Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 234
________________ परि. १ सू. १८ स्याद्वादरत्नाकरसहितः २२१ त्वात् । तथा हि स्वप्रकाशात्मकमित्यत्र किं स्वेनात्मनैव स्वस्य प्रकाशः स्वप्रकाशः स्वकीयेन वा । प्रथमपक्षे पक्षस्य प्रत्यक्षबाधितत्वं दोषः । अर्थग्रहणस्वभावस्यैव संवेदनस्य मानसप्रत्यक्षेण प्रतीतेः । हेतोश्च कालात्ययापदिष्टता प्रत्यक्षबाधितपक्षत्वात् । स्वात्मनि क्रियाविरोधाच्च नायं पक्षः सम्भवी । न हि सुतीक्ष्णोऽपि कौक्षेयकः कदाचिदात्मानं ५: विदारयति । न च विचित्रचारीसंचारचतुरापि नर्तकी निजस्कन्धमधिरोदु प्रभवति । द्वितीयपक्षे पुनः सिद्धसाद्धयता । स्वकीयेनानन्तरोत्तरज्ञानेन प्राचीनज्ञानस्य प्रकाशस्वीकरणात् । किं च प्रकाशात्मकत्वं बोधरूपत्वं भासुररूपसम्बन्धित्वं वा भवेत् । आद्यपक्षे साध्यविकलत्वमुदाहरणस्थादृष्टान्ततयोपदिष्टे प्रदीपे बोधरूपत्वस्याभावात् । द्वितीयपक्षे १० तु पक्षस्य पुनरपि प्रत्यक्षबाधा । बोधात्मकत्वेन भासुररूपरहितस्यैव ज्ञानस्य प्रत्यक्षत: प्रतीतेः । तदेवं स्वप्रकाशात्मकत्वसाधनस्य विचार्यमाणस्यानुपपत्ते नेन प्रकरणसमत्वम् । .. एवं समस्तदूषणकण्टकनिकरण मुक्तमुक्तमिदम् । विदुषां सदस्सु नूनं साधनमुपनयति निजसाध्यम् ॥ २३३ ॥ १५ अपि च स्वप्रकाशात्मकज्ञानवादिनः पर्यनुयुज्यन्ते । किं येनैव स्वभावेन ज्ञानं स्वरूपं प्रकाशयति तेनैवार्थमपि स्वभावान्तरेण वा । यदि तेनैव, तर्हि कथं ज्ञानार्थयोः पार्थक्यं स्यादभिन्नस्वभावज्ञानग्रासत्वात्तयोरेवान्यतरस्वरूपवत् । अथ स्वभावान्तरेण, तदा तो स्वभावौ ज्ञानादभिन्नौ भिन्नौ वा । यद्यमिन्नौ, तदा ज्ञानमेव स्यान्न स्वभावौ । १० तयोरत्रैवानुप्रवेशात् । तथा च कथं ज्ञानं स्वार्थयोः प्रकाशकं स्यात्। अथ भिन्नौ, तत्रापि किं तौ स्वप्रकाशौ स्वाश्रयभूतज्ञानप्रकाशौं वा । प्रथमपक्षे स्वप्रकाशज्ञानत्रितयापत्तिः । तथा च ज्ञानवत्तत्स्वभावयोरपि प्रत्येकं स्वपरप्रकाशत्वे स एव पर्यनुयोगोऽनवस्था च । अथ स्वाश्रयभूतज्ञानप्रकाश्यौ तौ तर्हि स्वाश्रयभूतस्य ज्ञानस्य स्वपरप्रकाशे कर्तव्ये २५. १ कौक्षेयकः खड्गः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274