Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
१९७
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः विशिष्टा प्रतिपादकत्वमुपकल्पयेत् । प्रतिपाद्यस्य चांऽविद्या प्रतिपाद्यत्वोपकल्पनपरा प्रतिपादकादेरविशिष्टा प्रतिपाद्यत्वं परिकल्पयेत् । प्रतिपादकादीनामभेदात्तदविद्यानामप्यभेदात् । भेदे वा प्रतिपादकादीनां भेदसिद्धिर्विरुद्धधर्माध्यासात् । अनाद्यविद्योपकल्पित एव तदविद्यानां भेदो न पारमार्थिक इति चेत् परमार्थतस्तह्मभिन्नास्तदविद्या इति स ५ एव प्रतिपादकादीनां सङ्करप्रसङ्गः । यदि पुनरविद्यापि प्रतिपादकादीनामविद्योपकल्पितत्वादेव न भेदाभेदविकल्पसहा नीरूपत्वादिति मतम् । तदा परमार्थपथावतारिणः प्रतिपादकादय इति बलादीर्यते । तदविद्यानामविद्योपकल्पितत्वे विद्यात्वविधैरवश्यंभावित्वात् । तथा च प्रतिपादकादिभ्यो भिन्नमागमवाक्यं लिङ्गं च सकृत्प्रतिपादकादिसंवेद्य- १० त्वान्यथानुपपत्तेरित्यचित्स्वभावं तत्सिद्ध बहिर्वस्तु तद्वत् घटादिवस्तुसिद्धिरिति न प्रतिभासाद्वैतव्यवस्था प्रतिभास्यस्यापि सुप्रसिद्धत्वात् । प्रतिभास्यसमानाधिकरणता पुनः प्रतिभासस्य कथंचिद्भेदेऽपि न विरुद्धयते । घटः प्रतिभासत इति प्रतिभासविषयो भवतीत्युच्यते 'विषयविषयिणोरभेदोपचारात् । प्रस्थप्रमितं धान्यं प्रस्थ इति यथा । १५ ततः सामानाधिकरण्यादुपचरितान्नानुपचारितैकत्वसिद्धिः । मुख्य सामानाधिकरण्यं क सिद्धमिति चेत्, संवेदनं प्रतिभास इत्यत्र । वैयधिकरण्यव्यवहारस्तु गौणस्तत्र संवेदनस्य प्रतिभासनमिति । घटस्य प्रतिभासनमित्यत्र तस्य मुख्यत्वप्रसिद्धेः । किंच कथञ्चिद्भेदमन्तरेण सामानाधिकरण्यस्यानुपपत्तेस्तत एव कथंचिद्भेदस्य सिद्धिः । शुक्ल: २० पट इत्यत्र सर्वथा शुक्लपटयोरैक्ये हि न समानाधिकरणता । पटः पट इति यथा । नापि तयोः सर्वथा भेदे रत्नसानुरत्नाकरवदिति । • यच्चोक्तम् । तदेव च परमात्मरूपं सकललोकसर्गस्थितिप्रलयहेतुपरब्रह्मणः सकललोकसर्ग- रिति । तदप्याकाशचर्वणप्रायम् । अद्वैतैकान्ते प्रलयहेतुत्वमित्यद्वैतवादि- कार्यकारणभावविरोधात् । तस्य द्वैताविनाभा- २५
वेदान्तिमतस्य निरा- वित्वात । किंच ।
करणम् । १ वा' इति प. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274