Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 27
________________ २४ ] कायस्थितिप्रकरणम् [स्त्रीवेदादीनामुत्कृष्टकायस्थितिः ऽनाहारककामणकाययोगमार्गणयोस्त्रिसामयिककालः समुद्घातावस्थायां लभ्यते, छअस्थान् प्रतीत्य तु विग्रहगतौ लभ्यते, चतुःसामयिक्या विग्रहगतेः प्रकृतग्रन्थे विवक्षितत्वात् । अथ स्त्रीवेदस्योत्कृष्टकायस्थिति भणति-'पल्ल.' इत्यादि, पल्योपमशतपृथक्त्वं 'स्त्रियः' स्त्रीवेदमार्गणाया एकजीवाश्रयोत्कृष्टकायस्थितिर्भवति , यदुक्तं जीवसमासे-"इत्थिणं पल्लसयपुहुत्तं तु।" इति । स्त्रीवेदकायस्थितेनिरूपणमनेकधा प्रन्थान्तरेषु दृश्यते । तद्यथा-"द्रव्यस्त्रीवेदोदयः पल्योपमशतपृथक्त्वं यावदुत्कृष्टतो भवति ।" इति पञ्चसंग्रहमूलवृत्तौ,एवं श्रीशीलाचार्यकृतजीवसमासवृत्तावपि । पञ्चसंग्रहमलयगिरीयवृत्तौतु"तथा'थी पलियसयपुहुत्त' त्ति स्त्रीवेदो जघन्यत एकं समय, उत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च।" इति । सिद्धान्ते पुनः प्रज्ञापनासूत्रे स्त्रीवेदस्योत्कृष्टकायस्थितिचिन्तायामार्यश्यामपादैः पञ्चादेशाः प्ररूपिताः । तथाहि-"इस्थिवेदे णं भंते ! इत्थिवेदे त्ति काल० ? गो० ! एगेणं आदेसेणं जह० एक्कं समयं, उक्को० दसुत्तरं पलिभोवमसतं पुव्वकोडिपुहुत्तमन्भहियं ॥१।। एगेणं आदेसेणं जह• एगं समयं, उक्को० अट्ठारसपलितोवमाइं पुषकोडिपुहुत्तमम्भहियाई ॥२॥ एगेणं आदेसेणं ज० एगं समय, उक्को० चउहस पलिओवमाई पुत्वकोडिपुहुत्तभन्महियाई ॥३॥ एगेण आदेसेणं ज० एगं समयं, उक्को पलिओवमसतं पुवकोडिपुहुत्तमम्भहियं ॥४॥ एगेण भादेसेणं जह• एगं समय, उक्को० पलितोवमपुहुत्त पुव्वकोडिपुहुत्तमब्भहिमं ॥५॥" इति । इह केवलिनामतिशयज्ञानिनां चैक एवादेशः प्रमाणम् ,अतिशयज्ञानशक्तिविकलानां छमस्थानां तु पञ्चाऽपि, यतोऽनन्तरोक्तपञ्चानामादेशानां मध्ये ऽन्यतमादेशसमीचीनतानिर्णयः केवलज्ञानिभिर्विशिष्ट. श्रुतलब्धिसम्पन्नैर्वा कर्तुं शक्यते । तेन शेमुषीशालिभिर्विद्वज्जनैः स्त्रीवेदस्य प्रस्तुतकायस्थितिरेकजीवाश्रिताऽऽगमा ऽविरोधेन परिभावनीया ॥१५॥ सम्प्रत्यपगतवेदमार्गणाया उत्कृष्टकायस्थितिं भणितुकामो-ऽन्या अपि मार्गणाः संगृह्य प्राहदेसूणपुवकोडी अवेअअकसायकेवलदुगाणं । मणणाणसंजमाणं सामइआईण पंचण्हं ॥१६॥ (प्रे०) देसूण०' इत्यादि, 'देशोनपूर्वकोटिः'देशेन एकदेशेन ऊना=न्यूना पूर्वकोटिः अवेदा-5कषायकेवलद्विकानाम्' अवेदस्य अपगतवेदमार्गणाया अकषायस्य अकषायमार्गणास्थानस्य केवलद्विकस्य केवलज्ञान-केवलदर्शनलक्षणस्य च 'मनोज्ञानसंयमयोः' मनोज्ञानस्य=मनःपर्यवज्ञानमार्गणास्थानस्य संयमस्य संयमसामान्यमार्गणाभेदस्य च 'सामायिकादीनां पश्चानां' सूक्ष्मसम्मरायस्योक्तत्वेनाऽविरतमार्गणायाश्च वक्ष्यमाणत्वेनाऽत्राऽऽदिशब्देन छेदोपस्थानीयसंयम-परिहारविशुद्धिकसंयमयथाख्यातसंयम-देशसंयमानां ग्रहणात् सामायिकसंयम-च्छेदोपस्थापनीयसंयम-परिहारविशुद्धिकसंयम-यथाख्यातसंयम-देशसंयमानां चैकजीवाश्रयोत्कृष्टकायस्थितिर्भवतीति गम्यते । इयमत्र

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60