Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
_प्रमाणनयतत्त्वालाकालङ्कारः परि.१ सू. १८ एतदपि दृश्यमिति चेत्, तथापि सिद्धसाध्यता । स्मृतिरूपेणैकशरीरवर्तिनास्मदादिज्ञानान्तरेण अतीतज्ञानस्य वेदत्वाभ्युपगमात् । वर्तमानस्य ज्ञानस्यैकशरीरवय॑स्मदादिज्ञानान्तरवेद्यत्वं साध्यत इति चेत् । तन्न,वर्तमाने ज्ञाने ज्ञानान्तरस्यासम्भवात् । युगपज्ज्ञानानुत्पत्तेर्मनसो लिङ्गत्वेनाङ्गीकरणात् । विवक्षितज्ञानोत्पत्त्यनन्तरभाव्येकशरीरवर्त्यस्मदादिज्ञानान्तरेण विवक्षितज्ञानस्य विनश्यदवस्थस्य वेद्यत्वं साध्यत इति चेत्, तहनैकान्तिकत्वं हेतोःसर्वेषां विद्यानां नियमेनोत्पत्त्यनन्तरभाव्येकशरीरवहँस्मदादिज्ञानान्तरवेद्यत्वाभावात् । अथ किभेताभिः कल्पनाभिर्ज्ञानं ज्ञानान्तरेणैव वेद्यमित्यवधारणगर्भ साध्यमभिप्रेयते ततो न सिद्धसाध्यताद्यवतार इति चेत् । मैवम् । एवमपि दृष्टान्ते साध्यवैकल्यकलङ्कस्याप्रतिहतप्रसरत्वात् । न खलु कलशो ज्ञानान्तरेणैव वेद्यः । प्रथमज्ञानेनापि तस्य वेद्यत्वात् । न च तदपि कलशस्वरूपात्पार्थक्येन ज्ञानान्तरमिति वाच्यम् । अन्तरशब्दस्य सजातीयापेक्षथैव भेदवाचकत्वा
दित्युक्तत्वात् । यदप्यवादि अर्थग्रहणबुद्धिश्चेतनेति । तदप्यविचारित१५ रमणीयम् । स्वसंविदितत्वाभावे ज्ञानेऽर्थग्रहणस्थैवासम्भवात् ।
अर्थग्रहणत्वं हि ज्ञानेऽर्थादुत्पत्तेश्चेतनास्वरूपत्वतो वा भवेत् । यत्रे यद्याद्रुत्पत्तेर्ज्ञाने तदनुमन्यते, तर्हि पटेऽप्यनुमन्यतां मृद्दण्डचक्रचीवराधादुत्पत्तेरविशेषात् । अथ चेतनास्वरूपत्वतः, ननु कुतो ज्ञानस्य चेतनात्वसिद्धिरर्थग्रहणाच्चेतनात्मप्रभवत्वाद्वा । अर्थग्रहणाच्चेत्, परस्पराश्रयः । सिद्धे ह्यर्थग्रहणे चेतनात्वसिद्धिस्तसिद्धेश्वार्थग्रहणसिद्धिरिति । अथ चेतनात्मप्रभक्त्वात् , नन्वात्मनोऽपि कुतश्चेतनत्वं सिद्धयेत् , चेतनासमवायात्स्वतो वा । यदि स्वतः, तदापसिद्धान्तप्रसङ्गः । स्वरूपेण तस्य भवद्भिर्जडत्वेन स्वीकरणात् । अथ चेतना
समवायात् , तर्हि चक्रकापत्तिः । तथाहि चेतनासमवायादात्मन२५ श्चेतनत्वसिद्धिस्तत्सिद्धौ च तत्प्रभवत्वेन ज्ञानस्य चेतनात्वसिद्धिस्त
१' तत्र' इति म. पुस्तके पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274