Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
४० ]
काय स्थितिप्रकरणम् [ सनत्कुमारादीनां जघन्यकायस्थितिः ऐशानसुरमार्गणायाः 'अभ्यधिकपल्यं' साधिकं पल्योपममेकजीवाश्रया जघन्यकायस्थितिः, यत ऐशान सुराणां जघन्यायुष्कमेतावन्मात्रम्, उक्तं च श्रीतत्वार्थ सूत्रे - “अपरा पल्योपममधिकं च" इति । सौधर्माद्यच्युतपर्यवसान कल्पानां सर्वेषु प्रस्तटेषु सुराणां जघन्य काय स्थितिस्तत्तत्कल्पजघन्यस्थितिप्रमाणा भवतीति प्राहुषृहत्संग्रहणोवृत्तिकारादयः श्रीमन्मलयगिरिपादादयः । अन्ये पुनर्भणन्ति-या तत्तत्कल्पानां पूर्वपूर्वप्रस्तटेषूत्कृष्ट स्थितिः, सोत्तरोत्तरप्रस्तटेषु जघन्यस्थितिर्भवतीति, यदुक्तं देवेन्द्रनरकेन्द्रस्तवप्रकरणवृत्तौ श्रीमन्मुनिचन्द्रसूरीश्वरपादैः- “जघन्या त्वधस्तनानन्तर प्रस्तटगतोत्कृष्टा स्थितिर्वाच्या ।" इति ॥ २९||
सम्प्रति सनत्कुमार माहेन्द्रसुराणामेकजीवाश्रयां जघन्यकायस्थितिं निगदितुकामः प्राहदोणि हवेज्जा जलही सणकुमारस्स दोण्णि अन्भहिया । मार्केदस्स हवेज्जा सत्त भवे बम्हदेवस्स ॥३०॥
(प्रे०) 'दोण्णि' इत्यादि, 'द्वौ' द्विसंख्याको 'जलधी' सागरोपमौ 'सनत्कुमारस्य' सनत्कुमारसुरस्यैकजीवाश्रया जघन्यकाय स्थितिर्भवति, द्वौ च सागरोपमा अभ्यधिको 'माहेन्द्रस्य' माहेन्द्र देव मार्गणाया जघन्यकाय स्थितिर्भवति, तयोर्जघन्यभवस्थितेस्तावन्मात्रत्वात् ।
'सत्त' इत्यादि, सप्त सागरोपमाणि 'ब्रह्मदेवस्य' पदैकदेशे पदसमुदायोपचाराद् ब्रह्मलोकसुरस्य 'भवेद्' एकजीवाश्रया जघन्यकायस्थितिः स्यात्, जघन्यभवस्थितेस्तावत्प्रमाणत्वात् ||३०|| सम्प्रति षष्ठादिकल्पसुराणां जघन्यकायस्थितिं व्याजिहीर्षु राह
लंत गदेवाईणं सा बम्हसु राइगाण जा जेट्ठा । सव्वत्थाऽचक्खूणं भवियाभवियाण णत्थि लहू ॥ ३१ ॥
(प्रे०) 'लंतक०' इत्यादि, तत्र 'ब्रह्मसुरादीनां ' ब्रह्मलोक देवप्रभृतिनवमग्रैवेयकसुरपर्यवसानानां 'या 'ज्येष्ठा' उत्कृष्टा काय स्थितिरेकजीवाश्रया 'सोहम्माईण' इत्यादिगाथाद्वयेनोक्ता, सा 'लान्तकसुरप्रभृत्यनुत्तर देवपर्यन्तानां देवानां जघन्यकाय स्थितिर्भवति, जघन्यायुषस्तावत्प्रमाणत्वात् । तथाहि -लान्तकसुरस्यैकजीवाश्रया जघन्यकायस्थितिर्दशसागरोपमाणि, महाशुक्रदेवस्य चतुर्दशसागरोपमाणि, सहस्रारदेवस्य सप्तदश सागरोपमाणि, आनतसुरस्याऽष्टादश सागरोपमाणि, प्राणतसुरस्यैकोनविंशतिः सागरोपमाणि, आरणसुरस्य विंशतिः सागरोपमाणि, अच्युतदेवस्यैकविंशतिः सागरोपमाणि प्रथमग्रैवेयकसुरस्य द्वाविंशतिः सागरोपमाणि, द्वितीयग्रैवेयकसुरस्य त्रयोविंशतिः सागरोमाणि एवमेकोत्तरवृद्धया तावद् वक्तव्या, यावद् विजयवैजयन्तजयन्ताऽपराजितसुराणां प्रत्येकमसागरोपमाणि जघन्य कार्यास्थतिः, सर्वार्थसिद्धसुराणां जघन्यकायस्थितेरनन्तरं प्रतिषिध्यमानत्वात् । समवायाङ्ग तु विजयादिचतुरनुत्तराणां जघन्य स्थितिर्द्वात्रिंशत्सागरोपमाण्यभिहिता

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60