Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसिंहलक्ष्मी-स्त्रग्-चन्द्रस्वप्नवर्णनम् ]
९७ ऋषभस्वप्नं व्यावर्ण्य सिंहस्वप्नं वर्णयतिपरिग्रहेत्यादि । व्याख्या-प्रथमस्वप्नवत् सिंहस्वप्नेऽपि ज्ञेया। नवरं हरिः-सिंहः, तस्याऽयं हरिः-हरिसम्बन्धी, तं हार-हरिसम्बन्धिनं स्वयन्दरिद्रोनपर स्वप्नं या स्त्री आर-लेभे, यत्तदोनित्यसम्बन्धात् सास्त्री परान्-उत्तमपुरुषान् कर्तु-जनयितुं, ईश्वरी-समर्था स्यात् ॥१३॥
सिंहस्वप्नं व्यावर्ण्य लक्ष्मीस्वप्नं वर्णयति
परिग्रहेत्यादि । व्याख्या-प्रथमस्वप्नवत्तुर्य स्वप्नेऽपि ज्ञेया । नवर 'इन्द्रेभाश्वशुके त्यादिकाव्ये हरिशब्दः श्रीशब्दवाचकोऽस्ति । ततो हरिलक्ष्मीः, तस्याः अयं अणि हारः, तं हार-लक्ष्मीसम्बन्धिनं स्वयन्दरिद्रोनपर स्वप्नं इत्यर्थः, या स्त्री आर-लेभे, यत्तदोनित्यसम्बन्धात् सा स्त्री परान्–उत्तमपुरुषान् , कर्तु-जनयितुं, ईश्वरी स्यात् ॥१४॥
लक्ष्मीस्वप्नं वर्णयित्वा स्रग्स्वप्नं वर्णयतिपरिग्रहारम्भमन्नास्तारये युः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥९५॥
व्याख्या-कश्चित् पुमान् जायां प्रति स्रग्स्वप्नमाहात्म्य ब्रूते‘जनी जाया परिग्रह ' इत्यभिधानचिन्तामणिवचनात् परिग्रहोजाया, तत्सम्बोधनं हे परिग्रह-हे जाये !। ई-श्रीः, तया युक्तःशुः-- चन्द्रः, तद्वत् रः-तीव्रः, नबो योगे अरः-अतीव्रः सौम्यः, तस्य सम्बो० हे ईश्वर-हे श्रीचन्द्रसौम्य ! । चित्रत्वाद्विसर्गाभावः । अग्शब्दस्य नो-बन्धरतेन असते-दीप्यते, तं वा असते-गच्छति वा
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120