Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ [ शतार्थविवरणे या' मिति शिलोञ्छवचनात् आ-श्रीः, तस्याः सम्बोधने हे ए-लक्ष्मीतुल्ये ! । कस्याः ? ई-श्रीः, तया युक्ता या 'ऋ पृथिव्यां देवमातरीतिमहीपवचनान् ऋ - पृथ्वी, तस्याः युः श्रीभूमेः श्रीजगत इत्यर्थः । कोऽर्थः ? रत्नश्रेणिरेव जगतो लक्ष्मीरित्यर्थः । त्वं शसयोरैक्यात् स्वःस्वर्गस्य, ई-लक्ष्मीः कथं अ-नाऽसि, अपितु लक्ष्मीरसीत्यर्थः । बृहन्न्यासे चतुर्दश स्वरा निषेधार्थे प्रोक्ताः सन्ति । ततः अकारः नेत्यर्थवाचक इत्यर्थः । त्वं किंवि० ? परान् उत्तमान् - उत्तमपुरुषान् । यद्वा पाः- प्रौढाश्च ते रा-नराश्च पराः तान् परान् प्रौढनरान् कर्तृ कार्य कारणोपचारात जनयितुं ईश्वरी समर्थत्यर्थः । त्वं पुनः किंवि० ? स्वयमात्मना । न दरिद्रा - नकारस्य निषेधार्थत्वात् अदरिद्रा श्रीमतीत्यर्थः । परं - केवलं श्रेष्ठं वा, क्रियाविशेषणत्वान्नपुंसकत्वम् 'उ' इत्यामन्त्रऽव्ययः || १०४ || त्रयोदशं स्वप्नं वर्णयित्वा चतुर्दशं वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं प ! रान् । स्वयं दरिद्रो ! न परमीश्वरीकर्तुमीश्वरः || १०५ || व्याख्या -- परिग्रहेषु दारेषु असन्ते - दीप्यन्ते क्विपि परिय K हासः, ईदृश्यः रम्भा अप्सरसो येषां ते परिग्रहारम्भाः - देवाः, तेषां मनं - भावे प्रत्यये मज्जनं - स्नानं तस्मै, तथा आस्ते - उपविशति क्विपि आः तद्भावः आस्ता- उपवेशनं तस्यै, रलयोरक्यात आलयोवसतिर्यः : सः, तस्य सम्बो० हे परिग्रहारम्भमग्नास्तालय ! | इत्यामन्त्रणे । देवा हि वह्नौ वसन्तीति शेवमतम् । ततो देवानां स्नानायाऽवस्थानाय च वहिनः वसतिः (हे वसते ! ) ई - श्रीः, तया C इ For Private And Personal Use Only ,

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120