Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
श्रीसमयसुन्दरगणिविरचिता
भानुमित्रराजानौ बभूवतुः । तदाग्रहात् श्रीकालिकाचार्याश्चतुर्मास्यां तत्र तस्थुः । तत्र च स्वभगिन्याः पुत्र्याः पुत्रं तवो भागिनेयं च बलभानुनामानं तयोरनुमति विनाऽपि प्रवाजयामासुः । ततो बलमित्र-भानुमित्रादयो विमनस्का जाताः । अग्रे सम्बन्धः सदृश एव, परं तत्त्वं तत्त्वविदो विदन्तीति-इत्युक्ता एके श्रीकालिकाचार्याः ।।
अथ ये श्रीकालिकाचार्याः श्रीवीरनिर्वाणात् ९९३ वर्षे जातास्ते विहरन्तो दक्षिणदेशे प्रतिष्ठानपुरे जग्मुः । तत्र शालिवाहननामा राजा जैनः परमश्रावको यतिभको राज्यं करोति । गुर्वागमनं श्रुत्वा हृष्टः सन् गुरोः समीपे गत्वा वन्दित्वाऽत्याग्रहं कृत्वा गुरवश्चतुर्मास्यां स्थापिताः । अथ राजा सदा धर्मोपदेशं शृणोति, गुरुभक्ति च करोति, देवगृहेषु स्नात्रमहोत्वाः क्रियन्ते । एवं च सति श्रीपर्युषणापर्वात्यासन्नं समागतम्, तदा राज्ञा पृष्टम्-हे भगवन् ! श्रीपर्युषणापर्व कदा भावि ? । तदा गुरुभिः प्रोचे-भाद्रपदसुदिपञ्चम्यां भविष्यति । तदा राजा प्राह-हे स्वामिन् ! पञ्चम्यामस्माकं कुलक्रमागतः इन्द्रमहोत्सवः, स त्ववश्यं कर्त्तव्य एव । एकस्मिन् दिने तु पर्वद्वयं कर्तुं न शक्यते, परस्परं भिन्नाचारत्वात् । ततः प्रसादं कृत्वा श्रीपर्युषणापर्व षष्ठयां क्रियते । तथा पूजास्नात्र-पौषधादीनि धर्मकृत्यादीनि प्रभूतानि भवन्ति । ततो गुरुभिः प्रोचे-हे राजेन्द्र | पश्चमीरात्रिमुल्लङ्ग्य न कदापि पर्युषणा भवति । यदुक्तम्
अवि चलइ मेरुचूला, सूरो वा उग्गमेइ अवराए ।
न य पंचमीइ रयणि, पज्जोसवणा अइक्कमइ ॥२९॥ कल्पसूत्रेऽपि
"नो से कप्पइ तं रयणि उवाइणावित्तए" ततो राज्ञा प्रोक्तम्-हे पूज्य ! तर्हि चतुर्थी क्रियताम् । ततः श्रीकालिकाचार्य:-" अंतररा वि य से कप्पइ"इति श्रीकल्पसूत्राक्षरदर्शनेन सातवाहनराजाग्रहाच्च पञ्चमीतश्चतुर्थी पर्युषणापर्व प्रवर्तितम् । तद्वशेन च चतुर्मासिकं चतुर्दश्या जातम् , अन्यथाऽऽगमोक्तं पञ्चदश्यामासीत् । तदानी तेन समस्तसंघेनापि प्रमाणीकृतम् । यदुक्तं तीर्थोद्गालिप्रकीर्णके
तेणउ य नवसएहिं, समइक्तेहिं वद्धमाणाओ । पज्जोसवणचउत्थी, कालिगमूरीहिं तो ठविया ॥३०॥ वीसहि दिणेहिं कप्पो, पंचगहाणी य कप्पठवणा य । नवसयतेणउएहि, वुच्छिन्ना संघआणाए ॥३१॥ सालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी. चाउम्मासं चउद्दसिए ॥३२॥ चउमासपडिकमणं, पक्खियादिवसम्मि चउविहो संघो ।
नवसयतेणउएहि, आयरणं तं पमाणंति ॥३३॥ पुनरपि स्थानाङ्गवृत्तौ-" एवं च कारणेणं अज्जकालगायरिएहिं चउत्थीए पज्जोसवणं पवत्तियं समत्तसंघेण य अणुमभियं, तव्वसेण य पक्खियाई वि घउद्दसीए आयरियाणि, अन्नहा आगममुत्ताणि पुण्णिमाए ति"। न च तस्मिन्नेव वर्षे सातवाहनजीवनावधि वा तत् पर्युषणापर्व चतुर्थी कृतम्, पश्चात पुनरपि पश्चम्यामेवाभवदिति वाध्यम् । "इयाणि कहं च अपव्वे चउत्थी पज्जोसविजइ" इति 'शिष्यपृच्छायां गुरुवचनावसरे " एवं च जुगप्पहाणेहिं चउत्थी कारणे पवत्तिया सा चेव अणुमया सव्वसाहणं" इति श्रीकालिकाचार्यानन्तरं पश्चात्कालभावि
For Private And Personal Use Only

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237