Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 253
________________ २४० प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १९ अन्यथा काष्ठादीनामपि पाकादावसाधकतमत्वप्रसङ्गादिति" तत्र भवेदयं प्रसङ्गः सङ्गतो यधुपपद्येत चक्षुरादीनां प्रमिति प्रति साधकतमत्वम् । न चैवम् । ज्ञानस्यैव तत्र साधकतमत्वेन सविस्तरं प्रसाधितत्वात् ॥१९॥ अथ प्रसङ्गादायातमप्रामाण्यमपि प्रकाशयन्नाह। तदितरत्त्वाप्रमाण्यामिति ॥ २०॥ तस्मात् प्रमेयाव्यभिचारित्वात् । इतरत् प्रमेयव्यभिचारित्वम् । अप्रामाण्यं प्रत्येयम् । प्रमेयव्यभिचारित्वं च ज्ञानस्य स्वव्यतिरिक्तग्राह्यापेक्षयैव लक्षणीयम् । स्वस्मिन् व्यभिचारित्वासम्भत्वात् । तेन सर्वं ज्ञानं स्वापेक्षया प्रमाणमेव न प्रमाणाभासः । बहिरापेक्षया तु १० किञ्चित् प्रमाणं किञ्चित्पुनस्तदाभासम् । तदुक्तम् , “ भावप्रमेया पेक्षायां प्रमाणाभासनिवः । बहिः प्रमेयापेक्षायां प्रमाणं तन्नवेति च" ॥ भावेति सामान्यशब्दोऽपि बहिरित्यभिधानाज्ज्ञानस्वरूपे वर्त्तत इति । तच्चाहतो नान्यस्यास्वसंविदितज्ञानवादिनः । प्रामाण्यं स्वत एव युक्तिपदवीमायाति निःसंशयं ज्ञानानां घटनामुपैति परतोऽप्रामाण्यमेकान्ततः ॥ उत्पत्तौ स्वविनिश्चये च तदिदं यजैमिनीया जगुः तन्यक्कारपरायणं निजमतं ब्रूतेऽधुना सूत्रकृत्॥२४८॥२०॥ तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ॥ २१ ॥ अत्र ल्यलोपे पञ्चमी परं स्वं चापेक्ष्य । ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासद्शायां तु परत इति । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारित्वादितरस्माच्च प्रामाण्या १' चरितत्वम् ' इति म. पुस्तके पाठः । २ आतमीमांसायां लो. ८३, "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274