Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. १८] स्याद्वादरत्नाकरसहितः
२२५ सिद्धौ चात्मनश्चेतनासमवाय इति । यावन्नात्मनश्चेतनासमवायस्तावन्न चेतनत्वसिद्धिर्यावन्नासौ तावन्न तत्प्रभवत्वेन ज्ञानस्य चेतनात्वसिद्धिर्यावच्च नेय तावन्नात्मनश्चेतनासमवाय इति । तस्मान्न स्वसंविदितत्वं विहाय बुद्धेरर्थग्रहणं घटते । किञ्चार्थबुद्धिरित्यत्र किमर्थस्यैव ग्रहणं बुद्धिरिति व्याख्यायते किंवार्थस्थापीति । तत्र प्रथमपक्षः प्रत्यक्षविरुद्धः। ५ नीलमहमात्मना जानामीत्यत्र नीलमित्युल्लेखेनार्थग्रहणवदात्मनेत्युल्लेखेन ज्ञानग्रहणस्याप्यनुभवात् । न हि नीलसंवेदनाद्भिन्नकालं तदात्मसंवेदनं वेद्यते । तत्संवेदनसमकालमेवान्तःपरिस्फुटरूपस्यास्यानुभवात् । अतोऽर्थसंवेदनात्तदात्मसंवेदनस्याभिन्नस्वभावत्वात्तत्संवेदने तदपि संविदितमिति स्वसंवेदनसिद्धिः यद्यस्मादभिन्नस्वभावं तस्मिन् गृह्यमाणे १० तद्गृहीतमेव । यथा नीले गृह्यमाणे तस्यैव स्वरूपसन्निवेशादिकम् । अर्थसंवेदनादभिन्नस्वभावं च तदात्मसंवेदनमिति । अथार्थस्यापि ग्रहणमिति व्याख्यायते । तर्हि सिद्धं नः समीहितं स्वसंवेदनाप्रतिक्षेपात् । एवं च स्वसंवेदनप्रत्यक्षेणैव ज्ञानस्य स्वव्यवसायिस्वरूपत्वसिद्धेः प्रत्यक्षबाधितकर्मानन्तरोपदिष्टत्वेन वेद्यत्वादिति हेतोः कालात्यया- १५ पदिष्टत्वं तवस्थमेवेति स्थितम् । यच्चोक्तं ग्रहणं पुनरस्येत्यादि । तदप्ययुक्तम् । विच्छिन्नप्रतिभासाभावात् । न खलु प्रागर्थज्ञानं पश्चात्तज्ज्ञानज्ञानमिति नान्तरा प्रतीतिरनुभूयते । यत्पुनरुक्तमनयोः क्रमसमुत्पादेऽप्याशुवृत्तेरित्यादि । तदतीवानुपपन्नम् । एवं हि समस्तार्थानां कथं क्षणभङ्गुरता न स्यात् सत्यामप्यस्यामाशुवृत्तेरेकत्वानध्य- २० वसाय इति सौगतेनापि वक्तुं शक्यत्वात् । अपि च । उत्तरकालीनस्वग्राहकज्ञानकाले प्राचीनमर्थज्ञानमनुवर्त्तते न वा । यद्यनुवर्तते, तदा युक्तिप्रतीतिविरोधी ज्ञानयोगपद्यप्रसङ्गः । सिद्धान्तविरोधी चायं भवतः । त्वया ज्ञानद्वयस्य युगपदनभ्युपगमात् । अथ युगपज्ज्ञानद्वयस्योत्पत्तिरेव विरुध्यते । तथा च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" २५
१ गौतमस. १-१-१६.
१५
"Aho Shrut Gyanam"

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274