Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगजस्वप्नवर्णनम् ]
ई उ इत्यामन्त्रणेऽव्ययः || ११||
अथ चतुर्दश स्वप्ना वर्ण्यन्ते । तत्र प्रथमं राजस्वप्नं वर्णयतिपरिग्र ! हारम्भमग्नाऽस्ताऽऽर ये युः कथं परान् । स्वयं दरिद्रोनपरमीश्वरी कर्तुमीश्वरः ॥९२॥
व्याख्या- 'ईर्भुवि श्रिया' मिति महीपवचनात् ई-भूमिः, तस्या ईश्वरः - पतिः स ईश्वरः - भूमीश्वरः, तस्य सम्बो० है ईश्वर - हे भूपते ! चित्रत्वाद्विसर्गाभावः । उणादिवचनात् परिं भूमिं गृह्णाति उप्रत्यये परियः, तस्य सम्बो० हे परिप्र - हे भूमिग्राहक ! 'ई' इति सम्बोधनेऽव्ययः ।
इन्द्रे - भा - ऽश्व-शुक- प्लवा - हि - पवन - स्वर्णा शु-लोकान्तरे भारिबन कपीन्दु पीत-गरुड - श्री-शुक्र- विष्ण्वऽर्कजैः । सूत - स्कन्द - शनी-श- वंश - वरुण प्राणाऽग्नि-भीताऽसितै
?
रत्थस्त्वां हरिजैः क्रमाज्जिनपते ! त्रिंशन्मितैः स्तौम्यह ||१|| मितिवचनात् हरिर्गजः, तस्याऽयं अणि हारः, तं हारं - गजसम्बन्धिनं ईदृशं स्व इति वर्णं याति डप्रत्यये स्वयः, ईदृशः यः न्-व्यञ्जननकारः तथा दरिद्रोनः । दरिद्रशब्देन उनःहीनः यः पः- पकारस्तेन राजते डप्रत्यये यः सः स्वयन्दरिद्रोनपरः - स्वप्न इति सिद्धम् । ततः तं स्वयन्दरिद्रोनपरं स्वप्नं या स्त्री आर-प्राप लेभे इत्यर्थः । यत्तदोर्नित्यसम्बन्धात् सा स्त्री परान् - उत्तमान् उत्तमपुरुषान् । अथवा पाःप्रोढाश्च ते रा-नराश्च पराः - अन्यपुरुषापेक्षया प्रौढपुरुषाः अच्चक्रिप्रभृतयः तान् परान् कर्तुं निष्पादयितुं, ईश्वरी समर्था स्यात् ।
For Private And Personal Use Only

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120