Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
२०६
प्रमाणनयत्तत्त्वालोकालङ्कारः
2
छिद्रप्रच्छादनार्थं प्रकटयति भवान्यामपीमामविद्यामत्यन्तं च्छिद्रिताऽसौ प्रभवति न तरां तत्समाच्छादनाय ॥ २२२ ॥ अद्यापि वादिन्यदि तुण्डकण्डूर्विडम्बयत्येव भवन्तमेषा |
तदा पुनब्रूहि वयं तदेतत्तथैव वर्त्तेमहि हन्त सज्जाः ॥ २२३ ॥ नवेष ब्रवीमि । विवादविषयापन्नः प्रपंचो मिथ्या प्रतीयमानत्वाद्यदित्थं तदित्थं यथा निशीथिनीनाथद्वित्वमिति । श्रुतमिथ्यात्वसाधकानुमानस्य खण्डनम् । मिदमनुमानं परं दुर्बारमारुतप्रहततरंगिणीतुङ्गतङ्गतरङ्गपरम्पराप्रेरितोत्पलनालवद्दोलायते । तथाहि मिध्यात्वमत्र कीदृक्षमाकांक्षितं सूक्ष्मदृशा, किमत्यन्तासत्त्वमुतान्यस्यान्याकारतया प्रतीतत्व१० माहोस्विदनिर्वचनीयत्वमिति न तावदाद्यः पक्षः, असत्ख्यातेस्त्वयाऽनङ्गीकाराच्चन्द्रद्वित्वस्यात्यन्तासत्त्वाभावेनोदाहरणस्य साध्यविकलत्वप्रसङ्गाच्च । अथान्यस्यान्याकारतया प्रतीतत्वम्, तदपि न । विपरीत - ख्यातेरपि त्वयाऽनभ्युपगमात् । अथानिर्वचनीयत्वरूपं मिथ्यात्वं सिषाधयिषितम् । तदापि चन्द्रद्वित्वे तदभावात्साध्यविकलत्वमुदा१५ हरणस्य । न हि चन्द्रद्वित्वमनिर्वचनीयत्वेन प्रतिपन्नमस्त्यनिर्वचनीयख्यातिप्रत्याख्यानप्रघट्टके विकुट्टितत्वात् । प्रत्यक्षबाधितत्वं च पक्षस्य दोषः अनुष्णस्तेजोऽवयवात्यादिवत् । तथाहि सन् घटः सन् पट इत्याद्युल्लेखवता प्रत्यक्षेण प्रपञ्चस्य सत्यत्वमेव प्रतीयते न हि घटादेः पृथक् प्रपञ्चो नाम कश्चिदस्ति । ननु पक्षस्य प्रत्यक्षबाधितत्वमसमंजसं प्रपञ्चान्तर्गतत्वेन २० प्रत्यक्षस्य तत्रापि मिथ्यात्वस्य साध्यमानत्वात् । न च मिथ्यारूपेण तेन किमपि बाधितुं शक्यमतिप्रसक्तेः । ततश्च यथानुमानमिथ्यात्वं साधयन्तं लोकायतं प्रत्यनुमानबाधा नोपपन्ना तथा प्रपञ्चान्तर्गतत्वेन प्रत्यक्षमिथ्यात्वं साधयन्तं मायावादिनं प्रति प्रत्यक्षबाधापीति चेत् । न । त्वदीयानुमानस्यापि प्रत्यक्षवत् प्रपञ्चान्तर्गतत्वेन मिथ्यात्वात्प्रस्तु२५ तसाध्यसाधकत्वानुपपत्तिप्रसक्तेः । अथैवमभिधीयते प्रपञ्चमिध्यात्वप्रसाधकमिदमनुमानमेव सन् घटः सन् पट इत्यादिप्रत्यक्षप्रतीतिं बाधते
[ परि. १ सू. १६
"Aho Shrut Gyanam"

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274