Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
प्रतिप्रस्तटं रत्नप्रभाशर्कराप्रभानारकाणां स्थितिः ] कायस्थितिप्रकरणम् जघन्या कायस्थितिर्भवति । तथाहि-शर्कराप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिरेकं सागरोपमम् (१), द्वितीयप्रस्तट एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ (१,३), तृतीयप्रस्तट एक सागरोपमं चत्वारश्च सागरोपमस्यैकादशभागा:(१,३), चतुर्थप्रस्तटे पभिः सागरोपमस्यैकादशभागैरधिकमेकं सागरोपमम् (१,), पञ्चमप्रस्तटे-ऽष्टभिः सागरोपमस्येकादशभागैरधिकं सागरोपमम् (१,६), षष्ठप्रस्तटे दशभिः सागरोपमस्यैकदशभागैरधिकमेकं सागरोपमम् (१९९), सप्तमप्रस्तट एकेन सागरोपमस्यैकादशभागेनाधिके द्वे सागरोपमे(२९) अष्टमप्रस्तटे द्वे सागरोपमे त्रयश्च सागरोपमस्यैकादशभागाः (२३,) नवमप्रस्तटे द्वे सागरोपमे पञ्च च सागरोपमस्यैकादशभागाः(२,५), दशमप्रस्तटे द्वे सागरोपमे सप्त च सागरोपमस्येकादशभागाः (२,६),एकादशे च प्रस्तटे नवभिः सागरोपमस्यैकादशभागैरधिके द्वे सागरोपमे (२१) ।
बालुकाप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिस्त्रीणि सागरोपमाणि (३), द्वितीयप्रस्तटे त्रीणि सागरोपमाणि चत्वारश्च सागरोपमस्य नवभागाः (३), तृतीयप्रस्तटे त्रीणि सागरोपमाण्यष्टौ च सागरोपमस्य नवभागाः (३), चतुर्थप्रस्तटे त्रीभिः सागरोपमस्य नवभागैरधिकानि चत्वारि सागरोपमाणि (४३), पञ्चमे प्रस्तटे सप्तभिः सागरोपमस्य नवभागैरधिकानि चत्वारि सागरोपमाणि (४५), षष्ठे प्रस्तटे पश्च सागरोपमाणि द्वौ च सागरोपमस्य नवभागौ (५४), सप्तमे प्रस्तटे पञ्चसागरोपमाणि षट् च सागरोपमस्य नवभागाः (५), अष्टमप्रस्तट एकेन सागरोपमस्य नवभागेनाऽधिकानि षट् सागरोपमाणि (६३), नवमप्रस्तटे च पञ्चभिः सागरोपमस्य नवभागैरधिकानि षट् सागरोपमाणि (६४) ।
पङ्कप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिः सप्त सागरोपमाणि (७), द्वितीयप्रस्तटे सप्त सागरोपमाणि त्रयश्च सागरोपमस्य सप्तभागाः (3), तृतीयप्रस्तटे षड्भिः सागरोपमस्य सप्तभागैरधिकानि सप्तसागरोपमाणि (5), चतुर्थप्रस्तटेऽष्टौ सागरोपमाणि द्वौ च सागरोपमस्य सप्तभागौ (८), पञ्चमप्रस्तटे पञ्चभिः सागरोपमस्य सप्तभागैरधिकान्यष्टसागरोपमाणि (८); षष्ठे प्रस्तटे नव सागरोपमाण्यकश्च सागरोपमस्य सप्तभागः (१), सप्तमप्रस्तटेच चतुर्भिः सागरोपमस्य सप्तभागैरधिकानि नवसागरोपमाणि (१)।
धूमप्रभायाः प्रथमप्रस्तटे नारकाणामेकजीवाश्रया जघन्यकायस्थितिर्दशसागरोपमाणि (१०), द्वितीयप्रस्तट एकादश सागरोपमाणि द्वौ च सागरोपमस्य पञ्चभागौ (११३), तृतीयप्रस्तटे द्वादश सागरोपमाणि चत्वारश्च सागरोपमस्य पञ्चभागाः (१२१), चतुर्थप्रस्तट एकेन सागरोपमस्य पश्चभागेनाऽधिकानि चतुर्दशसागरोपमाणि (१४३), पञ्चमप्रस्तटे च त्रिभिः सागरोपमस्य पञ्चभागैरधिकानि पञ्चदशसागरोपमाणि (१५५) ।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60