Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे परिग्रहारम्भमग्नास्ताऽऽर ये युः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥६१|| व्याख्या- अक् शब्दस्य नो-बन्धस्तत्र अस्तः-क्षिप्तः, अकारो यस्य नाम्नि सः अग्नास्ताः 'अकः' इति सिद्धं, भीमो भीमसेनवत् अकः-अकबरः, तस्य सम्बो० हे अग्नास्ता-हे अकबर ! भवान् युः। ई-श्रीः, तया युक्ता 'ऋ पृथिव्या' मितिवचनात् ऋभूमिः, तस्याः युः-श्रीभूमेः परान्-प्रतिपक्षान् , स्वयमात्मनेत्यर्थः, 'अली भूषापर्याप्तिनिवारणे' ष्विति परोक्षायां रलयोरै क्यात् आलनिवारयामास 'यो वात-यशसोः पुंसी'ति विश्वलोचनतः येयशोनिमित्तं, 'निमित्तात् कर्मयोगे सप्तमी'। भवान् किंवि० ? परिग्रहाः-परेषां दाराः, 'आरम्भस्तु वधदर्पयो'रिति आरम्भःजीवानां वधः, समाहारे परिग्रहारम्भं 'परो दूरान्यश्रेष्ठशत्रु'ष्विति परं-दूरं, कर्तु-विधातुं, ईश्वरः-प्रभुरित्यर्थः । भवान् किंवि० ? न दरिद्रः- नकारस्य निषेधार्थत्वात् अदरिद्र इत्यर्थः । भवान् पुनः किंवि० ? इ-श्रीः, तथा 'ईश्वरः स्वामिनि शिवे मन्मथ' इति ईश्वरः-कामः, ई च ईश्वरश्च ईश्वरौ-अर्थकामौ तौ विद्यते यस्येति स ईश्वरी-अर्थकामवानित्यर्थः । केन-सुखेन, थो-भीत्राणं यथा स्यात्तथा । कथमिति क्रियाविशेषणम् ॥६१।। श्रीअकबरनृपं व्यावर्ण्य साधारणनृपं वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं परान । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥६२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120