Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहेश्वरवर्णनम्]
वचनात , आ-समन्तात् , रम्भा गोशब्दो यासां ताः आरम्भागावो यस्मात् सः तं परिग्लहारम्भम् । गोविन्देन गवां रक्षार्थ गोवर्द्ध'नगिरिः निपतन्निवारितः इति शैवमतेऽस्तीतितद्वर्णना ॥४८॥
अर्थद्वयेन विष्णुं व्यावर्ण्य महेश्वरं वर्णयतिपरिग्रहारमग्नास्तारयेयुः कथंपराऽन् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥४९॥
व्याख्या--अस्तः-क्षिप्तः ‘आ विधातरि मन्मथ' इति महीपवचनात् आ-मन्मथो येन तस्य सम्बो. हे अस्ता !। र:-कामः, तस्य यो-यमतुल्यः, विध्वंसकत्वात् तस्य सम्बो हे रय ! । अथवा आरं-अरिसमूहो गजपुषपुरानङ्गादिः, तत्र यो-यमः स तस्य सम्बो। हे आरय! । के-शिरसि 'थः पुंस्यूमिगिरीन्दुषु ' इति नानार्थरत्नमालावचनात थः -इन्दुः, तेन परः-प्रकृष्टः सः कथंपरः, तस्य सम्बो० हे कथंपर ! हे ईश्वरः-महेश्वर !। चित्रत्वात् विसर्गाभावः । परि-समन्तात् , रलयोरैक्यात् ग्लायति डप्रत्यये परिग्लः 'हः शूलिनि करे' इत्येकाक्षरवचनात हः-शङ्करो यस्मात् सः परिग्लहः, ईदृशो यः ‘आ विधातरि मन्मथे' इति महीपवचनात् आःमन्मथः, तस्य ' आरम्भस्तु वधदर्पयो’ रित्यनेकार्थात् आरम्भो-दर्पः, तं परिग्लहारम्भ, परं-दूरं कर्तुं स्वयं-आत्मना त्वं न दरिद्रः-समर्थ इत्यर्थः । त्वं किंभूतः ? अकते-कुटिलं गच्छति क्विपि अगकुटिलगामी कथं न ? वैरिणामपीप्सितवरप्रदातृत्वात् सरल इत्यर्थः । पुनः किंवि०? इयुः । इ:-कामस्तत्र ते लुग्वे 'ति पूर्वपदलोपात् युःमृगयुः, सन्तापकत्वात् व्याधतुल्य इत्यर्थः । त्वं पुनः किंवि० ?
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120