Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशक्रवर्णनम् ]
युः-श्रीदेवमातुः, कं-सुखं, थो-भीत्राणं, समाहारे कथं-सुखभीत्राणं 'राङ्क दाने' शतरि रान्-ददत् स्वयं वर्तते । भवान् किंवि० ? दरिद्राः-निःस्वाः तथा ऊना:-कुटुम्बाद्यपरिपूर्णाः, तेषां मध्ये परःउत्कृष्टः, तं दरिद्रोनपरं-सर्वथा दरिद्रं सर्वथा ऊनं च पुरुषं ईश्वरीकर्तुं ईश्वरो-विभुरित्यर्थः ॥८१॥ __ अथाष्टौ दिग्पाला वर्ण्यन्ते । तत्र प्रथमं इन्द्रं वर्णयति
परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयं दरिद्रो न परमी श्वरी कर्तुमीश्वरः ॥८२।।
व्याख्या-ई-श्रीः, तया युक्ता ऋर्देवमाता, तस्याः युःश्रीदेवमातुः। केन-सुखेन, थो-भीत्राणं यथा स्यात् तथा । कथमिति क्रियाविशेषणे । शसयोरेक्यात् स्वः-स्वर्गः तस्य ईश्वरः-पतिः इन्द्रः, परान्-शत्रून् , परं-दूरं, कर्तुं ईश्वरः-विभुरित्यर्थः। तारयादृष्टिमात्रेणेत्यर्थः । स्वयमात्मनेत्यर्थः । इन्द्रः किंवि० ? न दरिद्रःनकारस्य निषेधार्थत्वात् अदरिद्रः-श्रीमानित्यर्थः । इन्द्रः पुनः किंवि० ? ई-श्रीः, तस्याः ईनान्-स्वामिनः करोति णिजि क्विपि 'नाम्नो न' इति न लोपे ई इति सिद्धम् । परान् किंवि० ? परिग्रहा-दाराः, तेषां आरम्भ-उपक्रमः, तत्र मग्नाः:-निमग्नाः, तान् परिग्रहारम्भमग्नान् । चित्रत्वादनुस्वाराभावः । 'इ' इति पादपूरणेऽव्ययः । 'ई' इति सम्बोधने च ।।८।। परिग्रहारम्भ ! मग्नास्तारये युः कथं पराऽन् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ।।८३॥
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120