Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 435
________________ ( ४४ ) सप्तम-प्रकरणम् । योगश्रेणी । मानस वृत्तिनिरोधं सम्प्रज्ञातेतरप्रकारतया । योगं वदन्ति तज्ज्ञा ध्यानविशेषोऽत्र प्रथमः ॥ १ ॥ वृत्तिक्षयस्वरूपोऽसम्प्रज्ञातोऽस्ति वृत्तयां मनसः | क्षीणा भवन्ति सर्वाः केवलबोधस्तदोदेति ॥ २ ॥ देहस्य वृत्तयः खलु यदा निरुद्रा भवन्ति तत्कालः । योगोऽसम्प्रज्ञाताद् न भिद्यते निर्वृतिद्वारम् ॥ ३ ॥ अध्यात्मं भावना ध्यानं समता वृत्तिमंश्रयः । इत्येवमप्यनृचाना उचाना योगपद्धतिम् ॥ ४ ॥ इच्छा च शास्त्रं च समर्थता नेत्येषोऽपि योगो मत आदिमांऽत्र । प्रमादतो ज्ञानवतोऽप्यनुष्ठाऽभिलाषिणाऽसुन्दरधर्मयोगः ॥ २ ॥ श्रद्धान-बोद्ध दधतः प्रकृष्टी हतप्रमादस्य यथाऽत्मशक्ति । यो धर्मयांगों वचनानुसारी स शास्त्रयोगः परिवेदितव्यः ||६|| शाखादुपायान् विदुषी महर्षेः शाखाऽप्रसाध्यानुभवाधिरोहः । उत्कृष्टसामर्थ्यतया भवेद यः सामर्थ्ययोग तमुदाहरन्ति ॥ ७ ॥ न सिद्धिसम्पादन हेतुभेदाः सर्वेऽपि शास्त्राच्छकनीयबोधाः । सर्वज्ञता तच्छ्रुततोऽन्यथा स्यात् तत्प्रातिभज्ञानगतः स योगः ||८|| तत् प्रातिभ केवलबोधभानोः प्राग्वृत्तिकं स्यादरुणोदयाभम् । 'ऋतम्भरा' 'तारक' एवमादिनामानि तस्मिन्नवदन परेऽपि ॥ ९ ॥ संन्यासरूपः स्मृत एष योगो धर्मस्तथा योग इति द्विधाऽसौ । तत्राssदिमः स्यात् क्षपकावलिस्थे शैलेश्यत्रस्थावति च द्वितीयः ॥ १० ॥

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440