Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 52
________________ भष्कायादीनामुत्कृष्टभवस्थितिः] भवस्थितिप्रकरणम् [४९ संवच्छराई । xxx तेइ दियाणं केवइयं कालं ठिई पन्नता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं एगुणवन्नं राईदियाइ Ixxxx चरिंदियाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा ।" इति । 'एवं' एवंशब्दस्य साम्यार्थकत्वाद् द्वादशवर्षेकोनपश्चाशदिवसपण्मासा यथासंख्यं 'समाप्तानां पर्याप्तानां तेषां' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामुत्कृष्टभवस्थितिर्भवति, उक्तं च श्रीपञ्चसंग्रहवत्तौ-"तथा पर्याप्तद्वीन्द्रियाणामुत्कृष्टा भवस्थितिादशवर्षाणि, पर्याप्तत्रीन्द्रियाणामेकोनपश्चाशदिवसाः, पर्याप्तचतुरिन्द्रियाणां षण्मासाः।" इति ॥३॥ सम्प्रत्यप्कायसामान्यादीनामुत्कृष्टभवस्थितिं वक्तु काम आह दगवाऊणं कमसो वाससहस्साणि सत्त तिण्णि भवे । तिदिणाऽग्गिस्सेवं सिं बायर-बायरसमत्ताणं ॥४॥ (प्रे०) 'दगवाऊणं' इत्यादि, 'दकवाय्वोः' अप्कायसामान्य-वायुकायसामान्ययोः क्रमशः सप्तवर्षसहस्राणि त्रीणि वर्षसहस्राणि च भवेत् ' उत्कृष्टभवस्थितिः स्यात् । इदमुक्तं भवति-अप्कायिकस्य सप्तसहस्रवर्षाणि (७०००) वायुकायिकस्य च त्रिसहस्रवर्षाणि (३०००) उत्कृष्टभवस्थितिर्भवति , यदुक्तं श्रीप्रज्ञापनासूत्र-“आउकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं , उक्कोसेणं सत्त-वाससहस्साइ । xxx वाडकायाणं भंते ? केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि वाससहस्साई।" इति । 'तिदिणा' इत्यादि ; ' त्रिदिनाः' त्रयो दिवसाः ' अग्नेः' तेजःकायस्योत्कृष्टभवस्थितिर्भवति , उक्तं च श्रीमज्ञापनासूत्र-"तेउकाइयाणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं सक्कोसेणं तिन्नि राइ दियाई।" इति । एवं' एवंशब्दसाम्ये, यथा-ऽकायसामान्यस्य सप्तसहस्राणि वर्षाणां वायुकायसामान्यस्य च वर्षाणां त्रिसहस्राणि तथा तेजाकायस्य त्रयोऽहोरात्रा उत्कृष्टभवस्थितिरुक्ता, तथैव बादर-पादरसमाप्तानां तेषां तच्छशब्दस्य पूर्ववस्तुपरामर्शित्वाद् अप्काय-वायुकाय-तेजःकायानामुत्कृष्टभवस्थितिर्भवति । इदमुक्तं भवति-बादराप्कायस्योत्कृष्टभवस्थितिः सप्तसहस्रवर्षाणि, बादरवायुकायस्य च त्रिसहस्रवर्षाणि वादरतेजःकायस्य च त्रयोऽहोरात्राः, प्रज्ञापनासूत्रो तथाऽभिहितत्वात् । अक्षराणि त्वेवम्-"बायराउकाइयाणं पुच्छा,गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई।" xxxबायरते उकाइयाणं पुच्छा,गोयमा ! जहन्नणं अंतोमहत्तं, उक्कोसेणं तिन्नि राइ दियाई। xxx बायरवाउकाइयाणं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि वाससहस्साई।" इति । बादराकायिकादीनां यथोक्तभवस्थितिः पर्याप्तबादरानाश्रित्य संभवति, अपर्याप्तानामान्तमौहर्तिकस्थितिकत्वात् । तेन पर्याप्तवादराप्कायस्याऽप्युत्कृष्टभवस्थितिः सप्तसहस्रवर्षाणि, पर्याप्तबादरवायुकायस्य त्रिवर्षसहस्राणि पर्याप्तवादरतेजाकायस्य च त्रयोऽहोरात्राः, तथा चोक्तं पञ्चसंग्रहवृत्तौ-"बादरपर्याप्ताप्कायिकानां सप्तसहस्रवर्षाणि बादरपर्याप्ततेजस्कायिकानां त्रयोऽहोरात्राः, पर्याप्तषादरवायुकायिकानां त्रीणि वर्षसहस्राणि ।" इति ॥४॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60