Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 235
________________ २२२ प्रमाणनयतत्त्वालोकालङ्कारः परि. १ स. १८ हेतुभूतयोस्तयोर्यदि ज्ञान तथाविधेनापरस्वभावद्वयेन प्रकाशकं तदानवस्था । स्वपरप्रकाशहेतुभूतस्वभावद्वयाप्रकाशत्वे वा ज्ञानस्य प्रमाणत्वायोगः । स्वस्वभावाप्रकाशकस्य कुम्भादिवत् अप्रमाणत्वेन भवद्भिरभ्युपगमात् । एवं च । एकप्रमातृसमवेतधियाधिगम्यं सिद्धं समस्तमपि वेदनमुक्तयुक्त्या । ये तु स्वसंविदितमेतदुदाहरन्ति कामन्ति ते किमिति नांसतटीं स्वकीयाम् ॥ २३४ ॥ अहो गदित्वा परिफल्गु किञ्चित्प्रगल्भसे मुग्ध किमेवमत्र । १० इतः स्वसंवेदनसिद्धियुक्तीः शृणु स्वपक्षेऽपि च दोषपंक्तीः॥ २३५ ॥ तथाहि यत्तावज्ज्ञानं ज्ञानान्तरवेद्यमित्याद्यनुमानमगादि तत्र वेद्यत्वादिति हेतोस्त्रिलोचनज्ञानेन व्यभिचारः । तस्य वेद्यत्वेऽपि स्वसंविदितत्वेन भवद्भिरभ्युपगमात् । यत्पुनरत्रोक्तमस्मदादिज्ञानापेक्षयेत्यादि । तदवद्यमस्मदादीति विशेषणस्यात्राश्रूयमाणत्वात् । हृदयनिविष्टं तदस्तीति चेत् । कथं शपथमन्तरेणायमर्थः प्रतीयते । अस्तु वा, तथापि पक्षस्य हेतोर्वा तत्स्यात् । यदि पक्षस्य, तदा विरूपाक्षज्ञानमपक्षोऽस्तु हेतुस्तु तत्र प्रवर्त्तमानः केन प्रतिहन्यते । येन स व्यभिचारो न भवेत् । अथ हेतोस्तद्विशेषणमस्मदादिज्ञानत्वे सति वेदत्वादिति तर्हि साधनविकल्पो दृष्टान्तः । तथाभूतस्य हेतोर्घटदृष्टान्तेऽसम्भवात् । अपि च विरूपाक्षज्ञानं स्वज्ञानं स्वसंविदितत्वादस्मदादीति विशेषणेनात्रव्यवच्छिद्यते । स्वसंविदितत्वं च कुतस्तस्य सिद्धम् । अर्थग्रहणात्मकत्वान्चेत्तदस्मदादिज्ञानेऽप्यस्त्येवेत्युभयत्र स्वसंविदितत्वं सिध्येन्न वा क्वचिदपि विशेषादर्शनात् । अथ विरूपाक्षज्ञानम्यास्मदादिज्ञानाद्वि शिष्टत्वात्तत्रैव स्वसंविदितत्वं न्याय्यं नान्यत्र नहि विशिष्टे दृष्टं धर्मम२५ विशिष्टेऽपि योजयन् प्रज्ञावत्तां लभत इति चेत् , तदप्यनवदातम् । एवं हि शम्भुज्ञाने विशिष्टे दृष्टस्यार्थग्रहणात्मकत्वस्याप्यस्मदादिज्ञाने प्रतिषेधप्रसङ्गः । अथ तस्याभावे तज्ज्ञानमेव न स्यात्तत्य तत्स्वभावत्वा "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274