Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 35
________________ ३२] कायस्थितिप्रकरणम् [ मतान्तरेण पर्याप्तत्रसादीनामुत्कृष्ट कायस्थितिः त्र पर्याप्ता-ऽभिधायी, तेन पर्याप्तत्रसस्य पर्याप्तत्रसमार्गणायाः, चक्षुर्दर्शनस्य चक्षुर्दर्शनमार्गणायाश्च 'भवेत्' एकजीवाश्रयोत्कृष्टकायस्थितिः स्यात् । तत्र यः कश्चिद् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियतो निर्गत्य चतुरिन्द्रियादिषु भूयो भूय उत्पद्यमानो द्वे सागरोपमाणां सहस्र व्यतिक्रमते, तत एकेन्द्रियादिषुत्पद्यते, तमाश्रित्य चक्षुर्दर्शनस्योत्कृष्टकायस्थितिर्द्विसहस्रसागरोपमाणि, उक्तं च जीवसमासे-xxxx चक्खुस्सुदहीण बे सहस्साई ॥१॥ इति तदीयायां शीलाचार्यकृतवृत्तावप्यभिहितम्-"चक्षुर्दर्शनी चतुरिन्द्रियः पञ्चेन्द्रियो वा, स तद्भावममुष्चन् । एवं पर्याप्तत्रसकायस्थोऽपि प्रकृतकायस्थितिविषये सागरोपमसहस्रद्वयं यावदास्ते, तस्य चक्षुर्दर्शनमेतावन्तं कालं भवति ।" इति * । एवं पर्याप्तत्रसकायस्यापि ग्रन्थान्तरसंवादो द्रष्टव्यः । ___ अथ मतान्तरेण नीललेश्या-कपोतलेश्ययोः कायस्थिति भणति-सत्तरह' इत्यादि, तत्र 'नीलकापोतयोः' नीललेश्याया: कापोतलेश्यायाश्च क्रमात् 'सप्तदश' सप्तदशसंख्याकानि 'सप्त' सप्तसंख्यकानि अतरा सागरोपमा 'भवति' एकजीवाश्रितोत्कृष्ट कायस्थितिरस्ति । एतदुक्तं भवतिनीललेश्याकानां जीवानां सप्तदशसागरोपमस्थितिकेषु नारकेपुत्पत्तिाख्याप्रज्ञप्तिधृत्तौ सप्त मशतके तृतीयोदशके श्रीमदभयदेवसरिभिर्विहिता । तथा च तद्ग्रन्थः-"पञ्चमपृथिव्यां सप्तदशसागरोवमस्थितिारको नीललेश्यः समुत्पन्नः xxxx।" इति । तेन न विरुध्यते नीललेश्याया एकजीवाश्रयोत्कृष्टकायस्थितियथोक्तप्रमाणा। तथा वालुकाप्रभाया नवमप्रस्तटं यावत् कापोतलेश्याकानां जीवानामुत्पत्तिं स्वीकुर्वतां महा. बन्धकारादीनां मतेन कापोतलेश्यायाः सप्तसागरोपमाण्युत्कृष्टकायस्थितिर्भवति । इह नीललेश्याकापोतलेश्ययो थाकमं सप्तदशसागरोपमाणि सप्तसागरोपमाणि चाऽन्तर्मुहूर्तद्वयेना-ऽधिकानि ज्ञातव्यानि, पूर्वोत्तरभवयोर्यथाक्रमं चरमे प्रथमे चा-ऽन्तमहूर्तकाले तत्तल्लेश्यायाः सच्चात् । तदेवमभिहिता बन्धकमाश्रित्य गत्यादिमार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिः ॥२१, २२॥ इहाऽपगतवेदादिमार्गणानां बन्धकापेक्षया देशोनपूर्वकोट्यादिप्रमाणा कायस्थितिरभिहिता, किन्तु केषाश्चिद् मन्दमेधसां जनानां व्यामोहः स्यात्-ग्रन्थान्तरेष्वपगतवेदादीनां कायस्थितिः साधनन्ताऽपि प्रतिरादिता दृश्यते । इह ग्रन्थे तथाविधा कुतो न प्रोक्तति प्रस्तुतेऽनुपयोगिनीमपि बन्धकनिरपेक्षा कायस्थितिमाह साइअणंता बंधगनिखेक्खा खइअकेवलदुगाणं । सम्मअकसायगयवेअअणाहाराण साइसंतावि ॥२३॥(गीतिः) * एवं षट्खण्डागमेऽप्युक्तम् "दसणाणुवादेण चक्खुदसणी केवचिरं कालादो होंति ? जहण्ण अंतोमुहुत्तं, उक्कोसेणं वे सागरोवमसहस्साणि ।" इति। *षट्खण्डागमेऽप्युक्तम्-लेस्साणुवादेण किण्हलेस्सिय-णीललेस्सिय-काउलेस्सिया केवचिरं कालादो होति ? जहन्नेणं अंतोमुहुत्तं, उक्करसेण तेत्तीस-सत्तरस-सत्तसागरोवमाणि सादिरेयाणि ।" इति ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60