Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
१२६
रायचन्द्रजनशास्त्रमालायाम् [दशमोऽधिकारः, धर्मकथा आक्षेपणी विक्षेपणी विमार्गबाधनसमर्थविन्यासा ।
श्रोतृजनश्रोत्रमनःप्रसादजननी यथा जननी ॥ १८२ ॥ चतुर्विधा धर्मकथाप्रस्तुतेति तच्छेषमाह :-- चार प्रकारकी कथाके शेषांशको बतलाते हैं :--
संवेदनी च निर्वेदनी च धां कथां सदा कुर्यात् । स्त्रीमक्तचौरजनपदकथाश्च दूरात्परित्याज्याः॥ १८३ ॥
टीका-आक्षिपत्यावर्जयत्यभिमुखीकरोति या सा आक्षेपणी कथा शृङ्गारादिप्राया । विक्षिपति भोगाभिलाषाद्या कामभोगेषु वैमुख्यमापादयति सा विक्षेपणी। विमार्गः सम्यग्दर्शनादित्रयविपरीतःसुगतादिप्रदर्शितस्तस्य बाधनं दोषवत्वख्यापनम् । विमार्गबाधने समर्थः शक्तो विन्यासो रचना यस्याः सा विमार्गबाधनसमर्थविन्यासा । शृणोतीति श्रोता जनो लोकः श्रोतृजनस्तस्य श्रोत्रं मनश्च तयोः प्रसादो हर्षों जन्यते यया सा श्रोतृजनश्रोत्रमनःप्रसादजननी। यथा जननी माता हितकारिणी सदुपदेशदायिनी स्वापत्यानां श्रोत्रमनसी प्रसादयति परितोषयति, तथैषापीति सम्बन्धः॥ १८२ ॥
टीका-सम्यग्वेद्यते भयं ग्राह्यते श्रोता यया सा संवेदिनी कथा । नरकगतावुष्णा वेदनाः शीताश्च, न चास्त्यक्षिनिमेषमात्रमपि तस्या वेदनाया विच्छेदः । तत्र तादृशीं वेदना. मनुभवतां जघन्येन दसवर्षसहस्राण्युत्कर्षण त्रयस्त्रिंशत्सागरोपमाणीति । तियग्योनावपि शीतोष्णक्षुतृषातिगुरुभारसंतापजं दुःखं वाहनताडनदमनच्छेदनादि चेति । मानुषेष्वपि काणखअवामनजडवधिरान्धकुब्जविकृताकृतित्वानि ज्वरकुष्टाशोषकासातिसारहृद्रोगवेदनाश्च । तथा प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्यदौर्मनस्यवधबन्धनाभियोगादिदुःखानुभवः । देवेषु चोत्कर्षविशेषदर्शनादात्मनश्चतद्धानेदुःखानुभवः । तथा बलवता देवेनाभियोगादन्येऽल्पपुण्याः करिवृषभाश्वमयूरादिरूपाणि कारिताः सन्तो वाह्यन्ते प्रतिसेव्यन्ते च । तथा च्यवनकाले आयुषिषण्मासावशेषे उपपत्तिस्थानानि वीभत्सानि विकृताकृतीन्यवधिनालोक्य महदशम भजन्ते। अतश्चतुर्विधादपि संसारादुद्विजते मोक्षार्थमेव च घटत इति । निर्वेदं नीयते यया कामभोगेषु सा निवेदनी । इत्वराः कामभोगा न तृप्तिमाधातुमात्मनः पृत्यलाः । सदा क्लिन्नश्च स्त्रीव्रणो दुर्गन्धिरशुचिरत्यन्तजुगुप्सितस्तत्र चारतिरित्येवं पामन इव कंडूपरिगतकण्डूयं मोहोदयात्सुखमिति मन्यते, अतो निर्विण्णः परित्यज्य कामभोगान् निःसङ्गः सिद्धिवध्वाराधने प्रवर्तत इति। एवमेतां संवेदनीं निर्वदनीं च धा कथां सदा कुर्यात्, धर्मादनपेतामित्यर्थः । स्त्र्यादिकथाश्च दूरात् परित्याज्याः । तत्र स्त्रीकथा, रूपयौवनलावण्यवेषभाषाचमणानि योषितां वर्णयति यया सा स्त्रीकथा, भक्तमाहारस्तत्कथा, ओदनव्यञ्जनखण्डखाद्यादिपरिनिष्ठितान्ता भक्तकथा । चौरा मलिम्लुचा अमुना प्रकारेण खात्राणि खनन्ति, इष्टकाश्च गालयन्ति, तालकान्युद्धाटयन्तीति चौर

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242