Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 26
________________ भौदारिकयोगादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् [ २३ पुढविकाइए णं भंते ! पुच्छा, बायरपुढविकाइए त्ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण सत्तरि सागरोवमकोडाकोडीतो, एवं बादरआउक्काइए वि जाव बायरतेउकाइए वि, बादरवाउकायइए वि | xxxx पत्तेयसरीरबायरवणप्फइकाइए णं भंते ! पुच्छा, गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ । बादरनिगोदे णं भते ! बायरनिगोए त्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तरि सागरोवमकोडाकोडीतो।" इति । तदेवं भणिता कायमार्गणाभेदानां कायस्थितिस्तत्साम्याच्चान्यासामपि मार्गणानाम् ॥१४॥ सम्प्रत्यवशिष्टानां योगमार्गणानां स्त्रीवेदमार्गणायाश्च कायस्थिति वक्तकाम आहबावीससहस्ससमा देसूणुरलस्स तिसमया णेया। कम्माणाहाराणं पल्लसयपुहुत्तमित्थीए ॥१५॥ (प्रे०) 'बावीस.' इत्यादि, 'द्वाविंशतिसहस्रसमा देशोनाः' अन्तर्मुहूर्तन्यूना द्वाविंशतिसंहस्रवर्षा औदारिकस्य' औदारिककाययोगस्योत्कृष्टकायस्थितिर्भवति । इयमत्र भावना-कश्चिद् द्वाविंशतिसहस्रवस्थितिकखरबादरपृथिवीकायिकेपत्पद्यते, पृथिवीकायिकस्योत्कृष्टतो भवस्थितेविंशतिसहस्रवर्षप्रमाणत्वात् , यदुक्तं श्रीप्रज्ञापनासो-"पुढविकाइया णं भंते केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बाबीसं वाससहस्साई" इति । उत्पादकाले चाऽन्तर्मुहूतं यावत् करणा-ऽपर्याप्ता-ऽवस्थायां तस्यौदारिकमिश्रकाययोगो भवति, ततः परमाजीवनमौदारिककाययोगो भवति, मरणानन्तरं चौदारिकमिश्रकाययोगः कार्मणकाययोगो वा सम्पद्यते, तेनौदारिककायस्यैकजीवाश्रयोत्कृष्ट कायस्थितिरन्तर्मुहूर्त न्यूनद्वाविंशतिसहस्रवर्षाणि लभ्यते ।। न चा-ऽसंख्येयवर्षायुष्कान् नरतिरश्चोऽधिकृत्यौदारिककाययोगस्योत्कृष्टकायस्थितिरन्तर्मुहूर्तन्यूनत्रिपल्योपमाणि कुतो न लभ्यते, तेषां भवस्थितेस्तावन्मात्रत्वादिति वाच्यम् , तेषां प्रत्यन्तमहतं योगपरावृत्तेः । तथाहि-असंख्येयवर्षायुष्काणां जीवानां स्वपर्याप्तिषु पूरितासूत्कृष्टतोऽन्तर्मुहूर्तावमौदारिककाययोगतो मनोयोगो वचनयोगो वा भवति, मनोयोगत औदारिककाययोगो वचनयोगो वा भवति, एवं वचनयोगतो योगान्तरं भवति । इत्थमसंख्येयवर्षायुषां जीवानां मनोयोगवचनयोगयोरपि सद्भावादुत्कृष्टत औदारिककाययोगस्योत्कृष्टकालो देशोनत्रिपल्योपमानि न लभ्यते, किन्त्वन्तमुहूर्तम् । एकेन्द्रियाणां तु मनोवचनयोगाभावात् केवल औदारिककाययोगो देशोनद्वाविंशतिसहस्रवर्षाणि यावदवतिष्ठते । 'तिसमया' इत्यादि,त्रिसमयाः 'ज्ञेया' एकजीवाश्रितोत्कृष्टकायस्थितिः, कयोः १ इत्याह'कम्माणाहाराणं' ति, 'कार्मणाऽऽनाहारयोः' कार्मणकाययोगमार्गणाया अनाहारकमार्गणायाश्च प्रत्येकम् । ननु सिद्धानाश्रित्या-ऽनाहारकमार्गणाया उत्कृष्टकायस्थितिः साद्यपर्यवसिता लभ्यते, तत्कथं त्रिसमयप्रमाणैवोच्यत इति वाच्यम् ,बन्धक नरपेक्षकायस्थितेरग्रेक्ष्यमाणत्वादिह प्रकृतिबन्धापेक्षया कार्यास्थतेरुक्तत्वात् , सिद्धानां च प्रकृतिबन्धा-ऽभावात् । सयोगिकेवलिनः समाश्रित्या३ब

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60