Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
(१२)
द्वितीय-प्रकरणम् ।
पूर्वसेवा।
न दुष्करो योगपथाधिरोहः किं दुष्कर तहि जगत्त्रयेऽपि ?। योगस्य भूमावधिरोहणार्थमादावुपायः परिदर्यतेऽयम् ॥ १॥ .
पूजा गुरूणामथ देवताया आचारशुद्धिस्तपमि प्रवृत्तिः। . . निःश्रेयसे द्वेषविवर्जितत्वमेव शास्त्रेऽकथि · पूर्वसेवा' ॥२॥
पिता च माता च कलागुरुश्च ज्ञातेयवृद्धाः पुनरेतदीयाः । धर्मोपदेशप्रवणा महान्तः सतां मतः श्रीगुरुवर्ग एषः ॥ ३॥
कर्तव्य एतस्य सदा प्रणामश्चित्तेऽप्यमुष्मिन् बहुमान एव । पुरोऽस्य सम्यग् विनयप्रवृत्ति वर्णवादस्य मिबोधनं च ॥ ४ ॥ आराध्यभावः प्रथमोऽस्ति पित्रोविमानयंस्तो लघुधीव॒धोऽपि । आराधयेद् धर्मगुरुकमौ किं नाबद्धमूलस्तरुरेधते हि ॥५॥ पुण्यैर्महद्भिर्गुरुदेवसेवा सम्प्राप्यते, तत्र नहि प्रमादः । कर्तुं नमो बुद्धिमतां कदापि कल्याणगङ्गाप्रभवोऽयमध्वा ।। ६ ।। अनादरं ये गुरुदेवतानां कुर्वन्ति, पात्रं खलु ते कृपायाः । अमी वराका निजकर्मदोषाहता यतः श्रेयसि प्रस्खलन्ति ॥७॥
चलश्रियै दास्यमुपैति यस्य तस्यायमानः परिषद्यते चेत् । न सह्यते तर्हि कथं गुरूणामप्य प्रिया भावुककारणं वाक् ? ॥८॥
प्रेम्णा बलाद् वा वनितावचांसि सत्कारमार्गेऽस्खलितं नयन्ति । वाचं हितां तत्रभवद्गुरूणां न मन्यते, कीवृश एष मोहः ? ॥९॥

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440