Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
श्रोचन्द्रवर्णनम् ] विद्यते यस्मिन् स दरी-भययुक्तः । दिवा हि काकेभ्यो घूको बिभेति । ततः दरी चासौ द्रोणपरश्चेति दरिद्रोणपरः तं दरिद्रोणपरं, दिवा भययुक्तं घूकं रात्रौ ईश्वरीकर्तुं ईश्वरः-प्रभुरित्यर्थः। चन्द्रोदये हि घूकस्यैश्वर्यं भवतीत्यर्थः । भवान् किंवि०.? ई-श्रीः, तदर्थं 'उकार:क्षत्रिये नेत्रे हरमौलौ हर' इति नानार्थरत्नमालावचनात् उर्हरमौलियस्य स युः । भवान् पुनः किंवि० ? अ:-कृष्णः, स इवाचरति शतरि अन् ‘आ विधातरि मन्मथ' इति महीपवचनात् आ-स्मरः, तत्र अन्-कृष्णतुल्य इत्यर्थः। यथा कृष्णात् काम उत्पद्यते तथा चन्द्रादपीत्यर्थः। 'इ' इति सम्बोधनेऽव्ययः । कथमिति सम्भवेऽव्ययः। स्वयमात्मनेत्यर्थः ।।७।।
परिग्रहारम्भमग्नास्ता रयेयुः कथं परान् । स्वयं दरिद्रोन ! परमीश्वरीकर्तुमीश्वरः ॥७१॥
व्याख्या-परि-समन्तात् , 'ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुन्तुद्दे' ॥१॥ इत्यनेकार्थवचनात् ग्रहःउपराग विधुन्तुदो वा, तस्य य आरम्भ-उपक्रमस्तत्र मग्नो-निमग्न आस्ते यः सः क्विपि परिग्रहारम्भमग्नाः, तस्य सम्बो० हे परिग्रहारम्भमग्नाः-हे चन्द्र ! । दरो-भयं, विद्यते येषां ते दरिणः-भीतियुक्ताः, ईदृशाः नणयोरैक्यात् द्रोणाः-काकाः, यस्मात् स दरिद्रोणः, तस्य सम्बो. हे दरिद्रोण ! । चन्द्रोदये हि दृप्ताः कौशिकाः काकान भीतिभाजो विदधतीत्यर्थः । भवान् ‘रा दीप्ति'रित्युणादिवचनात् रा. प्रभा, तया रया-प्रभया, परान्-अन्यान् , ईश्वरीकर्तु-श्वेतवर्णेन महेश्वरीकर्तुं, परं-प्रकृष्टं यथा स्यात्तथा ईश्वरः-प्रभुरित्यर्थः । कोऽर्थः ? हे
For Private And Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120