________________
टोकासहित।
१५६ शिविरोधात् तदर्थक्रियालक्षणस्य साध्यस्य सिद्धयभावात् । र. श्यविकल्प्ययोरेकत्वाध्यवसायात प्रवृत्तौ साध्यं सिद्ध्यतीति वेत, न, तदेकत्वाध्यवसायस्यासंभवात्, न हि दर्शनं सदेकत्वमध्यवस्यति तस्य विकल्पाविषयत्वात्, नापि तत्पृष्ठभाविविकत्यस्तस्य दृश्याविषयत्वान्न चोभयविषयं ज्ञानान्तरमेकं संभवति यतस्तदेकत्वाध्यवसायात् व्यावृत्तिमात्रादन्वयहीनादन्यापोहसामान्यं सिद्धयेत् । स्वलक्षणेष्विति न साध्यसिद्धिः। तथान्वयव्यावृत्तिहीनादद्वितयादेव सन्मात्रप्रतिभासात्सत्ताद्वैतसिद्धिरित्यपि न सम्यक्, सर्वथाऽप्यद्वितये साध्यसाधनयोरेंदासिद्धौ कुतः साधनात्साध्यं सिद्धयेदसिद्धौ चाद्वितयविरोधात् । यदि पुनरद्वितयेऽपि संविन्मात्रेऽसाधनव्यावृत्या साधनमसाध्यव्यावृत्त्या च साध्यमित्यतद्व्युदासाभिनिवेशवादःसमाधीयते, तदाऽपि पराभ्युपेतार्थविरोधवादः सौगतस्य स्यात् । पराभ्युपगतो हि संविदद्वैतलक्षणोऽर्थस्ताथागतैः स चातदव्युदासाभिनिवेशवादेनातव्यावृतिमात्राग्रहवचनरूपेण वि. रुध्यते कस्यचिदसाधनस्यासाध्यस्य चार्थाभावे तदव्यावस्या साध्यसाधनव्यवहारानुपपत्ते वे च द्वैतसिद्धेरप्रतिक्षेपार्हत्वादिति सौगतानां पूर्वाभ्युपेतार्थविरोधवादः प्रसज्येत ।
यदि तु साधनमनात्मकमेव न वास्तवं सौगतैरभ्युपेयते नाऽपि साध्यं तस्य संवृत्या कल्पिताकारत्वात्ततो न पराभ्युपेतार्थविरोधवादः स्यादिति निगद्यते । तदा दुषणमाये. दयन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org