Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
सर्वार्थसिद्धादीनां जघन्यकायस्थितिनिषेधः ] कायस्थितिप्रकरणम्
[४१ तथा तद्ग्रन्थ:-"विजयवेजयंतजयन्तअपराजियाणं देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं बत्तीस सागरोवमाई।" इति ।।
सम्प्रति सर्वार्थसिद्धसुरादिमार्गणाः सम्पिण्डय तासां जघन्यकायस्थिति निषेधन्नाह'सव्वत्थः' इत्यादि, 'सर्वार्थाःऽचक्षुषोः" "समुदायेषु प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते" इति न्यायेन सर्वार्थस्य सर्वार्थसिद्धसुरमार्गणाया अचक्षुषः अचक्षदर्शनमार्गणायाश्च भव्या-ऽभव्योः' भव्यमार्गणाया अभव्यमार्गणायाश्च नास्ति 'लघुः' एकजीवाश्रया जघन्यकायस्थितिः । कथमेतदवसीयते ? इति चेत् , उच्यते-न तावत् सर्वार्थसिद्धसुरमार्गणाया जघन्यकायस्थितिः संभवति, तत्रत्यानां सर्वेषां समानायुष्कत्वात् , यदुक्तं प्रज्ञापनासूत्रे-सव्वट्ठसिद्धदेवाणं भंते ! केवतियं कालं ठिई पन्नत्ता ? गोयमा ! अजहणुक्कोसेणं तित्तीसं सागरोवमाई ठिई पन्नत्ता।” इति । तथाऽचक्षुर्दर्शन-भव्यत्वयोर्व्यवच्छेदे सति सयोगिकेवलिनां सिद्धानां च प्रतिपाताभावाद् न प्रोक्तमार्गणयोः सादिता लभ्यते, तेन न तयोर्जघन्यकायस्थितिर्भवति, जघन्यकायस्थितेराधन्तसापेक्षत्वात् । तथाऽभव्यमार्गणाया अपि जघन्यकायस्थितिर्न संभवति, आद्यन्ताभावात् ॥३१॥ .....
सम्प्रत्येकसमयप्रमाणजघन्यकायस्थितिकमार्गणाः संगृह्य प्राह
समयोऽत्थि पणमणवयणउरलदुगाहारविउवकम्माणं । इत्थीणपुसगाणं अवेअलोहाकसायाणं ॥३२॥ मणणाणोहिदुगविभंगसंजमसमइअछेअसुहुमाणं।
परिहाराहक्खायगसासणऽणाहारगाणं च ॥३३॥
(प्रे०) 'समयोऽस्थि' इत्यादि, 'समयः' एकसमयः 'अस्ति' एकजीवाश्रया जघन्या काय. स्थितिर्भवति, केषां मार्गणास्थानानाम् ? इत्याह-'पण.' इत्यादि, 'पञ्चमनोवचनौदारिकद्विकाहा. रकवैक्रियकार्मणानाम् एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, पञ्चशब्दश्च द्वाभ्यां सम्बध्यते,ततश्चायमर्थ:पञ्चमनसां=मनोयोगसामान्य-सत्यमनोयोगा-ऽसत्यमनोयोग-सत्यासत्यमनोयोगा-ऽसत्यामृषमनो. योगलक्षणानां पञ्चानां मार्गणानां पञ्चवचनानां पञ्चमनोयोगवत् पञ्चानां वचनयोगानाम् औदा. रिकद्विकस्य औदारिककाययोगतन्मिश्रकाययोगलक्षणस्य आहारस्य आहारककाययोगस्य वैक्रियस्य= वैक्रियकाययोगस्य कार्मणस्य कार्मणकाययोगस्य च प्रत्येकं 'स्त्रीनपुसकयोः' स्त्रीवेदमार्गणास्थानस्य नपुंसकवेदमार्गणास्थानस्य च प्रत्येकम् अवेदलोभाकषायाणाम् अपगतवेदमार्गणाया लोभमार्गणाया अकपायमार्गणायाश्च प्रत्येक मनोज्ञाना-ऽवधिद्विकविभङ्गसंयमसामायिकच्छेदसूक्ष्माणां मनःपर्यवज्ञानमार्ग. णाया अवधिद्विकस्य अवधिज्ञानाऽवधिदर्शनरूपमार्गणाद्वयस्य विभङ्गज्ञानमार्गणायाः संयमसामान्यसामायिकसंयम-च्छेदोपस्थापनीयसंयम-सूक्ष्मसम्परायसंयमानां च प्रत्येक परिहार-यथाख्यात-सास्वादना-ऽनाहारकाणां च' पदैकदेशे पदसमुदायोपचोरात् परिहारविशुद्धिकसंयम-यथाख्यातसंयम-सास्वा

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60