Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीनमि-नेमिजिनवर्णनम् ]
इति मुनिसुव्रतजिनं व्यावर्ण्य श्रीनमिजिनं वर्णयतिपरिग्रहाऽरम्भमग्नास्तारये युः कथं पराऽन् । स्वयं दरिद्रो! नपरमीश्वरी कर्तुमीश्वरः ॥३०॥
व्याख्या-परि-समन्तात् ' ग्रहो ग्रहणनिर्बन्धानुग्रहेषु' इतिवचनात् ग्रहोऽनुग्रहो यस्य तस्य सम्बो० हे परिग्रह ! 'भः प्रभावे मयूख' इति महीपवचनात् भःतेजः, तस्मिन् मग्ना-निमग्ना सती आस्ते-तिष्ठति, असते-दीप्यते वा क्विपि भमग्नाः-तेजोमयी, ईदृशी या तारा-कनीनिका, तया भमग्नास्तारया हे पर-हे श्रेष्ठ ! । दानिस्त्रियः, तथा 'र:-तीक्ष्णे वैश्वानरे नर' इतिवचनात् रोनरस्तस्यापत्यं रिः, बहुत्वे रयः-मनुष्यपुत्राः, तेषां 'दुः शाखे' त्युणादिवचनात् द्रुः-शाखा सन्ततिरूपा यस्मात् स दरिद्रुः, तस्य सम्बो० हे दरिद्रो ! भगवत्प्रभावादविच्छिन्ना पुत्रादिसन्ततिः स्यादितिभावः । भवान् स्वं-अर्थः, ई:-कामः, अं-परब्रह्म, समाहारे स्वयं अरं-अत्यर्थ, कर्तु-विधातुं, ईश्वरः प्रभुरस्ति । भवान् किं० ? ई-श्रीः, तया उ:-शङ्करः, सः युः-श्रीशङ्कर इत्यर्थः । भवान् पुनः किं० ? अ:कृष्णः, स इवाचरति शतरि अन्-कृष्णतुल्यः, जगन्नाथत्वात् । भवान् किंवि० ? नात्-नकारात्, परोऽग्रगः, मिरिति वर्णो यस्य सः नपरमिः । एवं नमिरिति सिद्धं, ईदृशः ईश्वरशद्रो विद्यते यस्मिन् सः नपरमीश्वरी नमीश्वर इत्यर्थः । 'इ' इत्यव्ययः प्रत्यक्षे । स्वयं किंवि० ? केन-सुखेन, थो-भीत्राणं यस्मात् तत् कथम् ।।३।।
श्रीनमिजिनं व्यावर्ण्य श्रीनेमिजिनं वर्णयति--
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120