Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ [ शतार्थविवरणे शसयौरैक्यात् स्ववत् राजन्ते डप्रत्यये स्वराः, अस्वरान् श्वरीकर्तुं ईश्वरोऽसि । त्वं किं कुर्वन् ? ई-श्रीः, तया युक्ता ऋ-भूमिः, तस्याः युः-श्रीभूमेः, का-आत्मानः, तथा था-भूधराः मेर्वादयः समाहारे कथं । सु-अतिशयेन, अयन्-' गत्यर्था ज्ञानार्था' इतिवचनात् विदन्जानन्निति स्वयन् । स्वयमित्यस्य 'यमा यपेऽस्ये ति सूत्रेण स्वयन्निति सिद्धम् । त्वं किंवि० ? ऋ पृथिव्यां देवमातरी' तिमहीपवचनात् ऋ-पृथ्वी, तामेव एति यति क्विपि रित्-सिद्धशिला, तत्र षट्कायानां मध्ये केवलपृथ्वीकायस्यैव सद्भावात् । यत उक्तं च* पुढविआयणस्सइ बारसकप्पेसु सत्तपुढवीसु पुढवी जा सिद्धसिले' तिवचनात् । ततः तस्यां राजते डप्रत्यये रिद्रः । अथवा ऋ-पृथिवी, तस्या एव भावे क्विपि इत्-गमन यत्र सा रित्-सिद्धशिला प्राग युक्त्या । शेषं प्रागवत् व्याख्यानम् ॥४०॥ श्रीसिद्धं वर्णयित्वा तृतीय परमेष्ठिनं श्रीसुरिं वर्णयति-- परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयंदरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥४१॥ व्याख्या-सू इति वर्णात् न विद्यते यन्दशब्दो यत्र सः स्वयन्दः, ईदृशो रिः-रिकारः, तं द्रमति-गच्छति डप्रत्यये स्वयन्दरिद्रः। सूरिरितिसिद्धम् । तस्य सम्बो० हे स्वयन्दरिद्र-हे सूरे ! 'उ' इत्यामन्त्रणे, त्वं परान्-अन्यान्-तारय-निस्तारय । त्वं किंवि० ? न परिग्रहारम्भमग्नाः । परिग्रहो-धनधान्यादिः, आरम्भ:-कृषिवाणिज्यादिः, तत्र मग्न आस्ते-तिष्ठति क्विपि परिग्रहारम्भमग्नाः, नकारस्य निषेधार्थत्वात् अपरिग्रहारम्भमग्ना For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120