Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । मिरत्रैव वने स्थातव्यम् , इति प्रतिज्ञाय स्वगृहे गत्वा माता-पित्रोः उवाच-मया गुरुदेशनया संसारोऽसारो ज्ञातः, अहं दीक्षा लास्यामि, ममादेशं दत्त । ततो माता-पितरौ तदुःखेन मोहेन च मूर्छामापतुः । पुनः व्यजनादिवातोपचारैः लब्धचेतनौ एवमूचतुः-- पुत्र ! त्वं बालोऽसि, यौवनावस्थोऽसि, सुकुमारोऽसि, कामभोगार्होऽसि, अतो राज्यधुरामाराङ्गीकरणेन पूरय माता-पित्रोर्मनोरथान् । पुनः परिणतवयस्को दीक्षा गृह्णीयाः, परं सांप्रतं दीक्षाग्रहणं नैव, पुनः संयममार्गोऽतिदुःखकरोऽस्ति, तत्र यावजीवं अस्नानता १, भूभिशयनं २, लोचकरणं ३, देहस्याप्रतिकर्मता ४, गुरुकुलवासेन गुरुशिक्षायां स्थातव्यं ५, क्षुधादिद्वाविंशत्परीषहाः सोढव्याः ६, देवाधुपसर्गे चाक्षोभ्यता ७, लब्धालब्धे समभावना ८, अट्ठार(अष्टादश)सहस्रशीलाङ्गरथधारिता ९, बाहुभ्यां समुद्रतरणं १०, तीक्ष्णखड्गधारोपरि चलनं ११, ज्वलदग्निज्वाला पावाभ्यां विधापयितव्या १२, निःस्वादवालकायाः कवलभरणं १३, गङ्गाप्रतिस्रोतसा गन्तव्यं १४, तुलायां मेरुः तोलयितव्यः १५, एकाकिना कर्मारिमहाबलं जेतव्यं १६, राधावेधेन चक्रस्थितपूतलिका वेधयितव्या १७, त्रिभुवननयपताका गृहीतव्याः १८ इत्यादि । एवं दुष्करतायां दर्शितायमपि कुमारः प्रवर्द्धमानवैराग्यः प्राह-हे माता-पितरौ । एषा या दीक्षायां दुष्करता सा सत्या। तथैव परं कातराणां कापुरुषाणां ज्ञेया, न शूरवीराणां सत्पुरुषाणाम् , ततोऽहमवश्यं दीक्षा ग्रहीष्यामि, ममादेशं दत्त । या वार्ताकरणेऽपि क्षणवेला याति सा ममायुर्मध्ये त्रुटति, अकृतार्था च याति । ततो मातृपितृभ्यां 'याता म्रियमाणश्च न केनापि रोढुं शक्यते ' इति विचार्यानुमतिर्दत्ता । ततः श्रीकालिककुमारेण कृतपितृमहामहोत्सेवेन महताऽऽडम्बरेण निजसेवकपञ्चशतीसहितेन सहस्रपुरुषवाहिनी शिबिकामारुह्य गीतगानतानमानदानसन्मानवायनिर्धाषपूर्वमपूर्वरीत्या वने गत्वा गुरोः समीपे दीक्षां जगृहे। सरस्वत्यपि तद्भगिनी भ्रातृस्नेहातिरेकात् पृष्ठे दीक्षा जग्राह । माता-पितरौ अपि, हे पुत्र ! एषा तव भगिन्यस्ति, अस्या रक्षा बवी कार्या, इति शिक्षा दत्त्वा विमनस्कौ सन्तो स्वगृहे गतौ ।
अथ कालिककुमारमुनिः स्तोककालेन सुबुद्धित्वाद् गुरुसेवाप्रसादाद् व्याकरण १- तर्क २- छन्दो ३-ऽलकार ४काव्य ५- नाटक ६- शाटक - ज्योतिष ८- वैद्यक ९- नैमित्तिक १०- मन्त्र ११- तन्त्र १२- यन्त्र १३भङ्ग १४- उपाङ्ग १५- छेदग्रन्थ-१० पयन्ना-४ मूलसूत्र-नन्दी १- अनुयोगद्वार २- एवं ४५ पश्चचत्वारिंशदागमाः तथा सूत्र-नियुक्ति-भाष्य-चूर्णि-वृत्ति-प्रकरणादि स्वसमय-परसमयशास्त्रपारगामी जातः । ततो गुरुभिः योग्यतां ज्ञात्वाऽऽ चार्यपदे स्थापितश्च ।
अथ श्रीकालिकाचार्या अनेकसाधुपरिवृता प्रामानुप्रामं विहरन्तो भन्यजीवान् प्रतिबोधयन्तो मालवकदेशे श्रीउजयिन्यां पुयीं बहिरुथानवने समवसृताः । सर्वेऽपि लोका वन्दनार्थ तत्र यान्ति । धर्म च सदा शुण्वन्ति । सरस्वती साध्वी अपि अनेक साध्वीपरिवारपरिवृता उज्जयिन्यां श्राविकापाचे उपाश्रयं मार्गयित्वा स्थिताऽस्ति ।
___ अथान्यदा सरस्वती साध्यपि निजभ्रातरं कालिकाचार्य वन्दित्वा यावन्निजोपाश्रयमागच्छति वर्त्मनि तावदुज्जयिनीनगरीस्वामिना गर्दभिल्लेन सा दृष्टा, चिन्तितं च तेन-एषा का ! एतादृशी सरूपा किं देवी वा किं विद्याधरी वा ! अथवा किन्नरी वा: । इति संदेहेन निजपावर्तिसेवकाः पृष्टाः । तैरुक्तम्-हे महाराज | एषा वज्रसिंहराज्ञः पुत्री सरस्वतीनाम्नी कुमारिका सती निजभ्रातृस्नेहातिरेकात् साध्वी जाता । ततो गर्दभिल्लेन विचारितम्-अहो ! अनया तपसा कायः शोषितः, तथापि सुरूपत्वं न याति, यतः
'काली तउही कस्तूरी, थोडी तउही तेजनतूरी । सूकी तउही वेउल सिरी, तूटी तउही मोती सिरी। भागउ तउही वराह, तुटउ तउही साह । निबलउ तउही गह, निर्गुण तउही नाह । चूरउ तउही साकर, निबलउ तउही ठाकुर ।
५१
For Private And Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237