Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
२६ ।
कायस्थितिप्रकरणम् [ मत्यज्ञानादीनामुत्कृष्कायस्थितिः एवमविरतिमार्गणाया अपि कायस्थितिर्भावनीया, नवरं तत्र देशसंयम-सर्वसंयमयोरन्यतरस्य प्राप्त्या घटना कार्या, न तु केवलसम्यक्त्वप्राप्त्या ।
इह प्रथमविकल्प आदित्वा-ऽन्तत्वाभावाद् द्वितीयविकल्पे चाऽऽदित्वाभावाद् न संभवति जघन्योष्कृष्टा च कायस्थितिः, तृतीये तु संभवति,सादित्वे सति सान्तत्वात् , तेन मत्यज्ञानादिमार्गणानामुत्कृष्टकायस्थिति भणति-'तइया' इत्यादि, 'तृतीया' सादिसान्तलक्षणा एकजीवाश्रितोत्कृष्टकायस्थितिः, 'हीनापुद्गलपरावर्तः' एकदेशेन हीनोऽर्धपुद्गलपरावर्तो देशोनार्धपुद्गलपरावर्तप्रमाणा भवतीत्यर्थः । इयमत्र भावना-कश्चिदनादिमिथ्यादृष्टिर्जीवो-ऽपार्धपद्गलपरावर्तमात्रशेषसंसारः करणत्रयेणौपशमिकसम्यक्त्वं प्रतिपद्यते, ततः षडावलिकाशेषायामौपशमिकसम्यक्त्वाद्धायां सास्वादनं प्रतिपद्यते । ततः प्रभृत्यज्ञानद्विकस्य सादित्वम् । ततो मिथ्यात्वं गच्छति । ततः संसारचक्रे देशोनार्धपुद्गलपरावन यावत् परिभ्रम्या-ऽन्तमुहूर्त्तमात्रशेषसंसारः सम्यक्त्वं प्रतिपद्यते, तमाश्रित्याऽज्ञानद्विकस्योत्कष्टकायस्थितिः सादिसान्तविकल्पपतिता किञ्चिन्न्यूनार्धपद्गलपरावर्तप्रमाणा, अयमत्र विशेषः-इह देशोनार्धपुद्गलपरावर्तः क्षेत्रतो ग्राह्यः, 'मत्र क्षेत्रपुद्गलपरावर्तो गृह्यते' इति वचनात् । एवं मिथ्यात्वस्याऽपि प्रकृतकास्थितिर्भावनीया, नवरं सम्यक्त्वतः पतित्वा मिथ्यात्वं गतस्य मिथ्यात्वमार्गणायाः कायस्थितेः सादित्वं वाच्यम् । एवमेवाऽविरतमार्गणाया अपि कायस्थितिविवेचनीया, नवरं प्रथमौ. पशमिकसम्यक्त्वेन सहैव देशविरति सर्वसंयम वा प्राप्नोति, ततो देशविरतितः सर्व वरतितो वा श्च्युत्वा-ऽविरतिमभ्युपगम्य संसारकानने परिभ्राम्यतीति वाच्यम् , यदुक्तं श्रीप्रज्ञापनासूत्र"मिच्छादिट्ठी गंभंते ! पुच्छा०, गो० ! मिच्छादिट्ठी तिविधे पं० तं०-अणाइए अपज्जवसिए वा भणादीए वा सपजवसिए, सादिए वा सपज्जवसिए, तत्थ णं जे से सादीए सपज्जवसिते, से जह० अतो०, उक्को० अणतं कालं अणंताओ उस्सप्पिणिोसप्पिणीओ कालतो, खेत्ततो अवडढं पोग्गलपरियट्ट देसूणं । xxxxxxxxx अण्णाणी मतिअण्णाणी सुतअण्णाणी पुच्छा, गो. अण्णाणी मइअण्णाणी सुयअण्णाणी तिविधे पं०, तं० अणाइए वा अपज्जवसिए, अणादीए वा. सपज्जवसिते, सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते, से जह० अंतो० उको० अणतं काल, अणंताओ उस्सप्पिणिओसप्पिणीओ कालतो, खेत्तो अवड्ढपोग्गलपरियट्टे देसूण | xxxxx असंजते ण भंते ! असंजए त्ति, पुच्छा, गो० ! असंजते तिविधे पं०, तं0-अणातीए वा अपज्जवसिते अणातीए वा सपज्जवसिते सातीए वा सपज्जवसिते, तत्थ णं जे से सातीए सपज्वसिते, से जह० अं० उक्को० अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तो अवड्ढं पोग्गललपरियÉ देसूर्ण।" इति ॥१७॥
सम्प्रति मतिज्ञानादिमार्गणानामेकजीवाश्रितामुत्कृष्टकायस्थितिं विभणिपुराह. साहिअछसट्ठिजलही तिणाणसम्मत्तवेअगोहीणं ।
दुविहा अणाइणंता अणाइसंता अचक्खुस्स ॥१८॥ . (प्रे०) 'साहिअ.' इत्यादि, तत्र 'त्रिज्ञान सम्यक्त्व-वेदका-ऽवधीनाम्' एते कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, त्रिज्ञानानां केवलज्ञानमार्गणा-मनःपर्यवज्ञानमार्गणयोरुक्तत्वाद् मतिज्ञान-श्रुतज्ञानाऽव

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60