Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 24
________________ पर्याप्तत्रीन्द्रियादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम् [ २१ (०) 'पज्जत०' इत्यादि, 'पर्याप्तकत्रीन्द्रियवायर तेजसोः ' पर्याप्तस्य प्रत्येकं योजनात् पर्यासत्रीन्द्रियमार्गणायाः पर्याप्तबादर तेजः काय मार्गणायाश्च ' संख्येयाः' संख्याताः 'दिवसाः ' अहोरात्राः 'भवति' एकजीवाश्रयोत्कृष्टकाय स्थितिः सम्पद्यते यदुक्तं श्रीप्रज्ञापनासूत्रे - " तेइ दियपज्जत्तए णं पुच्छा, गोयमा ! जहन णं तोमुहुत्तं उक्कोसेणं संखेजाई राइ दियाई । xxx ते उकाइयपज्ज० पुच्छा, गो० ! ज० अंतो०, उ० संखेज्जाइ राइ दियाइ ।" इति । 9 पुच्छा, अथ पर्याप्त चतुरिन्द्रियस्य प्रकृतकाय स्थिति भणति - संखिय ० ' इत्यादि, ' संख्यमासाः ' संख्यातमासाः 'समाप्तचतुरिन्द्रियस्य' पर्याप्तचतुरिन्द्रियमार्गणास्थानस्य ' भवेत्' एकजीवाश्रितोत्कृष्टकाय स्थितिः स्यात् उक्तं च श्रीप्रज्ञापनासूत्र आर्यश्यामपादैः - "चडरिंथिपज्जत्तए णं भंते ! गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जा मासा ।" इति ॥ १२ ॥ सम्प्रति पञ्चेन्द्रियादिमार्गणास्थानानामेकजीवाश्रितोत्कृष्टकायस्थितिं वक्तुकामः प्राहपंचिंदियचक्खूण- ऽहियुदहिसहस्सं तसस्स तं दुगुणं । पज्जपणिदितसपुरिससण्णीणा - ऽयरसयपुहुत्तं ॥ १३॥ (प्रे०) 'पंचिंदिय०' इत्यादि, 'पञ्चेन्द्रियचक्षुषोः' पञ्चेन्द्रियसामान्यमार्गणायाश्चक्षुदर्शनमार्गणायाश्च प्रत्येकम् 'अधिकोद घिसहस्र' पूर्वकोटिपृथक्त्वेनाऽधिकम् उदधीनां = सागरोपमाणां सहस्रमेकजीवश्रितोत्कृष्टकाय स्थितिर्भवति, यदुक्तं श्रीप्रज्ञापनासूत्रे - 'पंचिदिएणं भंते ! पंचिदिए त्ति कालतो केवचिरं होइ ? गोयमा ! जहन्नणं भतोमुहुत्तं उक्कोसेण सागरोषमसहस्सं साइरेगं । xxxx चक्खुदंसणी णं भंते! पुच्छा, गो० ! जह० अंतो० उक्कोसेणं सागरोवमसहस्सं सातिरेगं ॥” इति । 'तसस्स' इत्यादि, 'सस्य' पर्याप्ताऽपर्याप्तविशेषणरहितस्य त्रसकायसामान्यमार्गणास्थानस्य 'तत्' तच्छब्दस्य पूर्ववस्तुपररामर्शित्वात् साधिकसागरोपम सहस्रं द्विगुणं, साधिकं सागरोपमसहस्रद्वयमित्यर्थः, एकजीवाश्रयोत्कृष्ट कार्यस्थितिरिति गम्यते । साधिकत्वं च संख्येयवषैर्बोध्यम्, उक्तं च प्रज्ञापनासूत्र काय स्थितिपदे - " XX X तसकाइय त्ति कालओ केवचिरं होइ ? गोयमा ! जद्दण्णेणं अंतोमुहुत्तं एक्कोसेणं दो सागरोवमसह साइं संखेज्जवास - Sब्नहियाई ।” इति । 'पज्ज' ० इत्यादि, 'पर्याप्तपञ्चेन्द्रियत्र स पुरुषसंज्ञिनां' कृतद्वन्द्वा एते षष्ठ्या निर्दिष्टाः, पर्याप्तशब्दस्य च द्वाभ्यामभिसम्बन्धात् पर्याप्तपञ्चेन्द्रियस्य = पर्याप्त पञ्चेन्द्रियमार्गणायाः पर्याप्तसस्य = पर्याप्तत्रस काय मार्गणायाः पुरुषस्य - पुरुषवेदमार्गणाया: संज्ञिन: - संज्ञिमार्गणायाश्च प्रत्येकम् 'अतरशतपृथक्त्वं' सागरोपमशतपृथक्त्वमेकजीवाश्रयोत्कृष्टकायस्थितिर्भवति, उक्तं च प्रज्ञापनासूत्रे - " पंचिदियपज्जतए त्ति कालतो केवचिर होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण सागरोमसयपुहुत्तं । इति । इह पर्याप्तत्र सकायादिमार्गणानां तु सागरोपमशतपृथक्त्वं सातिरेकं वक्तव्यं ग्रन्थान्तरेषु तथोक्तत्वात् । तथा चात्र प्रज्ञापनासूत्रम् २८ अ

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60