Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 211
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १६ ब्रह्मात्मा विदधाति चेद्वयसनतश्चित्रां त्रिलोकीमिमां मुग्ध ब्रूहि तदा भवेत् कथमयं प्रेक्षावतामग्रणीः । प्रेक्षावान् जगति प्रयोजनलवं कंचित्परित्यज्य भोः कोऽपि वापि कदाचनाऽपि कुरुते किं नाम काञ्चित् क्रियाम्॥१९५।। अथापि निष्कम्पकृपापरीतः परोपकाराय करोत्ययं तान् । नैतद्धटामेति यदस्य कश्चित् कारुण्यपात्रं न परः समस्ति ॥१९६॥ सत्त्वे वा न कथञ्चनापि नरककोडेषु कुर्याजना नित्यं वैतरणीतरङ्गतरणच्यापारपीडाजडान् । कान्ताकुङ्कुमपङ्कपङ्कजरजोज्योत्स्नाच्छवायुच्छटा ताम्बूलाग्रुपभोगतः प्रमुदितान् किं तर्हि निर्मापयेत् ॥१९७॥ सृष्टेः प्रागनुकम्पनीयजनता नास्तीति तस्यां कथं कारुण्यं किल कल्प्य तस्य जगतः स्रष्टा भवेद्यद्वशात् । कारुण्यात्कुरुते प्रवृत्तिमिति च प्रख्याप्यमाने त्वया कुर्यान्नो सुखिनां मृति बत तथा नो दुःखितानां स्थितिम् ॥ १९८ ॥ अथापि कायमपेक्षमाणः करोति दुःखं जगतः सुखं वा । इमं विमुञ्चाग्रहमेवमस्थ स्वतन्त्रतायाः प्रलयप्रसक्तेः ॥ १९९ ॥ किं च--- दुःखश्रेणीकरणनिपुणप्राणिकर्मव्यपेक्षा __ युक्ता नैव प्रगुणकरुणा सान्द्रचित्तस्य तस्य । औदासीन्यं किमपि कुरुतां किन्तु तत्र प्रवादिन ब्रह्मात्मायं कथमपरथा स्यात्कृपालुः कथञ्चित् ॥२०॥ यतो महान्तः करुणासमुद्राः परेषु कांक्षन्ति न दुःखहेतून् । तेषां सदा दुःखितजन्तुदुःखतद्धेतुविध्वंसधिया प्रवृत्तेः ॥ २०१॥ तथा समर्थः स्वयमेव चेत्स्यात्परानपेक्षेत कथं कदाचित् । अथासमर्थः स्वयमेव चेत्स्यात्परानपेक्षेत कथं कदाचित् ।।२०२॥ २० "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274