Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२३४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सु. १८ " तस्मात् तत्संसर्गादचेतनं चेतनावदिव लिङ्गम् ” इति । लिङ्गं बुद्धिरिहोच्यते प्रलयकाले प्रकृतौ लयं गच्छतीति कृत्वा । ततश्च--- बुद्धधर्मं ज्ञानमत्र प्रसिद्धं बुद्धिजाता जाड्यरूपात् प्रधानात् ॥ निश्चैतन्याज्जायमानं बतास्याः स्वस्यामासि ज्ञानमास्तां कथं नु।।२४३।। ५ संवेदनं सायसखे न जातु स्वस्य प्रकाशे पटुतां बिभर्ति ॥ केनेदृशं ते श्रवणे न्यवेशि श्रद्धानमानीतमिदं कथं वा ।। २४४ ॥
तथाहि यत्तावदिदमगादि ज्ञानं स्वव्यवसायात्मकं न भवत्यैचेतनत्वादिति । तत्र किमिदमचेतनत्वं नाम, किमस्वसंविदितमुतार्थाकारधारित्वं जड़परिणामत्वं वा । यद्यस्वसंविदितत्वम्, तदा प्रतिवादिनोऽसिद्धो हेतुः । साध्याविशिष्टत्वात्। यदेव हि ज्ञानस्यास्वव्ययसायात्मकत्वं साध्य तदेव पर्यायान्तरेणास्वसंविदितत्वादिति हेतुत्वेनोपन्यस्तमिति । अथाकारधारित्वम् । तदा दृष्टान्तस्य साधनविकलत्वम् । न खलु कलशस्यादर्शादेरिवार्थाकारधारित्वं केनचित्प्रतीयते । स्वरूपासिद्धं त्वेवंभूतमचेतनत्वम् । अमूर्तस्य ज्ञानस्य विषयाकारधारित्वायोगात् । तथाहि यदमूर्त तद्विषयकारधारि न भवति यथा गगनममूर्तं च ज्ञानमिति । विषयाकारधारित्वे वा तस्यामूर्तत्वं न स्यात् । तथाहि यद्विषयाकारघारि तन्मूः यथा दर्पणमुखमिति । विषयाकारधारित्वं च ज्ञानस्य निराकरिष्याम इत्यलमिहातिविस्तरेण । अथ जड़परिणाम
त्वमचेतनत्वम् । तदपि प्रतिवादिनं प्रत्यसिद्धमेव । आत्मपरि२० णामत्वात् ज्ञानस्य । तथापरिणामवानात्मा दृष्टत्वात् यस्तु ज्ञानपरि
णामवान्न भवति नासौ द्रष्टा यथा लोष्टादिः द्रष्टा चात्मा तस्माज्ज्ञानपरिणामवानिति । चेतनोऽहमित्यनुभवाच्चैतन्यस्वभावतावञ्चात्मना ज्ञाताहमित्यनुभवाज्ज्ञानस्वभावताप्यस्तु । विशेषाभावात् । ननु ज्ञान
संसर्गाज्ज्ञाताहमित्यात्मनि प्रतिभासो न पुननिस्वभावत्वादिति चेत् । २५ तदपि न्यायबाह्यम् । चैतन्यादिस्वभावस्याप्येवमभावप्रसक्तेः ।
1 सांख्यकारिका २०. २ ' भवेदचेतनस्वात् ' इति भ. म. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274