Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसुपार्श्वजिनवर्णनम् ] रिद्रशब्दरहितः पः-पकारो यस्य सः स्वयन्दरिद्रोनपः तस्य सं०] पकारस्य अकारेण सह सन्धौ कृते ‘सुपा' इतिसिद्धम् । रःरेफात् अमीः-मी इत्यक्षरवर्जितः श्वइति वर्णः यस्य सः रमीश्वः, ततः कर्मधारये संबोधने च स्वयन्दरिद्रोनपरमीश्व[तस्य सम्बो० हे रमीश्व!] एवं हे सुपार्श्व इति सिद्धं । हे प-हे प्रौढ ! त्वं रान्-नरान् रीकर्तु-कामीकर्तुं ईश्वरोऽसि । कोऽर्थः ? धर्मधर्मिणोरभेदोपचारात् अकामिनो नरान् कामिनो निर्मातुं समर्थ इत्यर्थः । इह तु कामः पुमर्थः प्रतिपादितः, उपलक्षणत्वात् धर्मार्थपुमर्थावपि ज्ञेयौ। त्वं किंवि० ? भीमो भीमसेनवत् युः-मित्रयुः मित्रवत्सल इत्यर्थः । त्वं पुनः किंवि० १ तां-लक्ष्मी राति-ददाति डप्रत्यये तारः इत्यनेन अर्थपुमर्थदोऽपि भगवानस्तीत्युक्तम् । ए इत्यामन्त्रणे । रान् किंवि० ? 'आ विधातरि मन्मथ ' इतिमहीपवचनात् आ-कामः तथा ' आ श्रिया मितिशिलोच्छवचनात् आ-लक्ष्मीः तयोः 'रलयोरेक्यात् ' लम्भः-प्राप्तिः (आरम्भः-उद्यमः) तत्र मग्ना-निमग्नाः तान् आल(र)म्भमन्नान्-अर्थकामकाङ्कक्षकानित्यर्थः । चित्रत्वादनुस्वोराभावः । कथमित्यव्ययः सम्भवे ॥१२॥ परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्व ! यंदरिद्रोन ! परमीश्वरीकर्तुमीश्वरः ॥१३॥ व्याख्या-सु-शोभना, नाममालावृत्तौ 'या' इत्यस्य ई आ व्याख्यानात् आ-लक्ष्मीः समवमृतिरूपा यस्य सः तस्य सम्बो० हे स्व ! भावप्रधाननिर्देशात् दरिद्रत्वेन ऊनो-हीनः दरिद्रोनः, तस्य सम्बो०
१ रकारो व्यञ्जनत्वात् र इति पञ्चम्यैकवचनं.
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120