Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 263
________________ २५० प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २१ प्रामाण्यज्ञप्तिः परत इति । पक्षस्यानुपपद्यमानत्वात् । तथाहि । प्रामाण्य मीमांसकस्य पूर्वपक्षं विस्त-स्वज्ञप्तौ कारणगुणज्ञानं बाधकामावज्ञानं वा रश उपाद्य संवादकज्ञा-संवादकज्ञानं वा परमपेक्षेत । न तावत्कारणगुनात्प्रामाण्यग्रह इति । व्यवस्थापनेन णज्ञानम् । तद्धि नेन्द्रियजं सम्भवति । अती तत्खण्डनम्। न्द्रियेन्द्रियादिकारणाधिकरणत्वेन परोक्षत्वाद्रुणानाम् । नापि लिङ्गजम् । नापि लिङ्गस्यैवाभावात् । उपलब्ध्याख्यकार्यपरिशुद्धिलिङ्गमस्तीति चेत्, मैवम् । अप्रतिपन्नायास्तस्यास्तद्गमकत्वानुपपत्तेः । उपलब्ध्याख्यकार्यपरिशुद्धिग्रहणं प्रामाण्यज्ञप्तिश्चेति खल्वनर्थान्तरम् प्रामाण्यज्ञप्तिश्च कारणगुणज्ञानाद्भवतीति प्रस्तुतं तथा चेतरेतराश्रयम् । उपलब्ध्याख्यकार्यपरिशुद्धिग्रहणात्कारणगुणज्ञानं तज्ज्ञानाच्च तद्ग्रहणमिति । तन्न कारणगुणज्ञानं स्वज्ञप्ती प्रामाण्यमपेक्षते । नापि बाधकामावज्ञानम् । यतस्तदपि प्रमाणमप्रमाणं वा भवेत् । प्रथमपक्षे कुतस्तप्रामाण्यज्ञप्तिः । परस्माधिकाभावज्ञानाचेत् तर्हि तस्यापि तज्ज्ञप्तिरपरस्मात्तस्मादित्येवमनवस्था । द्वितीये तु स्वयमप्रमाणं बाधकामावज्ञानं कथं प्रामाण्यं ज्ञापयेत् । ततो न बाधकामावज्ञानादपि तज्ज्ञप्तिः । नापि संवादकज्ञानात् । संवादकज्ञानं हि समानजातीयं भिन्नजातीयं वा भवेत् । यदि समानजातीयम् । तदपि किमेकसन्तानप्रभवं भिन्नसन्तानप्रभवं वा । न तावद्भिन्नसन्तानप्रभवम् । देवदत्तघटज्ञाने यज्ञदत्तघटस्यापि २० संवादकत्वप्रसक्तेः । एकसन्तानप्रभवमप्यभिन्नविषयं भिन्नविषयं वा । प्रथमपक्षे संवाद्यसंवादकभावाभावः । विशेषाभावात् । अभिन्नविषयत्वे हि यथोत्तरज्ञानं पूर्वज्ञानस्य संवादकं तथा पूर्वमप्युत्तरस्य संवादकं किन्न भवेत् । कथं चोत्तरस्यापि संवादकत्वेनाभिमतस्य ज्ञानस्य प्रामाण्य निश्चयः । तदुत्तरकालभाविनोऽन्यस्मात्तथाविधादेवेति चेत् । तर्हि २५ तस्याप्यन्यस्मात्तथाविधादेव प्रामाण्यनिश्चय इत्यनवस्था । प्रथम १' बाधकभाव' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274