Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
अपगतवेदादीनामुत्कृष्ठकायस्थितिः ] कायस्थितिप्रकरणम् .
[ २५ भावना-देवगतितो नरकगतितो वा कश्चित् क्षायिकसम्यग्दृष्टिर्मनुष्येषु पूर्वकोटिवर्षायुष्कत्वेनोत्पद्यते । ततः सातिरेकवर्षाष्टकं व्यतिक्रम्य शीघ्रं क्षपकश्रेणिमारोहति, अनिवृत्तिकरणस्य बहुसंख्येयभागादुर्ध्वमवेदभावं प्राप्य सूक्ष्मसम्परायाचोर्धमकषायभावं यथाख्यातसंयमश्चासाद्य सयोगिकेवलिगुणस्थानके केवलद्विकं लब्ध्वा स्वायुष्कचरमान्तमुहृतं यावत् सयोगिकेवलित्वेन विहरति, तं जीवमाश्रित्याऽपगतवेदा-ऽकषाय केवलद्विक-यथाख्यातसंयमलक्षणानां पश्चानां मार्गणानामेकजीवविषयोस्कृष्टकायस्थितिः सातिरेकाऽष्टवर्षन्यूनपूर्वकोटिवर्षाणि लभ्यते । सयोगिकेवलिगुणस्थानकावं तु प्रकृतिबन्धाभावाद् नेहोपरितनकालः प्रस्तुतः।।
तथा यः पूर्वकोटिवर्षायुष्को वर्षाष्टकस्योपरि सर्वसंयममासादयति, तत आस्वभवचरमसमपमप्रतिपतितसंयमः संयतत्वेना-ऽवतिष्ठते, मृत्वा च देवलोकं गच्छति, तमाश्रित्य संयमसामान्यमार्गणाया उत्कृष्टकायस्थितिरेकजीवाश्रिता सातिरेकाष्टवर्षन्यूनपूर्वकोटिवर्षप्रमाणा लभ्यते । एवं सामायिक-च्छेदोपस्थापनीय-मनःपर्यवज्ञान-देशविरतिमार्गणानामप्युत्कृष्टकायस्थिति व्या। परिहारविशुद्धिकसंयमस्य प्रकृतकायस्थितिरेकोनत्रिंशद्वर्षन्यूना पूर्वकोटिवर्षाणां बोध्या, जघन्यतो-ऽपि परिहारविशु. द्धिकस्य यतिपर्यायस्य विंशतिवर्षमात्रत्वस्वीकारात् , यदुक्तम्-"परिहारविशुद्धिए णं भंते ! परिहारविशुद्धिए त्ति कालओ केनिचरं होइ ? गोयमा ! जहण्णेण एक्कं समय, उक्कोसेण देसूणाए एगुणतीसाए वासेहिं ऊणिया पुव्वकोटी।" इति ॥१६॥
सम्प्रत्यज्ञानादिमार्गणानामुत्कृष्टकायस्थितिं भणितुकाम आह
दुअणाणा-ऽजयमिच्छाणऽणाइणंता अणाइसंता य ।
साइसपजवसाणा तइया हीणद्धपरियट्टो ॥१७॥ (प्रे०) 'दुअणाणा०'इत्यादि,'द्वयज्ञाना-ऽयतमिथ्यात्वानाम् एते कृतद्वन्द्वाः पष्टया निर्दिष्टाः, द्वयज्ञानयोः मत्यज्ञानमार्गणा-श्रुताज्ञानमार्गणयोः, अयतस्य अविरतमार्गणास्थानस्य मिथ्यात्वस्य =मिथ्यात्वमार्गणायाश्चैकजीवाश्रिता कायस्थितिः 'अनाद्यनन्ता' अनाद्यपर्यवसिता 'अनादिसान्ता' अनादिसपर्यवसिता, चकारो व्यवहितसम्बन्धः समुच्चयार्थकच, स चोत्तरत्र सादिसपर्यवसाना चेति योजनीयः 'सादिसपर्यवसाना च' सादिसान्ता चेति त्रिविधा भवति । तत्रा-ऽभव्यमाश्रित्या ऽज्ञानद्वयमिथ्यात्वमार्गणानां प्रथमविकल्पः, सम्यक्त्वप्राप्त्यसंभवेन कदाचिदप्युक्तमार्गणाऽपरित्यजनात् । येन भव्येनाऽद्यापि सम्यक्त्वं नासादितम् , तमाश्रित्य द्वितीयविकल्पः, आगामिनि काले सम्यक्त्वप्राप्त्या प्रोक्तमार्गणास्थानानामुच्छेदात् । तृतीयविकल्पस्तु सम्यक्त्वतः प्रतिपतितं जीवं प्रतीत्य संभवति, यतः सम्यक्त्वतः पतितस्य प्रोक्तमार्गणानां कायस्थितेः सादित्वम् , उत्कर्षतो देशोनार्धपुद्गलपरावर्तपर्यन्तेऽवश्यं सम्यक्त्वप्राप्त्या कथितमार्गणानां विच्छेदात् सान्तत्वम् ,

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60