Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसुमति-पद्मप्रभजिनवर्णनम् ] आरः-आगमनं यस्य स आर-इकार इत्यर्थः । परिग्रहेण-परिकरेण अर-अत्यर्थं, भाति-राजते डप्रत्यये तस्य सम्बोधने हे परिग्रहारम्भ ! हे प-हे प्रौढ ! 'पः प्रौढे पवने पथीति सुधाकलशः । स त्वं न दरिद्रोऽसि । यत्र नान्यत् क्रियापदं तत्रास्ति भवतीत्यादि क्रियापदं प्रयोक्तव्यमिति ज्ञेयम्। त्वं किंभूतः ? युः। ई-कामस्तत्र उ:-शङ्करः यत्तदोनित्यसम्बन्धात् यं त्वां स्वामिनं रात क्वचिदादानेऽपि शतरि रान्-आददत् लक्षणया अङ्गीकुर्वन् ईश्वरो-महादेवः, ईश्वरी भवतिसनाथो भवति, ईश्वरो-नाथोऽस्यास्तीति ईश्वरी । यं किंवि० ? कःसूर्य; तद्वत् ऋतुः-प्रभा यस्य सः कर्तुः तं कर्तुं 'ऋतुः स्यादातवे वैरे वसन्तादिषु भासि च' इति विश्वलोचने । यं पुनः किंवि०? केन-सुखेन, थो-भीत्राणं यस्मात् स कथः तं, कथं पुनः किंवि० ? परं-श्रेष्ठं ॥ १० ॥ इत्यर्थद्वयेन श्रीसुमतिजिन व्यावर्ण्य श्रीपद्मप्रभजिनं वर्णयतिपरिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरि द्रोनपरमी श्वरी कर्तुमीश्वरः ॥११॥ व्याख्या द-दकारः, तस्य तत्र वा यो रो-रकारस्तेन ऊनःरहितः सः-द्रोनः । तथा पं-पकारं 'कैगैरै शब्दे ' इति रायतिवक्ति डप्रत्यये परः, द्रोनश्चासौ परश्च द्रोनपरः, ईदृशो मः-मकारोऽस्यास्तीति स द्रोनपरमी । एतावता पद्म इति सिद्धम् । भीमो भीमसेनवत् पद्मः-पद्मप्रभजिनः । दरि कर्तुं ईश्वरोऽस्ति । दानिकलत्राणि, राः-द्रव्यं समाहारद्वन्द्वे दरि, तत् विधातुं समर्थ इत्यर्थः। इदमैहिकफलं, उपलक्षणत्वात् मोक्षफलमपीत्यर्थः । पद्मः किंभूतः ? For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120