Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२५६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २१ स्वाविशेषणविशिष्टं निर्विशेषणं वा । आद्यपक्षे तस्य यथार्थत्वविशेषणग्रहणं प्रथमप्रमाणादन्यस्माद्वा । प्रथमपक्षे परस्पराश्रयप्रसङ्गः । निश्चितप्रामाण्याद्धि प्रथमप्रमागाद्यथार्थत्वविशिष्टार्थप्राकटयग्रहणं तस्माच्च प्रथमप्रमाणप्रामाण्यनिश्चय इति । द्वितीयविकल्पे वनवस्था । अन्यस्मिन्न पि हि प्रमाणे प्रामाण्यनिश्चायकार्थापत्त्युपस्थापकस्यार्थप्राकट्यस्य यथार्थत्वविशेषग्रहणमन्यस्मात्प्रमाणादितिानिर्विशेषणं चेदर्थप्राकट्यमर्थापत्त्युपस्थापकम् । तीप्रमाणेऽपि प्रामाण्यनिश्चायकार्थापत्त्युपस्थापनापत्तिः अर्थप्राकट्यमात्रस्य तत्रापि सद्भावात् । ततो न स्वत एव प्रामाण्यनिश्चयः ॥
तदित्थं ज्ञप्तिमाश्रित्यानभ्यस्ते विषये स्फुटम् ।
प्रामाण्यं परतः सिद्धमभ्यस्ते स्वत एव तु ।। २५९ ॥ कारणानि स्वकार्याणि यथाकथंचित्कुर्वन्ति सन्ति स्वतो वा कुर्युः परतो वेति विचारस्य चतुरैरनाश्रयणान्नेह प्रामाण्यस्य कार्ये परिच्छेदम्। यथार्थे स्वतः परतो वा प्रवृत्तिरिति निरूप्यते । न खलु पिण्डः कुम्भं स्वतः परतो वा कुर्यादित्यायः कश्चित् पालोचयति । ततश्च-- प्रामाण्यं स्वत एव नित्यमपरं तस्मात्परस्मादिति .
प्राक्तं यत्किल युक्तितस्तदधुना नीतं कथाशेषताम् ।। एवं चाप्रतिपक्षमत्र जयति प्रौढिं परामाश्रित
स्याद्वादत्रिदशगुमामरगिरिजनेश्वरं शासनम् ॥ २६० ॥ पूर्वाचार्थपरम्परापरिचितग्रन्थानुसारादिदं __ सभ्यैरप्यनुभूयमानमनिशं दोरैदत्तास्पदम् ।। मानानामुदितं स्वरूपमिह तोनाखिलोऽपि क्षितौ
__ लोकस्य व्यवहार एव घटते निःशक्षितः संततम् ॥२६१॥ - १ 'परिच्छेदः' इति प. म. पुस्तकयोः पाठः। २ 'आचार्यः' इति भ म. पुस्तकयोः पाठः । ३ 'वा' इति भ पुस्तके पाटः ।
२०
"Aho Shrut Gyanam"

Page Navigation
1 ... 267 268 269 270 271 272 273 274