Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 252
________________ परि. १ सू. १९} स्याद्वादरत्नाकरसहितः बुद्धेः पारोक्ष्यपक्षः क्षयमुपगमितो जैमिनीयाभ्युपेतः ___ पूर्वं तस्यापि पश्चात् प्रलयवसुमती योगपक्षोऽत्र नीतः ।। ज्ञाने जाड्याभिमानस्तद्नु शिथिलतः सर्वथा कापिलानां __ पक्षो लोकायताना पुनरयमधुनाऽक्षेपि सङ्क्षपवृत्त्या ॥ २४७।। ततश्च--- प्रक्षीणनिःशेषविपक्षपक्षो ज्ञानं स्वसंवेदनवाद एषः । प्राप्तः प्रतिष्ठां परमामिदानी जितं च जैनैर्जयकेलिलोलैः ॥२४८॥ प्रकाशकं स्वस्य परस्य चेत्थं सिद्धं समारोपविमुक्तरूपम् । ज्ञानं प्रमाणं निखिलाऽपि यस्मान्निष्पद्यते संव्यवहारवीथी॥२४९॥१८॥ अथ किं तज्ज्ञानस्य प्रामाण्यं यत्सम्पादिदं प्रमाणमिति व्यपदिश्यत १० इत्याहज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यामिति ॥१९॥ __ यदि पुनरर्थाव्यभिचारित्वमित्युच्येत तदा सत्यं वाचस्पतेर्दूषणकणि. काकणमुपजीव्यता तावदाव्यभिचारः प्रामाण्यं, “सत्यपि वह्निनियतत्वे धूमस्य कुतश्चिन्निमित्तादनुत्पादिताग्निज्ञानस्य प्रामाण्या- १५ भावात् नीलपीतादिषु प्रत्येकं व्यभिचारेऽपि चक्षुषो यथार्थज्ञानजनकत्वेनैव प्रामाण्यात्" इत्यभिधानः श्रीधरो दुर्धर एव भवेत् । न च प्रमेयाव्यभिचारित्वाभिधानेऽपि समानमेतदिति मन्तव्यम् । बहेस्तदानीं प्रमेयत्वाभावात् । नीलपीतादीनां च प्रमेयत्वात् प्रमाणापेक्षयैव हि भावानां प्रमेयत्वं धूमध्वजज्ञानमजनयति च धूमे न प्रामा- .. ण्यस्यावसर इति कस्य प्रामाण्यमन्विप्यताम् । नीलपीतादीनां च स्वविषयं ज्ञानं जनयतां यदि न प्रमेयत्वम् । तदा दत्तो जलाञ्जलिः प्रमेयस्य ! यतो नीलादिप्रमेयाव्यभिचारित्वाज्ज्ञानस्यैव तत्र प्रामाण्यं संगच्छते न चक्षुषः । यच्चायोचद्वाचस्पतिः। न च तेषां "न प्रामाण्यमिति साम्प्रतम् । प्रमितिक्रियां प्रति साधकतमत्वसम्भवात् । २५ १ न्यायकन्दल्यां पृ. २१७ पं. २६ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274