Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
सम्यक्त्वादीनामुत्कृष्टकायस्थितिः ] कायस्थितिप्रकरणम्
२७ धिज्ञानलक्षणानां त्रयाणां मार्गणास्थानानां सम्यक्त्वस्य सम्यक्त्वसामान्यमार्गणायाः 'वेदकस्य= क्षायोपशमिकसम्यक्त्वमार्गणाया अवधेः अवधिज्ञानस्या-ऽनन्तरमेवोक्तत्वाद् अवधिदर्शनमार्गणायाश्च प्रत्येकं 'साधिकषट्षष्टिजलधयः' सातिरेकाणि षट्षष्टिसागरोपमाण्येकजीवाश्रितोत्कृष्टकायस्थितिभवति । तथाहि-कश्चिन्मनुष्यः सम्यक्त्वेन सहैव मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञानवान् भूत्वा देशोनपूर्वकोटिं यावजीवित्वा त्रयस्त्रिंशत्सागरोपमस्थितिकेषु विजयाद्यनुत्तरेणूत्पद्यते, ततो निर्गत्य पुनर्मनुष्यजन्मन्यप्रतिपतितसम्यक्त्वप्रस्तुतज्ञानत्रयः पूर्वकोटि जीवित्वा त्रयस्त्रिंशत्सागरोपमस्थितिकेष्वनुत्तरेषु पुनरुत्पद्यते, ततोऽप्रतिपतितसम्यक्त्वप्रकृतज्ञानत्रयो भूयो मनुष्येषु समुत्पन्नः पूर्वकोटी जीवित्वा सिद्धयतीत्येवं पूर्वकोटित्रयप्रमाणेन त्रिमनुष्यभवायुष्केणा-ऽधिकानि षट्षष्टिसागरोपमाणि सम्यक्त्वसामान्य-मतिज्ञान श्रुतज्ञाना-ऽवधिज्ञानमार्गणानामेकजीवाश्रयोत्कृष्टा कास्थितिर्भवति, परतस्तु स जीवो मुक्तिमासादयति । अथवाऽप्रतिपतितसम्यक्त्वप्रस्ततज्ञानत्रयो यो मनुष्यत्वेन देशोनपूर्वकोटीं यावद् जीवित्वा द्वाविंशतिसागरोपमस्थितिकेष्वच्युतदेवेषु क्रमेण पूर्वकोव्यायुष्कभवद्वयेनाऽन्तरयित्वा वारत्रयमुत्पद्यते, ततश्वरमभवे पूर्ववत् पूर्वकोट्यायुष्कभवे समुत्पद्यते, तं जीवमाश्रित्य देशोनपूर्वकोटिचतुष्केणाधिकानि षट्पष्टिसागरोपमाणि मतिज्ञानादीनामुत्कृष्टकायस्थितिर्भवति। उक्तंच विशेषाऽऽवश्यकभाष्ये-xxxxxxxxxxxxxxxxअह सागरोवमाइ छाट्ठि सातिरेगाई ॥१॥ दो वारे विजयाईसु गयस्स सिन्नच्चुए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥२॥" इति ।
___उक्तं च श्रीप्रज्ञापनासोऽपि-“सम्महिट्ठी दुविहे पं० त०-सादीए वा अपज्जवसिते, सादीए वा सपज्जवसिते । तत्थं णं जे से सादीए सपज्जवसिते । से जह० तो० उक्को० छावहि सागरोवमाई साइरेगाई। xxxx णाणी णं भंते ! णाणि ति काल०, गो. ! णाणी दुविधे ५०, ०-सातीते वा अपज्जवसिते साइए वा सपज्जवसिते, तत्थं णं जे से सादीए सपज्जवसिते, से जहण्णेणं अतो. उक्को० छावहिँ सागरोवमाई साइरेगाई। अभिनिबोहियणाणी णं पुच्छा, गो० एवं चेव, एवं सुयणाणी वि, ओहिनाणी वि एवं चेव। ___अधिदर्शनस्योत्कृष्टकायस्थितिः सैद्धान्तिकाभिप्रायेण तु सातिरेके द्वे षट्पष्टी सागरोपमाणां भवति, विभङ्गज्ञानिनामपि अवधिदर्शनस्वीकाराव , यदुक्तं श्रीप्रज्ञापनासूत्र-"भोहिदसणी णं पुच्छा, गो० जह० एगं समय, उक्को० दो छावट्ठीओ सागरोवमाणं साइरेगाओ।" इति । भावना तु श्रीप्रज्ञापनावृत्तितो-ऽअसेया । कार्मग्रन्थिकाः पुनराहुः-यद्यपि साकारेतरविशेषभावेन विभङ्गज्ञानतोऽवधिदर्शनं पृथगस्ति , तथापि न सम्यग्निश्चयो जायते विभङ्गज्ञानेन , मिथ्यात्वसंमिश्रत्वात् , नाऽप्यवधिदर्शनेन, तस्यानाकारमात्रत्वात् , अतः किं तेन पृथग् विवक्षितेना-ऽपीति । इत्थं कार्मग्रन्थिकाभिप्रायेण न विभङ्गावस्थायामवधिदर्शनम् । तस्मात् तन्मतेऽवधिज्ञानवदवधिदर्शनस्या-ऽपि कायस्थितिः सातिरेकाणि षट्षष्टिसागरोपमाणि लभ्यते । एवं क्षायोपशमिकसम्यक्त्वस्याऽपि कायस्थिति वनीया । उक्तं च श्री सम्यक्त्वप्रकरणे-"xxx साहियतित्तीससायर, खइलो दुगुणो खओवसमो ॥१॥' इति । तथा च

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60