Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 437
________________ (४६) अष्टम-प्रकरणम् । अन्तिमशिक्षा। অনলহাকি মা বলল: এৰি ন যান মী:। . प्रकाशितेऽस्मिन् सकलं प्रकाशतेऽयकाशितेऽस्मिन् मकल तमो. - मयम् ॥ १॥ . मोहप्रणाशेन च तत्प्रकाशनं मोहप्रणाशोऽपि च तत्वचिन्तनात् । चिन्त्यं च नैगुण्यमिदं भवोदधेर्जगत् किमेतत् किमिदं सुखा.. सुखम् ? ॥ २ ॥ वस्तुस्वरूपस्य विचिन्तनातो विवेकमामः प्रकटीभवन्ति । भवप्रपश्चाद् विनिवृत्य सुस्थीभूयाऽन्तरीक्षाकरणेन चिन्ता ॥३॥ एकस्वभावा न हि सर्वलोका विचित्रकमांनुसनेमन्तः । आयुष्क-धी-शक्तिविचित्रतायामहन्ति संवेऽपि न मार्गमेकम् ॥४॥ समग्रसामग्यनुकूलताया न सम्भवः सर्वशरीरभाजाम् । न तेन सर्वेऽपि भवन्ति योग्याः साम्येन योगस्य पथेऽधिरोदम्॥५॥ कुद् यथाशक्ति तथापि ननं कर्तव्यमान्माभ्युदयानुपाति ! शनैः शनैः सञ्चरणेऽपि मागें स्थानं चिरेणाऽप्युपलभ्यते हि ॥ ६ ॥ तत्वावबोधविकासहेतोर्यस्य स्वभावो न विचारणायाः । यातानुयातस्य पृथग्जनस्य न तस्य वैराग्यमुदेति साधु ॥७॥ म साधुरैराग्यविवर्जितत्वेऽपवर्गमागें भवति प्रवेशः । एवं च मानुष्यमनर्थक स्याद् विचारमभ्यस्यतु तेन सम्यक् ॥८॥ . हिंसादिकं पाप मिति प्रसिद्धं तत्र प्रवत्तेत न चेत् कदापि । शिस्य कुर्याद् भजनं च तर्हि संसाधितं निश्चितमात्मकार्यम् ॥९॥

Loading...

Page Navigation
1 ... 435 436 437 438 439 440