Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
वचनात् स्वः-आत्मीयः, इह संसारे भगवानेवात्मीयः, जन्मजरादिभयनिवारकत्वात् न तु स्वजनधनादिः । ततस्तस्य सम्बो० हे स्व-हे आत्मीय ! ई-कामं 'अदु बन्धने' इतिवचनात इअन्दति बध्नातीति यन्दः, तस्य सम्बो० हे यंद ! । त्वं नोऽस्मान् चित्रत्वाद्विसर्गाभावः । ईश्वरीकर्तु-नायकीकर्तुं ईश्वरः-प्रभुरसि । पर-प्रकृष्टं यथा स्यात्तथा केन-सुखेन, थो-भीत्राणं यत्र तत् कथं । द्वयमाप क्रियाविशेषणम् । त्वं किंवि० ? परिग्रहो-धनधान्यादिः, आरम्भः कृष्यादिः, तत्र मग्नानिमग्नाः ते परिग्रहारम्भमग्नाः-गृहिणः तान् । 'थोबोवि गिहिपसंगो जइणो सुद्धस्स पंकमावहइ ' इतिवचनात् अस्यति लक्षणया त्यजति क्विपि परिग्रहारम्भमग्नाः-गृहस्थादिसङ्गरहित इत्यर्थः । त्वं पुनः किंवि० ? तां-श्रियं, राति-ददातीति डप्रत्यये तारः ईदृशः यं-यकार ईयते यः सक्विपि येः स चासौ युश्च येयुः ययुरितिसिद्धं । ततः ययुः-तुरङ्गमो यस्य सः तारयेयुः श्रीसम्भव जिनः, अश्वलाञ्छनत्वात् । त्वं पुनः किंवि० ? 'ऋः पृथिव्यां देवमातरी ति महीपवचनात् ऋ:-भूमिस्तस्यां यन्ति-चरन्ति क्विपि रितो-मनुष्याः, तेषु रा-दीप्तियस्य । अथवा तेषु राजते डप्रत्यये सः रिद्रः । नः किंवि० ? परान्श्रेष्ठान् ॥७॥ इत्यर्थद्वयेन श्रीसम्भवजिनं व्यावर्ण्य श्रीअभिनन्दनजिनं वर्णयति
परिग्रहाx रम्भमन्नास्ता+ रयेयुः कथं प रान् ।
स्वयं दरिद्रोन ! परमीश्वरीकर्तुमीश्वरः । ८॥ व्याख्या- परिभूमिरित्युणादिवचनात् परौ-भूमौ, परि-समअ आ आरम् अं अक् न इतिछेदः । तारय इ इति सम्बोधने
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120