Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
३० ]
काय स्थितिप्रकरणम्
[ पद्मलेश्यादीनामुत्कृष्ट कायस्थितिः णिरयणवूणा, उज्जोय चउनरयबार विणु सुक्का । विणु नरयबार पम्हा अजिणाहारा इमा मिच्छे ||" इति । तदेवं सहस्रारकन्पदेवानां तिर्यगायुर्वन्धोपलम्भात् तेषां पद्मलेश्या संभाव्यते, अन्यथा शुक्ललेश्यायां तिर्यगायुर्बन्धः कथं स्यात् । न चैतत्स्वमनीषिकया मतान्तरं संभावितम्, श्रीमद्-जयसोमसुरोश्वरैर्बन्धस्वामित्वस्तव के - ऽर्थतः संभावितत्वाद् । सहस्रारदेवानाञ्श्चोत्कृष्टस्थितिरटादश सागरोपमाणि सुप्रतीता । तेन पूर्वोत्तरभवगता - ऽन्तर्मुहूर्तद्वयेनाऽधिकान्यष्टादश सागरोपमाणि पद्मलेश्याया उत्कृष्ट काय स्थितिरेकाजीवाश्रया मतान्तरेण संभवति, सम्यग्दृष्टीनां भाविभवाऽतीतभवोर्लेश्याया अन्तर्मुहूर्तं यावत् सद्भावे विरोधाभावात् । ग्रन्थे त्वन्तमुहूर्तद्वयेनाधिकानि नोक्तानि, स्वल्पत्वात् ।
'भविस्स' इत्यादि 'भव्यस्य' भव्यमार्गणाया ' अनादिसान्ता' अनादिसपर्यवसिता एकजीवाश्रया काय स्थितिर्भवति, अनादिकालतो हि भव्यत्वस्य प्रवृत्तत्वाद् भव्यमार्गणाया: कायस्थितेरनादिता, सिद्धिं यियासोरयोगिकेवलिगुणस्थानके भव्यत्वस्य निवर्तिष्यमाणत्वात् सान्तता ।
'अभवस्स' इत्यादि, 'अभव्यस्य' अभव्यमार्गणायाः 'अनाद्यनन्ता' अनाद्यपर्यवसानैकजीवाश्रयोत्कृष्टा कायस्थितिरिति गम्यते, अनादिकालादभव्यत्वस्य प्रवृत्तत्वात् सिद्धिगमनायोग्यत्वेन व्यवच्छेदाभावात् उक्तं च श्रीप्रज्ञापनासूत्रे - "भवसिद्धिए णं पुच्छा, गो० अणादीए सपज्जवि अभवसिद्धिए णं पुच्छा, गो० ! अणादीए अपज्जवसिते ।" इति ॥ १९ ॥
,
अथा- ऽवशिष्टयोः सास्वादनमार्गणा-ऽऽहारकमार्गणयोरेकजीवाश्रयामुत्कृष्टकाय स्थितिं वक्तु
कामः प्राह
सासाणस्सावलिआ छ भवे आहारगस्स णायव्वा । अंगुल असंखभागो त्ति पडुच्चा बंधगं उत्ता ॥२०॥
1
(प्रे०) 'सासा०' इत्यादि, ‘सास्वादनस्य' सास्वादन मार्गणायाः षडावलिका एकजीवाश्र - योत्कृष्टकायस्थितिः ‘भवेत्, स्यात् । औपशमिकसम्यक्त्वतः पतितः सास्वादनभावं गत उत्कृष्टत आवलिकाषट्कं यावत्सास्वादनभावं भजते, परतो ऽवश्यं मिथ्यात्वं गच्छति, उक्तं च श्रीजीवसमासप्रकरणे -“सासायणेगुजीविय एकसमयाइ जाव छावलिया xxxx ॥ | १ ||" इति । ‘आहारगस्स’ इत्यादि, ‘आहारकस्य' आहारकमार्गणाया 'अङ्गुला : Sसंख्य भागः ' अगुलक्षेत्रस्यासंख्येमागे ये आकाशप्रदेशा भवन्ति तेषां प्रतिसमय मे कैकप्रदेशाऽपहारे यावत्यो- 5संख्येयोत्सर्पिण्यवसर्पिण्यो गच्छन्ति, तावतीर्यावदुत्कृष्टत अविग्रहगत्या जीव उत्पद्यते, परतो द्वयादिविग्रहगत्या समुत्पद्यते, तत्र चानाहारकत्वाद् आहारकमार्गणाया यथोक्तप्रमाणा एकजीवाश्रितोकृष्टा काय स्थितिः, उक्तं च श्रीप्रज्ञापनासूत्रे - "छउमत्थभद्दारए णं भंते ! छउमत्थाहार त्ति फाल० ? गो० ! xxxxx उक्को० असंखेज्जं कालं असंखेज्जाओ उस्सपिणीओसलिणीतो कालतो,

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60