Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनदेवसूरिविरचिता तां लिप्त्वा क्षुरिकां कक्षी, पर्तव्यं तेन निश्चितम् । सोऽन्यथा सकलस्यापि, कुटुम्बस्य क्षयं सृजेत् ॥३०॥ स्वाभिमुख्यमालोक्य, सूरिरुच्छ्वसिताशयः । साखिमाचष्ट तं रुष्टा, किं तवैवोपरि प्रभुः ? ॥३२॥ कुपितोऽयमुतान्यस्मायपि कस्मेचिदुच्यताम् । स पुनः षण्णवत्यवं, दृष्ट्वा छुर्यामुवाच गाम् ॥३२॥ मद्विधानां षण्णवतेरुपरि बुदवानयम् । .. ततस्तैरपि मर्त्तव्यं, मच्छरणवजितः ॥३३॥ जगौ सगौरवं सूरिन मर्त्तव्यं मुधैव भो!। नीत्वा हिन्दुकदेशं वः, माज्यराज्यं ददाम्यहम् ॥३४॥ दूतानामानि विज्ञाय, तान् सर्वानपि सत्वरम् । समाकारय युष्माकं, सिन्धुतीरेऽस्तु सङ्गमः ॥३५॥ प्रमाणमादेश इति, व्याहत्य शकपुङ्गवः । व्यधत्त तत् तथैवाशु, जीविताशा हि दुस्त्यजा ॥३६॥ विज्ञातपरमार्थास्ते, सर्वे सबलवाहनाः । संभूय साखयः सधः, सिन्धुतीरे समागमन् ॥३७॥ आचार्यदर्शितपथः, साखी यः सोऽपि सत्वरम् । प्रयाणैरनवच्छिन्नरुपसिन्धु समासदव ॥३८॥ तेऽय सिन्धुं समुत्तीर्य, साधयन्तोऽखिलान् नृपान् । सुराष्ट्राविषयं मापुस्तत्र प्राकृड्डपेयुषी ॥३९॥ विभज्य नवधा राष्ट्र, सुराष्ट्रां तेऽवतस्थिरे । वर्षाराने व्यतिक्रान्ते, सूरिणा भणितास्ततः ॥४०॥ इंहो! निरुधमा यूयं, किसु तिष्ठय संप्रति । अवन्तिदेशं गृहीध्वं, पर्याप्तं तत्र मावि वः ॥४१॥ तेऽवोचन द्रव्यरहिता वयं पामहे प्रभो! । निर्द्रव्याणां हि जायन्ते, न काश्चिद् कार्यसिद्धयः ॥४२॥ . हेमीकृत्येष्टकापाकं, युक्तया तेभ्यो ददौ गुरुः । तेऽपि संभृत्य सामग्री, प्रचेलुालवान् प्रति ॥४३॥ तान् निशम्यायतो दर्पाद्, गर्दभिल्लोऽपि संमुखम् । आडुढौकेऽथ सम्फेटोऽभद् द्वयोरपि सैन्ययोः ॥४४॥ शस्त्राशनि चिरं युवा, शफसैन्येन निर्जितम् । अनीकं गर्दभिल्लस्य, यतो धर्मस्ततो जयः ॥४५॥ अवन्तीशः प्रणम्याशु, व्यावृत्य स्वपुरीमगात् । कृत्वा रोधकसज्जा ता, तस्थिवानन्तरेव सः ॥४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237