Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 261
________________ ५४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २१ तिरप्यत्र साक्षिणी । तथाहि । कश्चित्काचकामलादिदोषकलुषितलोचनस्तथाविधौषधप्रयोगसामर्थ्यसमासादितेन्द्रियगुणः केनचित् परमवयस्येन कीदृशौ दृशौ भवतः सम्प्रतिपन्ने इति सस्नेहं सम्भाषितः सन्नभिधत्ते । पुरा सदोषे समभूतामधुना तु लब्धिसम्पन्ने इति । न तु विस्मृत्यापीदमभिदधाति यदुत प्राक्सदोषे मे दृशौ समभूतामिदानी पुनस्तयोस्तिमिरादिदोषाभावमात्रं तुच्छं सम्पन्नमिति । ततश्च गुणस्वरूपस्य कार्यत्वं सुस्पष्टं प्रतीयत एवेति नासिद्धं कार्यत्वधर्माधारत्वमस्य । तथा च कथं निःस्वभावत्वं तस्येति । यदि च दोषाभावो निःस्वभावः स्वीक्रियते । तर्हि " भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । १० अभावः सम्मतस्तस्य हेतोः किन्न समुद्भवः॥" इत्यत्र भावान्तरवि निर्मुक्तो भावोऽभावः सम्मत इत्यस्य विरोधः । एवं च गुणदोबयो: परस्परविरुद्धत्वेनैकप्रतिषेधस्येतरविधिस्वरूपत्वाद्दोषाभावो गुणसद्धाबात्मक एवाभ्युपगन्तव्यो यथा वस्त्वभावाभावो वस्तुसद्भावात्मकः । यदि चैवं नाभ्युपगम्यते तर्हि कथं लिङ्गे नियमलक्षणसम्बन्धाभावोऽपि दोषात्मकः स्यात् अभावस्य गुणस्वरूपत्वाभावाद्दोषरूपलस्याप्ययोगात् । तथा च काचकामलादिदोषाभावव्यतिरिक्तगुणरहिताञ्चक्षुरादेरुपजायमानं प्रामाण्यं यथा स्वतोऽभिधीयते । तथा नियमलक्षणसम्बन्धाभावव्यतिरिक्तदोषरहिताल्लिङ्गादप्रामाण्यमप्युपजायमानमनुभाने स्वतोऽभिधीयताम् । विशेषाभावात् । ___ एवं च 'अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः' । वस्तुत्वाद्विविधस्यात्र सम्भवो दुष्टकारणात्॥' इत्यस्य विरोधः । द्विविधस्येति मिथ्यात्वसंशयस्वरूपस्य । ततो द्वितीयलिङ्गे नियमलक्षणसम्बन्धाभावस्य दोषरूपत्ववदिन्द्रिये दोषाभावस्य गुणरूपता स्यात् । यदपि न चैतद्वाच्यमित्याद्याशंक्य यतोऽत्र लोकः प्रमाणं न चासौ मिथ्याज्ञानात् कारणस्वरूपमात्रमनुमिनोति किन्तु सम्यग्ज्ञानादिति समाहितम्। १ मीमांसाश्लोकवार्तिके सू. २ चोदनासूत्रे श्लो. ५४. "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274