Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 262
________________ मनुमानम् । परि. १ सू. २१] स्याद्वादरत्नाकरसहितः २४९ तदपि लोकव्यवहारव्याहतम् । लोको हि यथा मिथ्याज्ञानात्कारणस्वरूपमेवानुमिनोति तथा सम्यग्ज्ञानादपि । यथा च मिथ्याज्ञानाद्दोषवन्ति कारणानि परिकल्पयति । तथा सम्यग्ज्ञानाद्गुणवन्ति तानीति । तत्प्रामाण्यं गुणापेक्षमुत्पत्तिं प्रतिमानतः ।। सिद्धिसौधमुपारूढमित्यलं बहुजल्पितैः ॥ २५८ ॥ अनभ्यासदशायां प्रामाण्यं परतः प्रतिपद्यत इति । कुतः प्रतीयत अनभ्यासदशायां प्रामाण्य-इति चेत् । अनभ्यासदशायां प्रामाण्यं परतो स्य परतस्त्वसाधक- ज्ञानते संशयास्पदत्वादिल्यत इति ब्रूमः । यदि " हि ज्ञानेन स्वप्रामाण्यं स्वयमेव ज्ञायेत यथार्थपरिच्छेदकमहमस्मीति, तदा प्रमाणमप्रमाणं वेदं ज्ञानमिति प्रामाण्य- १० संशयः कदाचिदपि नोत्पद्यते ज्ञानत्वसंशयवत् । निश्चिते तदनवकाशात् । अथ प्रमाणवदप्रमाणेऽपि ज्ञानमिति प्रत्ययरूपसमानधर्मदर्शनाद्विशेषस्य कस्यचिदप्यदर्शनादुत्पद्यत एव । निश्चितेऽपि प्रामाण्ये संशय इति चेत् । नैतत्संशयकारणानुगुणम् । न खलु साधकबाधकप्रमाणाभावमवधूय समानधर्मदर्शनादेवासौ भवितुमर्हति । तथा सति तदनुच्छे- १५ दप्रसङ्गात् । न चेह तव साधकबाधकप्रमाणाभावःसम्भवी । स्वतः प्रामाण्यज्ञप्तिरूपस्य प्रामाण्यसाधकस्याप्रामाण्यबाधकस्य च प्रमाणस्य विजृम्भमाणत्वात् । भवति चानभ्यासदशायां प्रामाण्ये सन्देहस्तस्मान्नात्र स्वतो ज्ञप्तिः । अथ झटिति प्रचुरा च तथाविधा प्रवृत्तिरन्यथानुपपद्यमाना स्वतः प्रामाण्यज्ञप्तिमाक्षिपतीति चेत् , नैतत् । २० अन्यथैवोपपत्तेः । करणं तत्कारणमभीष्टाभ्युपायताज्ञानं तदपि तज्जातीयत्वलिङ्गानुभवादिप्रभवमिति न प्रामाण्यग्रहस्य कचिदप्युपयोगः । उपयोगे वा स्वत इति कुत एतत् । अथ यदि स्वतः प्रामाण्यज्ञप्तिर्न स्यान्न स्यादेवैषा । परतो ज्ञप्ति "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274