Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 267
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. २१ निश्चितं भवति । तदा सुखेनैवान्यदाभ्यासात्स्वत एव प्रामाण्यनिश्चयपूर्विका प्रवृत्तिः सिद्धयति प्रतिपत्तृणामिति । एतेन निश्चितप्रामाण्यात्पर्वत्तकज्ञानात्प्रवृत्तावित्यादिना यच्चक्रकमकीर्ति । तदपि परास्तम् | यदि ह्यर्थक्रियाज्ञानादेकान्तेन प्रवर्तकज्ञानस्य प्रामाण्यनिश्वये ५ सति प्रवृत्तिः प्रतिज्ञायेत । तदा स्याच्चक्रकदूषणावतारः । ननु प्रामाण्यसन्देहादपि प्रवर्त्तमानः कथं प्रेक्षावान् स्यादिति चेत्, न कथंचिदिति ब्रूमः । सन्देहात्प्रवर्त्तमानस्याप्रेक्षावत्त्वं कक्षीक्रियत एव । न खलु जात्याकश्चित्प्रेक्षावान्नाम समस्ति तदितरो वा । प्रेक्षावरणक्षयोपशमविशेषस्य हि सर्वत्र सर्वदा सर्वेषामसम्भवात् क्वचित्कदाचित्कश्चिदेव १० प्रेक्षावान् व्यवह्नियतेऽन्यत्र प्रक्षीणाशेषावरणादशेषवेदिनः । एकदा हि कश्चित्प्रेक्षावरणक्षयोपशयविशेषादवाप्तप्रेक्षावद्व्यपदेश: सुनिश्चितप्रामाप्यात् प्रमाणात् क्वचित्प्रवर्त्तते सोऽप्यन्यदा तथाविधक्षयोपशमानवास्था समासादिताप्रेक्षावव्यपदेश: संशयादेरपि क्वचित्प्रवर्तत इति न कश्चित्प्रतिनियतः प्रेक्षापूर्वकारी तदितरो वा । तथा चोक्तम् || " प्रेक्षावता १५ पुनर्ज्ञेया कदाचित्कस्यचित् क्वचित् । अप्रेक्षाकारिताप्येवमन्यत्राशेवेदिनः ॥ १ ॥ " इति । २५४ न च सन्देहात्प्रवृत्तिस्वीकारे प्रमाणमनोरथो व्यर्थः । प्रेक्षावत्प्रवृत्तौ तस्य सोपयोगत्वात् । प्रमाणं हि विना प्रेक्षासंदेहात्प्रवृत्तावपि प्रामाण्यशतैः सोपयोगत्वम् । वन्तः कथं कथं कचित्कदाचित्प्रवर्त्तन्तामिति । यत्रापि कचित्प्रवर्त्तकज्ञानस्य प्रामाण्यनिश्वये सति प्रवृत्तिस्तत्रापि नार्थक्रियाज्ञानात्तस्य प्रामाण्यनिश्चयो येन चक्रकमवत - रेत् । किं तर्ह्यभ्यासदशायां स्वत एवानभ्यासावस्थायां तु परत एवानुमानादेः प्रमाणात् । तत्राभ्यासदशायां स्नानभोजनादिसाधनगोचरप्रमाणानां स्वत एव प्रामाण्यनिश्चयः सुप्रतीत एव । अनभ्यासदशायां -२५ त्वनुमानादित्थं प्रवर्त्तकज्ञानस्य प्रामाण्यनिश्चयः । यथा कश्चिदविदितवह्निस्वरूपः प्रमाता हेमन्ते हिमानीनिपातावबाधाविधुरितशरीरः तिरस्कृतस २० " Aho Shrut Gyanam" -

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274