारस्ततोsपि स्यात्तस्मात्षोडशको गणः ॥ ३७ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्चबुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥ ३८ ॥ पायूपस्थवचः पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥ ३९ ॥ रूपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ ४० ॥ एवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता तवं पुमान्नित्यचिदभ्युपेतः ॥ ४१ ॥ पञ्चविंशतितच्चानि सांख्यस्यैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पखन्धयोरिव ॥ ४२ ॥ प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥ एवं सांख्यमतस्यापि समासः कथितोऽधुना । जैनमतम् - जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४४ ॥ जिनेन्द्रो देवता तत्र
रागद्वेषविवर्जितः ।
हत- मोह-महामल्लः
केवल-ज्ञान- दर्शनः ॥ ४५ ॥
सुरासुरेन्द्र-संपूज्यः
सद्भूतार्थोपदेशकः ।
कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६ ॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ ।
aar निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥ ४७ ॥ तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । कर्त्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥ ४८ ॥ चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान् ।
१० ष० द०
७३
Page #80
--------------------------------------------------------------------------
________________
७४
सटीके षड्दर्शनसमुच्चये
अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥ ४६ ॥ पापं तद्विपरीतन्तु मिथ्यात्वाद्यास्तु हेतवः । बस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥ ५० ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्मसम्बन्धो यो द्वयोरपि ॥ ५१ ॥ वद्धस्य कर्मणः शाटो यस्तु सा 'निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ ५२ ॥ एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥ ५३ ॥ तथा भव्यत्वपाकेन यस्यैतत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ॥ ५४ ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ ५५ ॥ अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् |
परोक्षं
ग्रहणेक्षया ॥ ५६ ॥
यत्सत्तदिष्यते ।
मानगोचरः ॥ ५७ ॥
प्रत्यक्षमितरज् ज्ञेयं येनोत्पादव्ययत्रौव्ययुक्तं अनन्तधर्मकं वस्तु तेनोक्तं जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥ ५८ ॥ देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निदिश्यते ॥ ५९ ॥
काणादमतम् -
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥ ६० ॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि गुणाः पुनश्चतुर्विंशतिधा ॥ ६१ ॥ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥ ६२ ॥
Page #81
--------------------------------------------------------------------------
________________
जैमिनिमतम् । बुद्धिः सुखदुःखेच्छा धर्माधौं प्रयत्नसंस्कारौ। द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥ ६३ ॥ उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत्परापरे द्वे तु सामान्ये ॥ ६४ ॥ तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्दिशेत् ॥ ६५ ॥ य इहायुतसिद्धानामाधाराधयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ।। ६६ ।। प्रमाणं च द्विधाऽमीपां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥६७॥
जैमिनिमतम् जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥ ६८॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ ६ ॥ अत एव पुरा कार्यों वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ॥ ७० ॥ नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वःकामोऽग्निं यजेद्यथा ॥ ७१ ॥ प्रत्यक्षमनुमानं च शब्दश्वोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ ७२ ॥ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः। आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥ ७३ ॥ शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य भाजनम् ॥ ७४ ॥ दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्धलेनासावपत्तिरुदाहृता ॥ ७५॥
Page #82
--------------------------------------------------------------------------
________________
७६
षड्दर्शनसमुच्चयः । प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थः तत्राभावप्रमाणता ॥ ७६ ॥ जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः। एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७॥ नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ ७८ ॥ षड्दर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥ ७९ ॥
चार्वाकमतम्लोकायता वदन्त्येवं नास्ति देवो न नितिः। धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥ ८०॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः।
भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥ ८१ ॥ पिब खाद च जातशोभने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ ८२॥
किं च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३ ॥ पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः । मदशक्तिः सुराऽङ्गेभ्यो यद्वत्तद्वस्थितात्मता ॥ ८४ ॥ तस्माद् दृष्टपरित्यागाददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८५ ॥ साध्यवृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां सा चाकाशात् परा न हि ॥ ८६ ॥ लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥ ८७॥
इति षड्दर्शनसमुच्चयः।
Page #83
--------------------------------------------------------------------------
Page #84
--------------------------------------------------------------------------
________________
वेदान्तपरिभाषा
सटिपण 'श्रर्थदीपिका' टीका सहित
महामनीषी श्री शिवदत्त कृत 'अर्थदीपिका' टीका के साथ २ वेदान्ताचार्य पं० त्र्यम्बकराम शास्त्री विरचित सुविस्तृत टिप्पणी हो जाने से इसका प्रथम तथा द्वितीय संस्करण भी हाथों हाथ विक गया । इस बार यह तृतीय संस्करण और भी अधिक सुन्दर छपा है ।
मूल्य २)
वेदान्तसारः
'भावबोधिनी' संस्कृत-हिन्दी व्याख्या 'समालोचना' सहित टीकाकार - पं० रामशरण शास्त्री एम० ए०,
संस्कृत-हिन्दी प्राध्यापक — के० जी० के० कालेज, मुरादाबाद
-
शाङ्कर वेदान्त का यह प्रन्थ लघु होने पर भी सभी प्रान्तों की संस्कृत तथा अंगरेजी परीक्षाओं में पाठ्य निर्धारित है । अतः नवीन शिक्षा पद्धति के अनुरूप मूल ग्रन्थ के वाक्यों को खण्ड-खण्ड करके उसकी सरल सुबोध संस्कृत तथा हिन्दी व्याख्या कर दी गयी है । व्याख्या के नीचे सर्वत्र टिप्पणी के रूप में ग्रन्थ के गूढ़ भावों का विवेचन करके तदनुकूल हिन्दी व्याख्या में उसका भी भाष्य कर दिया गया है तथा अज्ञान ( माया ), अध्यारोप, तत्त्वमसि श्रहं ब्रह्मास्मि इत्यादि स्थल इतने विस्तार एवं सरलतापूर्वक लिखे गये हैं कि साधारण से साधारण छात्र के लिये भी यह प्रन्थ अत्यन्त सुबोध हृदयंगम करने योग्य हो गया है। इस संस्करण की समालोचनात्मक विस्तृत भूमिका भी अध्ययन करने योग्य है । प्रन्थ के अन्त में अनेक विश्वविद्यालयों के प्रश्न पत्र भी दिये गये हैं ।
मूल्य अत्यल्प १॥ ).
"
रामानुज - वेदान्तसारः श्री सुदर्शनाचार्यकृत 'अधिकरणसारावली' सहित
रामानुज वेदान्त के प्रकाण्ड विद्वान् श्राचार्य श्री रामदुलारे शास्त्री कृत पाद-टिप्पणी से परिष्कृत यह अभिनव संस्करण बहुत ही शुद्ध और सुन्दर छपा है | २|| ) प्राप्तिस्थानम् — चौखम्बा संस्कृत पुस्तकालय, बनारस - १
Page #85
--------------------------------------------------------------------------
_