Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 417
________________ (२६) जीतोऽपि मित्रादपि पुत्रतोऽपि धर्मः प्रियः स्यादिह प्राणतोपि। धर्माय प्राणानपि विक्षिपेत प्राणान्तकष्टेऽपि न तु त्यजेत् तम्।।१०३।। एवं भवक्षारपयोनिरासात् तत्वश्रुतिस्वादुजलेन पुण्यम् । बीज प्ररोहप्रवणं करोति सम्यातिः सद्रुभूरिभक्तिः ॥१०॥ मिथ्यात्धस्मिश्च दृशां चतुष्केऽवतिष्ठते ग्रन्थ्यविदारणेन । ग्रन्थेविभेदो भवति स्थिरायांतद् दक्चतुष्केऽत्र न सूक्ष्मबोधः।।१०।। अवेद्यसंवेद्यपदाभिधेयं मिथ्यात्वदोषाशयमूचिवांसः । तस्य प्रभावेण कृतावकाशा कृत्येष्वकृत्येष्वविवेकबुद्धिः ॥१०॥ . अवेक्षमाणा अपि जन्म-मृत्यु-जराऽऽमयोपद्रवदुःखपूर्णम् । । संसारमल्पेतरमोहदोपात् समुद्विजन्ते नहि देहभाजः ॥ १०७ ।। अवेद्यसंवेद्यपदं चतुष्के दृशाममूषामपि वर्तमानम् । सत्सङ्गतस्तस्य विनिर्जयेन स्वतोऽपयात्येव कुतर्कराहुः ॥१०॥ शमाम्बुवाहे प्रतिकुल वातं सद्बोधपद्मे च हिमोपपातम् । श्रद्धानशल्यं स्मयकारणं च प्रचक्षते योगविदः कुतर्कम् ॥१.०९॥ बादम्य मार्गाः प्रतिवादमार्गा नानाविधाः सन्ति सतां सभासु । तत्त्वान्तमाप्नोति न खल्वमीभिर्दृष्टान्त आस्ते तिलपीलकोऽत्र।।११।। एकेऽभियुक्ता अमुकं पदार्थ यथाऽनुमानैः परिकल्पयन्ति । अन्येऽभिरूपा अमुमैव भावमन्यस्वरूपं प्रतिपादयन्ति ॥१११॥ अतीन्द्रियार्था यदि हेतुवा दैविनिश्चयाध्यानमधिश्रयेयुः। एतावतः कालत एव तंगु सुनिश्चयः प्राज्ञवरैः कृतः स्यात् ।।१२।। तस्मात् कुतर्क ग्रह उज्झितव्या नानेन कोऽप्यस्ति फलोपलम्भः । मध्यस्थभावे च कृताधकाशे मम्यग्दृशां सम्भविता विकासः।।११३।। सम्यादृशः सन्ति चतन एताः स्थिरा च कान्ता च प्रभा पराप। प्रत्याहृतिस्तत्र भयेत् स्थिरायां स्याद् दर्शनं भ्रान्ति विवर्जित - .. * छन्दाभही नान सम्भाच्यः । अन्य नापीक्षु स्थलेषु ।

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440